सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६१

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६१

मृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहा" ( मैं प्राण के लिए अमृत की आहुति करता हूँ, तुम मुझमें कल्याण के लिए प्रवेश करो, प्राण को स्वाहा ) ॥३॥

न्यस्त भाजने प्रक्षिप्तमन्नं महाव्याहृतिभिः 'भूरग्नये च पृथिव्यै चे' त्यादिभिः प्रदक्षिणमुदकं परिषिच्य, सव्येन पाणिना भोजनपात्रं अविमुञ्चन् अविस्सृजन् 'अमृतोपस्तरणमसी' त्यपः पिबेत् । पुरस्ताद् ग्रहणात् परिधानमे- तदन्नस्येति ज्ञापयति, तथोपरिष्टादिति । इतरथाऽन्यदन्नं भवेत्। 'अन्नममृतं च' इति श्रुतिः। अमृतमन्नं तस्योपस्तरणमुदकं तदेवाऽपिधानं तत्त्वमसोत्युदकमा- मन्त्रयते । 'अपोऽशान, कर्म कुरु' इति यदुक्तमुपनयनसमये तदिदम् । 'प्राणे निविष्टः' इत्यन्तेन जुहोतीति सम्बन्धः । प्राणे प्राणार्थमभिनिविष्टोऽहममृतमन्नं जुहोमि मय्येव । मां च शिवस्सुखहेतुः आविश अप्रदाहाय च भव । स्वाहेति प्रदानप्रतिपादकः । प्रयच्छामीति यावत् । एवमुत्तरेष्वपि यथासम्भवं योज- नीयम् ॥ ३ ॥

पञ्चान्नेन प्राणाहूतीर्हुत्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन् ॥ ४ ॥

अनु०— प्राणों के लिए पाँच आहुतियाँ करने के बाद चुपचाप रहकर मन से प्रजापति का ध्यान करते हुए भोजन करे ॥ ४ ॥

अन्नेन पञ्चप्राणाहूत्यनन्तरं यथेष्टं व्रतयेद् भुञ्जीत । तूष्णींग्रहणेन वाग्यम- निवृत्तिः मन्त्रनिवृत्तिर्वा गृह्यते । ध्यायेदिति शेषः । तेषामपाठः । तथा भूय- श्शब्दात् षष्ठो ग्रासो गृह्यते ॥ ४ ॥

नान्तरा वाचं विसृजेद्यदन्तरा वाचं विसृजेद्भूर्भुवस्सुवरोमिति जपित्वा पुनरेव भुञ्जीत ॥ ५ ॥

अनु०— भोजन करते समय बोलना नहीं चाहिए, यदि बीच में बोले तो फिर भूः, भुवः स्वः ओम् का जपकर पुनः भोजन करे ॥ ५ ॥

ऋञ्जेतत् ॥ ५ ॥

त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डमुद्धृत्याऽद्भिर- भ्युक्ष्य भस्माऽवकीर्य पुनरद्भिः प्रोक्ष्य वाचा च प्रशस्तमुपयुञ्जीत ॥६॥

अनु०— यदि भोजन में चमड़े का टुकड़ा, केश, नख, कीड़ा चूहे का मल दिखायी पड़े तो उस स्थान से भोजन का पिण्ड निकाल कर उस पर जल छिड़के, भस्म बिखेरे, पुनः जल से प्रोक्षण कर और शेष भोजन को खाने योग्य विहित किये जाने पर भोजन करे ॥ ६ ॥

२६२ बौधायनधर्मसूत्रम् [ भोजनविधिः

केशग्रहणं लोमनखादीनामपि प्रदर्शनार्थम् । कीटः बृहतीफलादिप्रभवो
घुणः । तद्ग्रहणं चाऽजीवन्मक्षिकापिपीलिकादीनामपि प्रदर्शनार्थम् । जीवता-
मपवादश्रवणात् 'मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते' इति । आखुपुरीषं
गुदादिपुरीषग्रहणार्थं विड्वराहश्लोकसंगृहीतपरिग्रहार्थं च । यो देशः कीटादि-
संयुक्तः तं देशम् । वाचा प्रशस्तस्योपयोगः प्रशस्तमित्युच्चरिते उपयोगः । उच्चा-
रयिता च स्वयं वाऽन्यो वा यस्तदा प्रयतो भवति ॥ ६ ॥

अथाऽप्युदाहरन्ति—
आसीनः प्राङ्मुखोऽश्नीयाद्वाग्यतोऽन्नमकुत्सयन् ।
अस्कन्दयंस्तन्मनाश्च भुक्त्वा चाऽग्निमुपस्पृशेदिति ॥ ७ ॥

अनु०—इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—"पूर्व की ओर मुख
कर चुप रहकर, भोजन की निन्दा न करते हुए, पृथ्वी पर भोजन का अंश न गिराते
हुए, भोजन पर ही ध्यान देते हुए भोजन करे तथा भोजन करने के बाद अग्नि का
स्पर्श करे ॥ ७ ॥"

आसनप्राङ्मुखत्वयोः पुनरुपादानं पञ्चप्राणाहुत्यन्ते तयोः पर्यवसानं मा
भूदिति । वाग्यतोऽन्नं व्रतयेत् । तूष्णींग्रहणेनैव सिद्धत्वादनुवादः । अकुत्सयन्
अगर्हयन् अपकतुषपर्णपातादिदोषैः । अस्कन्दयम् भूमावनवकिरन् तन्मनाः
अन्नमेव चिन्तयन् भुक्त्वा चाऽऽचान्तश्चाऽग्निमुपस्पृशेदिति योजना ॥ ७ ॥

सर्वभक्ष्यापूपकन्दमूलफलमांसादीनि दन्तैर्नाऽवद्येत् ॥ ८ ॥

अनु०—अपूप, कन्द, मूल, फल, मांस आदि जो बिना काटे ही खाये जा सकते
हों उन्हें दाँतों से काट कर न खाए ॥ ८ ॥

सर्वभक्ष्योदाहरणत्वेनाऽपूपादिग्रहणम् । एतानि दन्तैर्नाऽवद्येत् न खण्डयेत्
दन्तखण्डितावशिष्टं पुनर्भक्षणाय नाऽऽदद्यादित्यर्थः ॥ ८ ॥

नाऽतिसुहितः ॥ ९ ॥

अनु०—अधिक भोजन न करे ॥ ९ ॥

अत्यशनं वर्जयेत् । उक्तं च—
'न भुञ्जीतोध्दृतस्नेहं नातिसौहित्यमाचरेत्' इति ।
अतो मिताशनमिति ॥ ९ ॥

'अमृतापिधानमसि' इत्युपरिष्टादपः पीत्वाऽऽचान्तो हृदयदेशम-