सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२५

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२५

र्णिकमेव पापप्रमोचनम्-‘यदुपस्थकृतं पापम्’ ( ८-१८) इत्येवमादिना । वसि-
ष्ठश्चैतमर्थमनुमोदमान उपलक्ष्यते-‘अथाऽऽचामेदग्निश्चेति सायं सूर्य-
श्चेति प्रातः मनसा पापं ध्यात्वा निवदन्’ इति यद्यपि रहस्यप्रायश्चित्तप्रकरण
इदं पठ्यते तथाऽपि वाक्यादविगानसमाचारादहरहरप्यवगन्तव्यम् । सुरभि-
मती ‘दधिक्राव्णः’ इत्युक्त । अब्लिङ्गाः अब्देवल्यः ताश्च$^२$ ‘आपो हि’ इति
तिस्रः । वारुण्यो वरुणदेवत्याः ताश्च$^३$ ‘यच्चिद्धि ते’ इति तिस्रः । केचित् ‘अव
ते हेडः’ इति ‘इमं मे वरुण’ इति ऋचावपीच्छन्ति । ‘हिरण्यवर्णाः’ इति
चतस्रः । पावमान्यः ‘पवमानः सुवर्चनः’ इत्यनुवाकः । अन्यानि पवित्राण्य-
घमर्षणादीनि स्वयमेव वक्ष्यति-‘उपनिषदो वेदादयः’ (३.१०.१०) इति प्रक्रम्य
‘सावित्रीति चेति पावनानी’ त्यन्तेन । यद्वा-‘अघमर्षणं देवकृतम्’ (४.३.७.)
इत्यत्र । प्रयत: पूतस्सन्योपासनयोग्यो भवति ॥ २ ॥

अथ स्नानप्रोक्षणयोर्व्यवस्थामाह—

अथाऽप्युदाहरन्ति—
अपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् ।
मन्त्रवत्प्रोक्षणं चाऽपि द्विजातीनां विशिष्यते इति ॥ ३ ॥

अनु०—इस विषय में निम्नलिखित गाथा भी उद्धृत करते हैं—जल में डुबकी
लगाना और स्नान करना सभी वर्णों के लिए विहित है; किन्तु मन्त्रों के उच्चारण
के साथ प्रोक्षण का कर्म केवल द्विजाति वर्णों के लिए ही विशेष रूप से है ॥ ३ ॥

अपोऽवगाहनमिति वारुणं स्नानमाह । तच्च सार्ववर्णिकं सर्ववर्णसाधा-
रणम् । मन्त्रवत्प्रोक्षणं पूर्वोक्तैर्मन्त्रैर्मार्जनं तच्च ब्राह्मणादित्रैवर्णिकानां विशिष्टं
स्नानम् । एवं चाऽद्विजस्य वारुणमेव । द्विजातीनां पुनरुभयोरंसमुच्चयस्सति
सम्भवे । असम्भवेऽपि तेषां मार्जनमवश्यंभावि ॥ ३ ॥


१. दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण
आयूँषि तारिषत् ॥
२. आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिव-
तमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य
क्षयाय जिन्वथ । आपो जनयथा च नः ।
३. यच्चिद्धि ते विशो यथा तदेव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ यत्कि-
ञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा
नस्तस्मादेनसो देव रीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न
विद्म, सर्वा ता विष्य शिथिरेव देवाऽथाते स्याम वरुण प्रियासः ॥

१८ बौ०ध०

२२६ बौधायन-धर्मसूत्रम् [सन्ध्योपासनम्

किञ्च—
सर्वकर्मणां चैवाऽऽरम्भेषु प्राक्सन्ध्योपासनकालाच्चैतेनैव पवित्र-
समूहेनाऽऽत्मानं प्रोक्ष्य प्रयतो भवति ॥ ४ ॥

**अनु०—**जो व्यक्ति सभी धार्मिक क्रियाओं के प्रारम्भ में सन्ध्योपासन काल से पहले भी इन्हीं पवित्र करने वाले मन्त्रों के समूह से अपना प्रोक्षण करता है, वह शुद्ध हो जाता है ॥ ४ ॥

सर्वकर्माणि श्रुतिस्मृतिशिष्टागमसिद्धानि । सर्वकर्मग्रहणेनैव सिद्धे सन्ध्यो-
पासनस्य पृथग्ग्रहणं तस्याऽत्यन्तप्राशस्त्यप्रतिपादनार्थम् । तच्च प्रदर्शितमस्मा-
भिरथातश्शब्दयोरभिप्रायं वर्णयद्भिः । पवित्रसमूहेन सुरभिमत्यादीनां स्तोमे-
नाऽऽत्मानं प्रोक्ष्याऽद्भिरेवाऽऽत्मानं परितोऽपि रक्षा कर्तव्या । अत ऊर्ध्वं
गायत्र्याऽभिमन्त्रितेनाऽम्भसा हतानि रक्षांस्यात्मानमाह—मृत्युरिति । यच्च
स्वाध्यायब्राह्मणे पठितम्-‘सन्ध्यायां, गायत्र्याऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति’
‘यत्प्रदक्षिणं प्रक्रमन्ति’ इति च । तदपि प्रसिद्धत्वादेव नोक्तमाचार्येण, ‘अग्निश्च’
इत्यादिमन्त्रद्वयवत् । स्मृतिरप्यस्ति—

कराभ्यां तोयमादाय सावित्र्या चाऽभिमन्त्रितम् ।
आदित्याभिमुखो भूत्वा प्रक्षिपेत् सन्ध्ययोर्द्वयोः ॥ इति ।

एतदुक्तं भवति—सन्ध्योपासनवेलायां कर्तव्येषु समन्त्रकाचमनप्रोक्षण-
जलोत्क्षेपणप्रदक्षिणसावित्रोजपोपस्थानेष्वाचार्येण स्वशाखायामनुक्ता उक्ताः ।
उक्तास्तु नोक्ताः सिद्धत्वादेव । न केवलमुत्क्षेपणप्रदक्षिणे एव भवतः ॥ ४ ॥

अथाऽप्युदाहरन्ति—
दर्भेष्वासीनो दर्भान् धारयमाणस्सोदकेन पाणिना प्रत्यङ्मुखस्सा-
वित्रों सहस्रकृत्व आवर्तयेत् ॥ ५ ॥

**अनु०—**इस विषय में निम्नलिखित पद्य भी उद्धृत करते हैं—
कुशों के ऊपर बैठकर अपने (दाहिने) हाथ में कुश लेकर, हाथ में जल लेकर, पश्चिम की ओर मुख कर एक सहस्र बार गायत्री मन्त्र का जप करे ॥ ५ ॥

**टि०—**पश्चिम की ओर मुख सायंकालीन सन्ध्या में किया जाता है । जप ऋषि, छन्द, देवता, विनियोग के साथ किया जाता है । प्रणव तथा व्याहृतियों के ऋषि वामदेव हैं । गायत्री छन्द है । ओंकार सभी का देवता है । सावित्री मन्त्र के ऋषि विश्वामित्र हैं । छन्द गायत्री है और देवता है सविता ।