बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
दशमः खण्डः ] चतुर्थप्रश्ने प्रथमोऽध्यायः ३६३
दशमः खण्डः ] चतुर्थप्रश्ने प्रथमोऽध्यायः ३६३
प्रायश्चित्त का निर्देश करना चाहिए। बड़े अपराधों के लिए अधिकाधिक प्रायश्चित्त करना चाहिए और छोटे अपराध के लिए हल्के प्रायश्चित्त करने चाहिए ॥ २ ॥
यद्यत्रेति देशकालवयश्शक्त्यादीनपेक्ष्य काचिन्नानार्थानां गुरुघूनामपि तन्त्रता भवतीत्येतदनेन कथ्यते ॥ २ ॥
लघुनोत्युक्तं तन्नाऽऽह—
विधिना शास्त्रदृष्टेन प्राणायामान् समाचरेत् ॥ ३ ॥
अनु०—शास्त्र में बतायी गयी विधि के अनुसार ही प्राणायाम करने चाहिए । ३ ।
श्रुतिस्मृतिशिष्टागमादि शास्त्रं तत्र दृष्टो विधिः, स च प्राणायामेषु प्रतो-क्षितव्य इत्यर्थः ॥ ३ ॥
अधुना प्रायश्चित्तविषयानाह—
यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् ।
बाहुभ्यां मनसा वाचा श्रोत्रत्वग्घ्राणचक्षुषा ॥ ४ ॥
अनु०—जो पाप जननेन्द्रिय से किये गये हों या जो दुष्कर्म पैरों से किया गया हो, बाँहों से, मन से, वाणी, कानों, त्वचा, नासिका या नेत्रों से किये गये हों ( उनके लिए शास्त्र की विधि से प्राणायाम करना चाहिए ) ॥ ४ ॥
एतेषु समसंख्याकानेव प्राणायामान् चरेदि ^१त्यध्याहारः ॥ ४ ॥
ननु चक्षुश्श्रोत्रमनोभिरित्यसंयुक्तैरेव पापं कर्तुं शक्यते त्वक्पादबाहूपस्थ-घ्राणैस्त्वन्यसंयुक्तैरेव । वाचा' पापमितरण्यस्मिन् श्रुतवत्येव । अतो विषमसममी-करणमन्याय्यमिति मत्वाऽऽह—
अथ वाचा चक्षुश्श्रोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणाया-मैश्शुद्ध्यति ॥ ५ ॥
अनु०—अथवा नेत्रों, कानों, त्वचा, नासिका और मन से जो पाप कर्म किये गये हों उनसे तीन प्राणायाम करने पर ही शुद्धि हो जाती है ॥ ५ ॥
एतेषु त्रिभिरितिवचनादुपस्थादिष्वाधिक्यं गम्यते । प्राणायामप्रवृत्तेनाऽपि पयोव्रततादयो नियमा अनुमरणीयाः ॥ ५ ॥
अथेमान्यपराणि प्राणायामनिमित्तानि—
शूद्रान्नस्त्रीगमनभोजनेषु केवलेषु पृथक्पृथक् सप्ताहं सप्त सप्त प्राणायामान् धारयेत् ॥ ६ ॥
१. इत्यभिप्रायः इति, ग. पु. ।
३६४ | बौधायन-धर्मसूत्रम् | [शूद्रागमनादिप्रायश्चित्तम्
अनु०—शूद्रा का अन्न खाने, शूद्रा स्त्री से मैथुन करने का अपराध अलग-अलग करने पर सात दिनों तक प्रतिदिन सात-सात प्राणायाम करे ॥ ६ ॥
शूद्रान्नभोजने शूद्रस्त्रीगमने इति पदयोजना। शूद्रान्नशब्दश्शूद्राहृतस्य शूद्रस्पृष्टस्यान्नस्य चोपलक्षणार्थः। एवं च सति शूद्रस्त्रीगम(भोज)नेन सह बहुवचनोपपत्तिः केवलग्रहणात् प्रत्येकं प्रायश्चित्तम्। पृथग्ग्रहणादेकस्मिन्नपि प्रतिकर्माभ्यासः। ननु—'शूद्रान्नभोगमनभोजनेष्वब्लिङ्गाभिर्वारुणीभिरप उपस्पृशेत्' इत्युक्तम्। नैष दोषः, आतिदेशिकविषयत्वात्तस्य। किं तदातिदेशिकं शूद्रत्वम् ? इदं तत्—
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥ इति॥
'अश्रोत्रिया अननुवाक्या अनग्नयश्शूद्रसधर्माणो भवन्ति' इति च। तस्माददोषः॥ ६॥
अभक्ष्याभोज्यापेयानाद्यप्राशनेषु तथाऽपण्यविक्रयेषु मधुमांसघृततैलक्षारलवणावरान्नवर्जेषु यच्चान्यदप्येवं युक्तं द्वादशाहं द्वादश द्वादश प्राणायामान् धारयेत् ॥ ७ ॥
अनु०—अभक्ष्य अन्न का भोजन करने, निषिद्ध और अपेय पदार्थ का पान करने, मधु, मांस, घृत, तेल, मसाला, नमक, निम्नकोटि के अन्न को छोड़कर अन्य जिन वस्तुओं का विक्रय निषिद्ध है उनके बेचने तथा इसी प्रकार के अन्य अपराधों के लिए बारह दिन तक प्रतिदिन बारह-बारह प्राणायाम करे ॥ ७ ॥
अत्राऽनाद्यशब्दो व्रात्यीये अनग्नीये वा द्रष्टव्यः। यथाश्रुतार्थग्रहणे सत्यभक्ष्यशब्देन पुनरुक्तिप्रसङ्गात्। अपण्यान्यश्वादीनि मधुमांसादिवर्जितानि। घृतग्रहणं क्षीरादेरपि पर्युदासप्राप्त्यर्थम्। एतेषु हि दोषगरिमा विद्यते।
सद्यः पतति मांसेन लाक्षया लवणेन च।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्॥
इति वसिष्ठवचनात्। यच्चाऽन्यदित्यप्रतिग्राह्यप्रतिग्रहादेरुपलक्षणार्थम्। एवंयुक्तं एवंविधमित्यर्थः॥ ७॥
पातकपतनीयोपपातकवर्जेषु यच्चाऽन्यदप्येवंयुक्तमर्धमासं द्वादश द्वादश प्राणायामान् धारयेत् ॥ ८ ॥
पातकपतनीयवर्जेषु यच्चाऽन्यदप्येवंयुक्तं द्वादश द्वादशाहान् द्वादश द्वादश प्राणायामान् धारयेत् ॥ ९ ॥