बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
षष्ठः खण्डः] प्रथमप्रश्ने चतुर्थोऽध्यायः ४१
षष्ठः खण्डः] प्रथमप्रश्ने चतुर्थोऽध्यायः ४१
टि०-अक्षर का ध्यान करने का तात्पर्य यह हो सकता है कि उस कमण्डलु के अविनाश्रर होने का ध्यान करे या उस कमण्डलु को अविनश्वर समझे ।
वरुणमाश्रित्य वरुणं प्राप्य ध्यात्वा 'एतत्ते वरुण पुनरेष तु मामोम्' इति ग्रहणमन्त्रः । तस्याऽयमर्थः—यदेतत्कपालं मयाऽप्सु संक्षिप्तं तत्तव वरुण भवतु, अपरं कमण्डलुद्रव्यं पुनर्मामेतु । भग्नस्तु कमण्डलुस्त्व्वाम्, इति ओमित्यक्षरं ध्यायेत् । ओमिति ब्रह्मणो नाम, तेन हि सर्वमोतं प्रोतं च भवति । अक्षरमपि तदेव न क्षरति न विनश्यतीति । ध्यायेत् अनुस्मरेत् ॥ ९ ॥
अथ कमण्डलुग्रहणवेलायामपादानकारकवर्णविशेषात् प्रायश्चित्तविशेषः-
शूद्राद् गृह्य शतं कुर्याद्वैश्यादर्धशतं स्मृतम् ।
क्षत्रियात्पञ्चविंशत्तु ब्राह्मणाद् दश कीर्तिताः ॥ १० ॥
अनु०—यदि कमण्डलु किसी शूद्र वर्ण के पुरुष से प्राप्त किया गया हो तो सौ बार (गायत्री का) जप करे, यदि किसी वैश्य से ग्रहण किया गया हो तो पचास बार जप करे, क्षत्रिय से ग्रहण करने पर पच्चीस बार जप करे और ब्राह्मण से ग्रहण करने पर दस बार जप करे ॥ १० ॥
प्रणवो गायत्री वा सङ्ख्याविषया ॥ १० ॥
रात्रावुदकग्रहणे मीमांसा -
अथाऽस्तमिते आदित्य उदकं गृह्णीयान्न गृह्णीयादिति मीमांसन्ते ब्रह्मवादिनः ॥ ११ ॥
अनु०-वेद का अध्ययन या पाठ करने वाले लोग इस विषय में शङ्का उठाते हैं कि सूर्य के अस्त होने पर जल ग्रहण करना चाहिए अथवा नहीं ग्रहण करना चाहिए ॥ ११ ॥
संशयार्था प्रकृतप्लुतिः । तत्राऽग्रहणपक्षश्रेयान्; कुतः ? पौराणिकवचनात् । तथाहि—
कर्मयोग्यो जनो नैव नैवाऽऽपश्शुद्धिकारणम् ।
यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥ इति ॥
श्रुतेश्च 'अपो निशि न गृह्णीयात्' इति ॥ ११ ॥
गृह्णीयादित्येतदपरम् ॥ १२ ॥
अनु०-(रात्रि को जल) ग्रहण करना चाहिए ऐसा श्रेष्ठ मत है ॥ १२ ॥
न विद्यते परं दर्शनं यस्मात्तदपरं सिद्धान्त इत्यर्थः । अनियतकालत्वान्मूत्रपुरीषादेरवश्यकर्त्तव्यत्वाच्चोदकसाध्यशौचानां 'शक्तिविषये मुहूर्तर्माप नाऽप्रयतस्स्यात्' ( १. ३. ३१ ) इति वचनाच्च ग्रहणमेव साधीयः ॥ १२ ॥
| ४२ | बौधायन-धर्मसूत्रम् | [ कमण्डलुचर्या |
|---|
यत्त पुराणं श्रुतिश्च 'अपो निशि न गृह्णीयात्' इति, तत्र परिहारमाह—
यावदुदकं गृह्णीयात्तावत्प्राणानायच्छेत् ॥ १३ ॥
अनु०— जब तक जल ग्रहण करता रहे तब तक प्राणवायु को रोके रहे ॥१३॥
उदकग्रहणवेलायाम् ॥ १३ ॥
कथं प्राणायामेन परिहार इत्याशङ्कयाऽऽह—
अग्निर्ह वै ह्युदकं गृह्णाति ॥ १४ ॥
अनु०— इस प्रकार अग्नि ही जल को ग्रहण करता है ॥ १४ ॥
टि०— 'इस प्रकार प्राणवायु को रोकने पर वायु प्रबल हो जाता है और अग्नि उत्पन्न होता है। अग्नि के उत्पन्न होने पर रात्रि में भी आदित्य का अभाव नहीं होता।'—गोविन्द स्वामी ।
कथं प्राणायामे सत्युदकं गृह्णात्यग्निः ? कथं वा तेनाऽऽदित्यसन्निधि-
र्भवति ? इति चेत् ; उच्यते—निराधे सति वायुर्बलवान् जायते, ततोऽग्निः ।
तथा च वक्ष्यति—
निरोधाज्जायते वायुर्वायोरग्निर्हि जायते ।
तापेनाऽऽपोऽधिजायन्ते ततोन्तश्शुध्यते त्रिभिः” (४.१.२४) इति ।
अनुभावोऽपि तथैव दृश्यते । अग्नौ सत्यादित्यसन्निधिर्भवतीति शक्यते
वक्तुम् । तथा च श्रुतिः—'आदित्योऽग्निं यन्नक्तमनुप्रविशति मोऽन्तर्धायते'
इति । तथा—'रात्रावार्चिरेवाऽग्नेर्ददृशे न धूमः' इति । दूरभूयस्त्वान्नभवोऽपि
तथैव भवति ॥ १४ ॥
कमण्डलूदकं पुनरात्मन एव शुद्धिकारणं, न पितृसंयुक्तादिकर्मभ्य इत्याह—
कमण्डलूदकेनाऽभिषिक्तपाणिपादो यावदार्द्रं तावदशुचिः परेषा-
मात्मानमेव पूतं करोति नाऽन्यत्कर्म कुर्वीतेति विज्ञायते ॥ १५ ॥
अनु०— वेद में कहा गया है कि कमण्डलु के जल से, हाथ-पैर धोने वाला व्यक्ति दूसरों के लिए उस समय तक अशुद्ध रहता है जब तक उसके हाथ-पैर गीले रहते हैं । वह स्वयं को पवित्र करता है । उसे ( कमण्डलु के जल से ) दूसरा कार्य नहीं करना चाहिए ॥ १५ ॥
अन्यत्रापि विज्ञायते इत्युक्तौ श्रुतिपाठ इत्यवगन्तव्यम् ॥ १५ ॥
अपि वा प्रतिशौचमामणिबन्धाच्छुद्धिरिति बौधायनः ॥ १६ ॥
अनु०— अथवा प्रत्येक बार हाथ-पैर धोने के समय ( दूसरे जल से ) कलाई तक हाथ धोने पर शुद्धि होती है ऐसा बौधायन का मत है ॥ १६ ॥
प्रतिशौचं जलान्तरेणाऽऽमणिबन्धात् ॥ ६ ॥
इति प्रथमप्रश्ने चतुर्थाध्याये षष्ठः खण्डः