बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९१
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९१
एवं जनकादिः अन्यशिष्यान् प्रत्याह—
२अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वप्सुः । जन-
यितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ३६ ॥
अनु०—सावधान होकर सन्तान की उत्पत्ति की रक्षा करो, कहीं तुम्हारे क्षेत्र में दूसरे के बीज न पड़े । मृत्यु के बाद पुत्र उत्पन्न करने वाले का होता है ओर पति सन्तान की उत्पत्ति को निष्फल कर देता है ॥ ३६ ॥
अन्ये बीजवपनं मा कार्षुः। तत्र को दोषः? जनयितुः पुत्रो भवति साम्प-
राये परलोकेऽपि यदनेन पिण्डोदकदानादि जनयितुरेव भवेत् , न क्षेत्रिण
इति । ननु। भार्यायाः पुत्रस्य च रक्षणपोषणचिकित्सादि सर्वं क्षेत्रिणैव
क्रियते, तत्कथमस्मिन् पक्षे इति ? उच्यते—मोघं वेत्ता कुरुते तन्तुमेतमिति ।
वेत्ता लब्धा क्षेत्रस्य कुरुते यतं तन्तुं मोघं कुरुते निष्फलोऽस्य प्रयासः इत्यभि-
प्रायः । इतिशब्द औपजङ्घनेर्मतोपसंहारार्थः ॥ ३६ ॥
अथेदानीं स्वकीयमतेन पुत्रभरणक्रममाह—
तेषामप्राप्तव्यवहाराणामंशान् सोपचयान् सुनिगुप्तान्निदध्युरा-
व्यवहारप्रापणात् ॥ ३७ ॥
अनु०—पुत्रों में जो वयस्क न हों (बालिग न हों) उनके अंश को तथा सम्पत्ति के उस अंश पर होने वाले लाभ एवं वृद्धि को अत्यन्त सावधानी से उस समय तक सुरक्षित रखे जब तक वे समझदार या बालिग न हो जायें ॥ ३७ ॥
अप्राप्तव्यवहाराश्च बाला आ षोडशाद्वर्षात् । तथा हि—
गर्भस्थैस्सदृशो ज्ञेय आऽष्टमाद्वत्सराच्छिशुः ।
बाल आ षोडशाज्ज्ञेयः पौगण्डश्चेति शब्द्यते ॥
तेषां पुत्राणां मध्ये बालानामंशान् सोपचयान् गुप्तान्निदध्युः । उपचयो
नैयायिकी वृद्धिः । तथा बालानां द्रव्यं वर्धयेत् । उपचीयमानांश्चांशान्वा
सुगुप्तान् रक्षितान् अव्यवहारप्रापणान्निदध्युः ॥ ३७ ॥
अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः ॥ अन्धजडक्लीबव्यसनि-
व्याधितादींश्च ॥ अकर्मिणः ॥ पतिततज्जातवर्जम् ॥ ३८–४१ ॥
अनु०—जो किसी प्रकार का ( सम्पत्ति विषयक ) व्यवहार करने में असमर्थ हों उन्हें भोजन, वस्त्र आदि देकर उनका भरण-पोषण करे, यथा—अन्धे, जड,
२, cf. व. ध. १७. ९.
१९२ बौधायन-धर्मसूत्रम् [ पुत्रमातृभरणम्
नपुंसक, बुरी आदत में पड़े हुए, रोगी पुत्रों को, कोई कर्म करने में असमर्थ को; किन्तु पतित को तथा उसके पुत्रों का भरण-पोषण न करे ॥ ३८-४१ ॥
बिभृयादित्यनुवर्तते । अन्धः प्रसिद्धः । अकिञ्चित्करो जडः । क्लीबः षण्ढनामा तृतीया प्रकृतिः । व्यसनी द्यूतादिषु प्रसक्तमनाः । अचिकित्स्यरोगी व्याधितः । आदिग्रहणात्परत्र पङ्कुकुब्जादयो गृह्यन्ते । अकर्मणस्समर्था अपि सन्तो निरुत्साहाः । पतितस्तत्सुतश्च पतिततन्जातौ । तथा च वसिष्ठः-‘पतितोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः’ इति ॥ ३८-४१ ॥
न पतितैस्संव्यवहारो विद्यते ॥ ४२ ॥
अनु०—पतितों के साथ किसी प्रकार का सम्पर्क न होना चाहिए ॥ ४२ ॥
औरसैरप्राप्तव्यवहारैरपि । भरणन्तु । तेषां कर्तव्यमित्युक्तम् ॥ ४२ ॥
पतितामपि तु मातरं बिभृयादनभिभाषमाणः ॥ ४३ ॥
अनु०—किन्तु पतिता होने पर भी माता का भरण-पोषण करे, परन्तु उससे भाषण न करे ॥ ४३ ॥
यद्यपि माता भाषेत च । तथा च गौतमः—‘न कर्हिचिन्मातापित्रोरवृत्तिः’ इति । अवृत्तिरशुश्रूषा अरक्षणं वा ॥ ४३ ॥
उक्तः पुत्राणां दायविभागः । दुहितरः किं लभेरन्नित्यत आह--
मातुरलङ्कारं दुहितरस्साम्प्रदायिकं लभेरन्नन्यद्वा ॥ ४४ ॥
अनु०—पुत्रियां माता के उन आभूषणों को प्राप्त करती है, जो परम्परा से मिले हुए हों अथवा अन्य वस्तु भी जो परम्परा से उपहार मिली हो उसे प्राप्त करें ॥ ४४ ॥
टि०—साम्प्रदायिक का तात्पर्य है स्थानीय रीति के अनुसार प्राप्त । यहाँ उस आभूषण से तात्पर्य है जो नाना और नानी से मिले हों । इसी प्रकार नाना या नानी से माता को मिले हुए उपहार को पुत्री प्राप्त करती है ।
साम्प्रदायिकमित्यलङ्कारविशेषः । सम्प्रदायागतो लब्धस्साम्प्रदायिकः मातामहेन मातामह्या वा स्वमात्रे यद्दत्तं तत्साम्प्रदायिकं अन्यत् असाम्प्रदायिकं खट्वादिशनप्रावरणादिकमात्मनः । एतावदेव दुहितरो लभेरन् नाऽन्यत् ॥ ४४ ॥
न स्त्री स्वातन्त्र्यं विदन्ते ॥ ४५ ॥
अनु०—स्त्रियों को स्वतन्त्रता नहीं होती ॥ ४५ ॥
टि०—इस सूत्र की व्याख्या में गोविन्दस्वामी ने इस सूत्र को सम्पत्ति के बंटवारे के सम्बन्ध में लिया है । किन्तु जैसा ब्यूहलेर ने ठीक ही निर्णय किया है—इस