बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ४०१
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ४०१
देवार्षाः । सहस्राक्षस्तु नारायणर्षिः । तत्राऽनुक्तच्छन्दसः त्रैष्टुभा वेदितव्याः ।
'सहस्रशीर्षा' इत्याद्याः पञ्च अनुष्टुभः । मुगारण्याम्यासुकर्मणि 'अनु नोऽद्यानुमतिः,
अन्विदनुमते त्वम' 'ये अप्रयेताम्, ऊर्ध्वी रोदसी' इत्येता अनुष्टुभः । 'वैश्वानरो
नः' इति गायत्रो । 'यदिदं बृहतो । अंहोमुचौ तु यजुषी एव । ततश्छन्दोविशेषा-
नादरः यद्यजुषाऽऽज्यं यजुषाऽप उत्पूनीयात् , छन्दसाऽप उत्पूनाति' इति
यजुश्छन्दसोर्भेदनिर्देशात् । पावमानीषु पुनः प्रथमाद्वितीयाचतुर्थीपञ्चम्यष्ट-
म्यो गायत्र्यः । तृतीया नवम्याद्या अन्त्यवर्जाइचाऽनुष्टुभः । कूष्माण्डीषु
प्रथमाऽनुष्टुप् द्वितीयाऽतिजगती तृतीयाचतुर्थ्यो जगत्यौ, पञ्चम्यतिशक्वरी सप्तमी
शक्वरो अष्टमो जगती, नवमी पंक्तिः दशम्येकादश्यौ शक्वर्यौ, त्रयोदश्य-
त्यष्टिः, चतुर्दश्यनुष्टुप् । ततो गायत्र्यौ । सर्वलिङ्गोक्तदेवताः । सहस्राक्षस्तु
पौरुषः ॥ ५ ॥
घृतौदनेन ता जुहुत्सप्ताहं सवनत्रयम् ।
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥ ६ ॥
अनु०—प्रत्येक मन्त्र के सात घृत और ओदन की आहुती प्रातःकाल मध्याह्न
और सांयकाल तीनों सवनकालों पर ( सात दिन तक मौन रहते हुए, यज्ञ योग्य
अन्न का भक्षण करते हुए तथा इन्द्रियों और क्रियाओं पर नियन्त्रण रखते हुए
करे ॥ ६ ॥
घताप्लुतेनौदनेन ताः प्रतिमन्त्रं हस्तेन दर्व्या वा परिभाषासिद्धया 'दर्व्या-
ऽन्नस्य जुहोति' इति । "सप्ताहमिमानि व्रतान्यनुकर्षन्मौनव्रती" इत्यादीनि॥६॥
अथ प्रतिसवनहोमानन्तरम्—
“सिंहे मे" इत्यपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे ।
मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥ ७ ॥
अनु०—चौराहे पर जल से भरे हुए पात्र को 'सिंहे मे' आदि मन्त्रों का
उच्चारण करते हुए देखने पर वह व्यक्ति सभी पापों से मुक्त हो जाता है, बडे दोष
से भी शुद्ध हो जाता है ॥ ७ ॥
१. उपसम्भकरणं नाम—आकुञ्चितस्य सव्यजानुन उपरि दक्षिणं पादं निक्षिप्यो
पवेशनम् ।
२. सिंहे मे मन्युः । व्याघ्रे मेऽन्तररामयः । वृके मे क्षुत् । अश्वे मे घसिः ।
धन्वन्ति मे पिपासा । राजगृहे मेऽशनया । अश्मनि मे तन्द्रिः । गर्दभे मेऽर्षः ।
पथ्य(ल्प)के मे होः ।। अश्वत्थे मे वेपथुः । कूर्मे मेऽङ्गरोगः । बस्ते मेऽपसर्या ।
२९ बौ० गृ०
४०२ बौधायन-धर्मसूत्रम् [ गणहोमाः
अप्रीये मे मृत्युः । भ्रातृव्ये मे पाप्मा । सपत्ने मे निर्ऋतिः । दुष्कीतौ मे ऽमृद्धिः । पर-
स्वति मेऽसमृद्धिः । खड्गे मे भ्रातिः । गवये मे भ्रातव्यम् । गौर मे बाधिर्यम् । ऋक्षे मे
शोकः । गोधायां मे स्वेदः । जरायां मे हिमः । कृष्णशकुनौ मे भीरुता । कशे मे पापो
गन्धः । उलूके मे स्वभ्यषः । क्रोके मे ईर्ष्या । मर्कटे मेदुरृऋद्धिः । कुलले मे मँस्यां ।
खलले मे प्रभ्या । उष्ट्रे मे तृष्णा । ऋश्ये मे श्रमः । अठ्यां मे भ्राव्यम् । कोषो मे
गन्धः । कुमार्यां मेऽलङ्कारः । सूकरे मे कलहशुः, पुदाखुनौ मे स्वरना (प्नः) । अजगरे
मे दुस्स्वप्ना (प्नः) । विद्युति मे स्मयशः । लोभायां मे क्लेदः । शलमे मे
पाप्माऽलक्ष्मीः । स्त्रीषु मेऽनृतम् । अजासु मे कर्कशः । व्रात्ये म ईत्या । शूद्रे मे
स्तेयम् । वैश्ये मे कामंकृत्यम् । राजन्यबन्धुनि मेऽज्ञानम् । नैषादे मे ब्रह्महत्या ।
कुलिङ्गे मे क्षवथुः । उलले मे विलासः । उद्विद्रणि मे वमनिः । किंपुरुषे मे रोदः ।
द्वीपििन मे निष्कपन् । हस्तिनि मे किलासः । शुनि मेदुरिप्रस्खा । वन्येषु मे म्लेच्छः ।
विदेहेषु मे शोवधुः । महावर्षेषु मे ग्लोः । मूजवत्सु मे तप्ना । दुन्दुभो मे कासिका ।
इक्ष्वाकुषु मे पित्तम् । कलिङ्गेषु मेऽमेध्यम् । अभ्रतर्या मेऽप्रजस्ता । पुंश्चल्यां मे दुष्प्र-
वित्रम् । आखुनि मे दन्तरोगः । मक्षिकाया मे श्लक्ष्णशः । शुके मे हरिमा । मयूरे मे
जल्प्या । वृषे मे जरा । चाषे मे पापवादः । अप्सु मे क्षमः । ब्रह्मोज्झे मे
किल्बिषम् ।
अपैहि पाप्मन् पुनरपनाशितो भवा नः पाप्मन्त्सुकृतस्य लोके पाप्मन्वेह्यविद्वत
यो नः पाप्मञ् जहाति तमु त्वा बर्हिमो वयमन्यत्राऽस्मन्निदिशतात् । सहस्राक्षो
अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्यस्तमु जहि । सुमित्रा न आप ओषधयस्सन्तु
दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः पाप्मन् ॥ मान्ना इमे बौधा-
यनीयश्रौतसूत्रे संहितारूपेण पठिताः (बौ. श्रौ. २. ३) तथाऽप्यध्येतृपरम्परायां पाठ-
सौकर्यार्थं विहृत्यैव पाठात् तथैवाऽस्माभिरप्यत्र निवेशिताः :
उदपात्रमादाय चतुष्पथं गत्वा प्राङ् मुख १ उपस्थं कृत्वा तस्मिन्नेव
उदपात्रेऽवेक्षमाणः पापं ध्यायन् विनियतन् ब्रूयात् । २ 'सिंहे मे मन्युः'
इत्यन्तमैतममुवाकं निगद्य निनीयाऽपो नैर्ऋत्यां दिशि परास्य पात्रमन-
वेक्षमाणो हस्तपादान् प्रक्षाल्य तेनैव मार्गेण यथैतमेत्य । तदेतदुक्तम्-
'सिंहे म इत्यपां पूर्णे' इति । अत्राऽपरे याज्ञिकाः प्रयोगज्ञंमन्यमाना दार्विहो-
मिकीं परिचेष्टां कुर्वंते, आनाम्नातया च पक्वहोमवत्ते च स्विष्टकृदुपहोमा
गणहोमा (?) इति वदन्तः । तत्तु युक्तायुक्ततया विचारणीयम् ॥ ७ ॥
वृद्धत्वे यौवने बाल्ये यः कृतः पापसञ्चयः ।
पूर्वजन्मसु (१) वाऽज्ञानात्तस्मादपि विमुच्यते ॥ ८ ॥
१. वाऽज्ञातः इति मूलपुस्तकेषु पाठः ।