बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पञ्चमः खण्डः ] प्रथमप्रश्ने तृतीयोऽध्यायः ३७
पञ्चमः खण्डः ] प्रथमप्रश्ने तृतीयोऽध्यायः ३७
अनु०—भिक्षाचरण के समय मौन रहे ॥ ११ ॥
स्वस्तिवचनमपि न कुर्यादित्यभिप्रायः । ‘न ह वै स्नात्वा भिक्षेत’ इत्य-
स्यैवाऽयमनुवाद ॥ ११ ॥
सर्वाणि चाऽस्य देवपितृसंयुक्तानि १पाकयज्ञसंस्थानि भूति-
कर्माणि कुर्वतीति ॥ १२ ॥
अनु०—इस भिक्षा से प्राप्त अन्न द्वारा देवताविषयक, पितृविषयक पाकयज्ञ
( पञ्चमहायज्ञ ) करे जिनसे आयु आदि की वृद्धि एवं कल्याण होता है ॥ १२ ॥
देवपितृभ्यां संयुक्तशब्दः प्रत्येकमभिसम्बध्यते । ते च पञ्चमहायज्ञाः ।
पाकयज्ञसंस्थानि २अष्टकाहोमादयः । भूतिकर्माणि आयुष्यचरुरित्यादयः । इति
शब्दः प्रकारवचनः । एवंप्रकारा अस्य भैक्षात् होमाः कर्तव्याः । अप्राणिनो हि
षष्ठी पञ्चम्यर्थे भवति 'यूपस्य स्वरुं करोति' ज्ञातं यथा ॥ १२ ॥
अथ फलार्थवादः—
एतेन विधिना प्रजापतेः परमेष्ठिनः परमर्षयः परमां काष्ठां
गच्छन्तीति बौधायनः ॥ १३ ॥
अनु०—इस विधि से महर्षि लोग प्रजापति परमेष्ठी के परम लोक को जाते
हैं ऐसी बौधायन की उक्ति है ॥ १३ ॥
परमे स्थाने तिष्ठतीति परमेष्ठी प्रजापतिः । तस्य स्थानं परमा काष्ठा । पर-
मर्षयो वसिष्ठादयः । बौधायनः काण्वायनः । आहरतेति शेषः । ३आत्मानमे-
वाऽऽचार्य आह । आत्मनो वा आचार्यम् । यद्वा—मनोः भृगुवत्तस्य शिष्यो
ग्रन्थकर्ता । विचलितशाखा वा काचिद्बौधायनसंज्ञिता ॥ १३ ॥
इति प्रथमप्रश्ने तृतीयाध्याये पञ्चमः खण्डः
१. यज्ञिक. इति. क. पु.
२. पौषमाघफाल्गुनमासीयापरपक्षाष्टमीषु क्रियमाणा होमा अष्टकाहोमाः । ते च गृह्ये ( बो २. १० ) विहिताः । आयुष्यचरुरायुष्यहोमाख्यः तत्रैव (बो गृ. २. ९) विहितः ॥
३. आत्मानमेवाऽभिवदन्त्याचार्याः इति क. पु.
| ३८ | बौधायन-धर्मसूत्रम् | [ कमण्डलुचर्या |
|---|
प्रथमप्रश्ने चतुर्थोऽध्याये षष्ठः खण्डः
'सोदकं च कमण्डलुम्' ( १. ३. ४ ) इत्युक्तम् ; तत्राह—
अथ कमण्डलुचर्यामुपदिशन्ति ( वेदविदः¹ ) ॥ १ ॥
अनु०— ( वेद के ज्ञाता ) कमण्डलु धारण करने का उपदेश देते हैं ॥ १ ॥
टिप्पणी— कोष्ठक में दिया गया 'वेदविदः' शब्द मूल पुस्तक में नहीं पाया जाता । कमण्डलु मिट्टी का पात्र है ।
चर्या चरणं धारणादि । मृन्मयो हि कमण्डलुः । तत्र मृन्मयोपघातेऽभिदाहश्शुद्धिहेतुराम्नातः । अथ पुनः कमण्डलोश्शुद्ध्यन्तरविधित्सयेदमारभ्यते ॥ १ ॥
²छागस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चैव कुशस्तम्भे पावकः परिपठ्यते ॥
तस्माच्छौचं कृत्वा पाणिना परिमृजीत पर्यग्निकरणं हि तत् ।
'उद्दीप्यस्व जातवेद' इति पुनर्दाहाद्विशिष्यते ॥ २ ॥
अनु०— वेद में यह कहा गया है कि बकरे के दाहिने कान में, ब्राह्मण के दाहिने हाथ में, जल में तथा कुश के स्तबक में अग्नि रहता है ।
टि०— अत एव शरीर की शुद्धि करने के बाद कमण्डलू को (दाहिने) हाथ से चारो ओर 'उद्दीप्यस्व जातवेद' आदि (तैत्तिरीय आरण्यक १०.१.४) मन्त्र से मार्जन करे । यह पर्यग्निकरण कहलाता है और उस पात्र को अग्नि पर गरम करने की अपेक्षा अधिक शुद्धिकारक माना जाता है ॥ २ ॥
१. वेदविद इति नास्ति मूलपुस्तकेषु ।
२. अजायां होतव्यम् । आग्नेयी वा एषा यदजा ।
अग्नावेवास्याऽग्निहोत्रं हुतं भवति ।
यद्यजां न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् ।
एष वा अग्निर्वैश्वानरो यद्ब्राह्मणः । ॅॅ यदि ब्राह्मणं न विन्देत् । दर्भस्तम्बे होतव्यम् ।
अग्निमान् वै दर्भस्तम्बः । अग्नावेवास्याऽग्निहोत्रं हुतं भवति ।
यदि दर्भाञ् न विन्देत् । अप्सु होतव्यम् । आपो वै सर्वा देवताः । देवतास्वेवाऽस्याऽग्निहोत्रं हुतं भवति ( तै. ब्रा. ३. ७. ३. )
इत्ययं वेदभागोऽस्य सूत्रस्य मूलभूत इत्यवगन्तव्यम् ।