सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

अनु०—अग्न्याधेय में "यदद्वो देवहेलनम् । यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधत्" मन्त्र से पूर्णाहुति करे ॥ १४ ॥

जुहुयादिति शेषः ॥ १४ ॥

अग्निहोत्रं दर्शयितुमाह—

'हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावार-
प्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा
पशुबन्धे षड्ढोत्रा सोमे सप्तहोत्रा ॥ १५ ॥

अनु०—इस पूर्णाहुति के बाद जो अग्निहोत्र आरम्भ करने वाला हो वह 'चित्तिस्स्रुक्' आदि अनुवाक के दशहोतृ नाम के मन्त्रों से पूजन करे। इस आहुति के बाद दर्शपूर्णमास आरम्भ करने वाला 'पृथिवी होता' आदि चतुर्होतृ मन्त्रों से पूजन करे। इस आहुति के बाद चातुर्मास्य यज्ञ आरम्भ करने वाला 'अग्निर्होता' आदि पञ्चहोतृ मन्त्रों से पूजन करे। इस आहुति के बाद पशुबन्ध यज्ञ में करने वाले 'वाग्घोता' आदि षड्ढोता मन्त्रों से पूजन करे और सोम यज्ञ में 'महाहविः' सप्तहोतृ मन्त्र से पूजन करे ॥ १५ ॥

^२दशहोता 'चित्तिस्स्रुक्' इत्यनुवाकः ^३'पृथिवी होता' चतुर्होता । ^४'अग्नि-


१. सूत्रस्याऽस्य मूलभूतानि श्रुतिवाक्यानि—तैत्तिरीयब्राह्मणे द्वितीयाष्टके ( काण्डे ) द्वितीयानुवाके—"तेनैवोद्धृत्याऽग्निहोत्रं जुहुयात्" । "दर्शपूर्णमासावा-
लभमानः चतुर्होतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "चातुर्मास्यान्यालभमानः
पञ्चहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "पशुबन्धेन यक्ष्यमाणः षड्ढोतारं
मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुद्रुत्याऽऽह-
वनीये जुहुयात्" इति वाक्यान्यनुसन्धेयानि ।

२. चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदः । आधीतं बर्हिः । केतो अग्निः ।
विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । वाच-
स्पते विधे नामन् । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । अस्मासु
नृम्णन्धास्स्वाहा ॥ इति दशहोता ॥

३. पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । वाचस्पते वाचो
वीर्येण । सम्भृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं
पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ॥ इति चतुर्होता ॥

४. अग्निह्रोता । अश्विनावध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता । सोमस्सो-
मस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । आतास्त इन्द्र सोमाः वातापेहंवनश्शुतस्स्वाहा
॥ इति पञ्चहोता ।

३३८बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

पुनर्नो नष्टमा कृषि पुनर्नो रयिमा कृषि", "पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥" "सहस्रथ्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वाप्सिन्या विश्वतस्परि" ( तैत्तिरीय संहिता ४.२.१.२ ) के चार मन्त्रों से चार अभ्यावर्तिनी आहुतियां करे यजमान के आसन पर बैठकर हाथ में समिध् लेकर "वैश्वानराय प्रतिवेदयाम आदि बारह ऋचाओं वाले सूक्त से अग्नि की पूजा करे "यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम्, स्वाहा" ( मैने मन से, वाणी से जो कुछ पाप कभी किए हैं उन सभी से तुम मुझे मुक्त करो । मैं तुम्हारी प्रार्थना करता हूँ, तुम सभी को सही रूप में जानते हो ) इस मन्त्र से अग्नि पर समिध् रखे और उत्तम गौ दक्षिणा के रूप में प्रदान करे ॥ ११ ॥

पाकयज्ञधर्मग्रहणादाहवनीयो निवर्तते । अग्निमुखात्कृत्व¹ अनाम्नातया पकहोमं कृत्वा सौविष्टकृतं च । यद्देवाद्य उपहोमाः । यजमानलोके दक्षिणतोऽग्नेः । अन्यत्राऽप्युपस्थानचोदनायां समित्पाणिता समिदभ्याधानं च द्रष्टव्यम् । 'यन्मे मनसेत्यस्य वामदेवर्षिः कण्वर्षिर्वा । अनुष्टुप्छन्दः । अग्निर्देवता यद्वाङ्मनसाभ्यां-कृतमेनः कस्यां चिदवस्थायां तस्मात् सर्वस्मात् मा मां ईळितः स्तुतः त्वं मोग्धिं मोचय; हि यस्मात् वेत्थ त्वमेव सर्वं यथातथं वेत्सि परितः । वरः वरिष्ठा गौः ॥ ११ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १२ ॥

एक एवाऽग्नौ परिचर्यायाम् ॥ १३ ॥

अनु०— मन्त्रों के जप से लेकर दक्षिणा में गो का दान करने तक की क्रियाएं ज्ञात ही हैं ॥ १२ ॥

अनु०— केवल एक ही व्यक्ति अग्नि की परिचर्या का कर्म करे ॥ १३ ॥

येयमग्नौ परिचर्या उक्ता, तस्यामेक एव स्वयं कर्ता स्यात् नाऽन्यं कर्तारं वृणीते । तस्मादन्यत्र पापक्षपणेषु परकर्तृकत्वाडपि भवतीति गम्यते । अग्नावित्येकवचननिर्देशाच्चाऽस्मिन्नेतत्स्वयं कर्तव्यम्, न त्वाहवनीयेऽपि । तत्र ह्यनादिष्टेऽध्वर्युणैव होतव्यमित्येतदेव ॥ १३ ॥

एवं तावत्पुरुषार्थतया होमविधिरुक्तः । अथेदानीं 'कर्मादिष्वेवैतैर्जुहुयात्' इत्येतद्व्याख्यातुमाह—

अग्न्याधेये यद्देवोदेवमहेलनम् । यद्दीव्यन्नृणमहं बभूव ।
आयुष्टे विश्वतो दधदिति पूर्णाहुतिम् ॥ १४ ॥


१. "यन्मे मनसा" इति ख. ग घ. पु. पाठः ।