बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २५९
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २५९
श्रौते नास्तीत्युक्तम् । न पुनस्मार्तेऽपि नाऽस्तीति । असंख्येयानि स्मृति-
वाक्यानि सन्ति 'ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा' 'तस्याश्रमविकल्पमेके
ब्रुवत' इति । आह च—
'आश्रमसमुच्चयं द्वितीयं' आयुषो भागं तृतीयम् । इति । तथा चापस्तम्बः-
चत्वार आश्रमाः गार्हस्थ्यं आचार्यकुलं मौनं वानप्रस्थ्यमिति । तत्र भेदे सति
आश्रमाणां बाधो विकल्पस्समुच्चयो वा सम्भवति । तत्र मानवे बाधपक्षस्स-
हेतुकः प्रतिपादितः ।
'सर्वेषामपि चैतेषां वेदश्रुतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठस्स त्रीनेतान् बिभर्ति हि ॥
वेदश्रुत्या हि गृहस्थस्य स्त्र्युपादानप्रभृत्याश्मशानकरणात् सर्वं विधीयते
स्मृत्या । भाष्यकारोऽपि बहु मन्यते स्माऽस्य च गृहस्थाश्रमस्य वेदे श्रुतिवि-
धानतः श्रेष्ठ्यवचनात्तदविरोधेनाऽऽश्रमान्तरप्रतिपत्तिरवगम्यते इति वदन् ।
गौतमोऽपि तुशब्देनेतरौ पक्षौ व्यावृत्त्य सहेतुकममुं पक्षमेवोपसंहृतवान् 'ऐका-
श्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्य' इति । आचार्याभिप्रायस्तु विस्त-
रेण प्रदर्शितः । तस्मात् सूक्तं 'ये चत्वारः पथयो देवयाना इति कर्मवादो नाऽऽ-
श्रमवादः' इति ॥ ३७ ॥
इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मसूत्रविवरणे
द्वितीयप्रश्ने षष्ठोऽध्यायः ॥
द्वितीयप्रश्ने सप्तमोऽध्यायः
द्वादशः खण्डः
स्नानमुक्तं महायज्ञाश्च । अथेदानीमवसरप्राप्तं भोजनमारभते—
अथ शालीनयायावराणामात्मयाजिनां प्राणाहूतीर्व्याख्या-
स्यामः ॥ १ ॥
**अनु०—**अब हम आत्मयाजी (आत्मा में ही अग्नि का आधान कर यज्ञ करने
वाले) गृहस्यों और यायावरों की प्राण देवता की आहुतियों का विवेचन करेंगे ॥१॥
**टि०—**शालीन का अर्थ गृहस्थ और यायावर का भ्रमणशील अर्थ है । इन शब्दों
की व्युत्पत्ति का संकेत आगे तृतीय प्रश्न के प्रथम अध्याय सूत्र ३ में किया गया है ।
'शालाश्रयत्वाच्छालीनत्वम् । वृत्त्या वरया यातीति यायावरत्वम् । अनुक्रमणचरणा-
२६० बौधायन-धर्मसूत्रम् [ भोजनविधिः
च्चकचरत्वम् ।" गोविन्दस्वामी—"विस्तीर्णाभिः शालाभिर्युक्ताः शालीनाः । यहाँ 'प्राण' शब्द से अपान आदि का भी अर्थ ग्राह्य है ।
शालीनयायावराश्च गृहस्था एव केनचिद् वृत्तिविशेषेणोच्यन्ते । 'आत्मयाजी पुनः 'जीर्णस्स्यात् तस्याऽग्निहोत्रचेष्टायाम्' इत्यनेन विधानेनाऽऽत्मनि समारूढाग्निः 'तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः' इत्यत्रोक्तो वा । एतेषामुपादानं मुनेरपि वक्ष्यमाणेन विधिना भोक्तव्यम्, किमङ्ग पुनरन्यैराश्रमिभिरित्येतत्प्रदर्शयितुम् । प्राणदेवत्या आहुतयः प्राणाहुतयः । प्राणशब्दोऽपानादीनामप्युपलक्षणाय ॥ १ ॥
सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुख उपविश्य तद्भूतमाह्रियमाणं भूर्भुवस्सुवरोमित्युपस्थाय वाचं यच्छेत् ॥ २ ॥
**अनु०—**दिन के सभी आवश्यक कर्मों को कर लेने के बाद अच्छी प्रकार स्वच्छ किए गये और लिपे हुए स्थान पर पूर्व की ओर मुख कर बैठे हुए लाये जाते हुए भोज्य अन्न की 'भूः भुवः स्वः ओम्' कहकर पूजा करे और मौन रहे ॥ २ ॥
अवश्यं भाव्यावश्यकं तन्नियोगतोऽहरहः कर्तव्यम् । सर्वावश्यकपरिसमाप्तिर्मध्यन्दिनात् प्रागेव¹ 'पूर्वाह्ने वै देवानां मध्यन्दिने मनुष्याणामपराह्णे पितॄणाम्' इति श्रुतेः । तथा दक्षेणाऽप्युक्तम्— 'पञ्चमे भोजनं स्मृतम्' इति । संमृष्टः शोधितः । उपलिप्तो गोमयेनोदकेन च । देशग्रहणं भूमौ पादनिधानार्थम् । तेन पादावासनमारोप्य न भुञ्जीतेति गम्यते । प्राङ्मुखत्वं नित्यवत् कर्तव्यम् । उपवेशनग्रहणात् स्थानशयननिवृत्तिः प्रतीयते । ²तेनाऽनेन मन्त्रेण उपस्थाय नमस्कृत्य मौनी भवेत् ॥ २ ॥
न्यस्तमन्नं महाव्याहृतिभिः प्रदक्षिणमुदकं परिषिच्य सव्येन पाणिनाऽविमुञ्च 'नमृतोपस्तरणमसी' ति पुरस्तादपः पीत्वा पञ्चान्नेन प्राणाहुतीर्जुहोति "प्राणे निविष्टोऽमृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहे" ति ॥ ३ ॥
**अनु०—**सम्मुख रखे हुए भोज्यान्न के चारो ओर महाव्याहृतियों के उच्चारण के साथ दाहिने ओर से जल छिड़क कर, बायें हाथ से भोजन पात्र को पकड़े हुए ही "अमृतोपस्तरणमसि" ( तुम अमृत अन्न के उपस्तरण हो ) कहकर जल पिये । फिर पाँच बार अन्न से प्राणों के लिए यह कहते हुए. आहुति करे "प्राणे निविष्टोऽ-
१. पूर्वाह्णः, मध्यन्दिनः, अपराह्नः, इति प्रथमान्तपाठः शाबरभाष्ये ।
२. मानवमतेन ग. पु.