बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
दशमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७७
दशमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७७
तपस्वी चाऽप्रमादी च ततः पापात्प्रमुच्यते ॥ ३४ ॥
अनु०—मनुष्य अपने दुष्कर्मों को याद करता हुआ नित्य पश्चात्ताप करे, तपस्वी बने, धर्मकार्यों में प्रमाद का त्याग करे तब वह अपने पापों से मुक्त होता है ॥ ३४ ॥
इत्थं शोचेत मनसा-अहो कष्टं मया कृतम्, धिग्मां कामचारमदीर्घदर्शिनम्, का मे गतिः ? का मे त्राणभूमिरिति, अत ऊर्ध्वमीदृशं कर्म न करिष्यामीति दुष्कृतान्यनुचिन्तयन् अनुस्मरन्नित्यर्थः । तपस्वी कृच्छ्रादिकृत् । अप्रमादी पापस्य कर्मणः पुनरसेविता । तस्माद्यौवनकृतात्पापात् प्रमुच्यते नैवत्कुर्यात् पुनरिति निवृत्त्या पूयते तत इति । तथा च वसिष्ठः—
ख्यापनेनाऽनुतापेन तपसाऽध्ययनेन च ।
पापकृन्मुच्यते पापाद्दानाद्वाऽपि प्रमुच्यते इति ॥ ३४ ॥
स्थाविरे सुवृत्तस्य पुरुषस्य यौवने विभ्रमकृतानि पापानि दोषांशकल्पादन्ल्पतां न लभन्त इत्युक्तम्, तत्प्रसङ्गादिदमन्यदनाशङ्कनीयमुच्यते—
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
न तैरूच्छिष्टभावस्स्यात्तुल्यास्ते भूमिगैस्सहेति ॥ ३५ ॥
अनु०—जो व्यक्ति दूसरों को जल देकर आचमन कराता हो उसके पैरों को यदि जल की बूँदें (पृथ्वी पर गिरकर छिटक कर) स्पर्श करती हों तो उनसे किसी प्रकार की अशुद्धि नहीं होती, क्यों कि वे बूंदें पृथ्वी पर एकत्र जल के समान ही शुद्ध होती हैं ॥ ३५ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने दशमः खण्डः ॥ १० ॥
भूमौ पतिताः पुनरुत्थाय बिन्दवः परानाचामयतः पादौ स्पृशन्ति चेत् ते पुरुषं नोच्छिष्टं कुर्वन्ति भूमिगैस्तुल्या इत्यभिधानादन्यत्राऽपि¹ भूमिगतजलमदोषमिति गम्यते । पादग्रहणादन्यत्रोच्छिष्टभावो भवत्येव ॥३५॥ १० ॥
पञ्चमाध्याये एकादशः खण्डः
सपिण्डेष्वादशाहम् ।
स्पर्शानिमित्ताशौचमभिधायाऽधुना तदभावेऽप्याशौचप्रतिपिपादयिषयाऽऽह—
१. अभूमिगतजलसंसर्गो दोष इति गम्यत इति ग० पु०
७८ बौधायन-धर्मसूत्रम् [सापिण्ड्यम्]
सपिण्डेष्वादशाहमाशौचमिति जननमरणयोरधिकृत्य वदन्त्यृत्विग्दीक्षितब्रह्मचारिवर्जम् ॥ १ ॥
अनु०— जन्म और मृत्यु के समय सपिण्डों के लिए दस दिन के आशौच का विधान (धर्मशास्त्रज्ञों ने) किया है, किन्तु ऋत्विक्, सोमयज्ञ की दीक्षणीया इष्टि कर लेने वाले यज्ञकर्ता तथा ब्रह्मचारी के लिए आशौच नहीं होता ॥ १ ॥
टि०— तात्पर्य यह है कि यज्ञ कराने वाला ऋत्विक् के, सोमयज्ञ की दीक्षणीया इष्टि कर लेने वाला यज्ञकर्ता के या वेदाध्ययन करने वाले ब्रह्मचारी के सम्बन्धियों में किसी की मृत्यु हो भी जाय तो इन लोगों के लिए आशौच का नियम नहीं होता। उपर्युक्त दश दिन के आशौच का नियम ब्राह्मणवर्ण के लिए ही है। क्षत्रियों के लिए ग्यारह दिन का आशौच होता है। आशौच की अवस्था में दान आदि देने का निषेध है।
समानः पिण्डो येषां ते सपिण्डाः स्मृतिशास्त्रकाराः यद्दशाहाशौचं तदेव जननं मरणं चाऽधिकृत्य वदन्ति। न ^१सर्वं ऽप्यहाशौचवचनमपि। तथा च स्मृत्यन्तरे यदतिदेशवचनम् 'जननेऽप्येवमेव स्यात्' इति तद्दशाहस्यैवाऽतिदेशिकमिति मन्तव्यम्। आशौचे तु सम्प्राप्ते दानादिष्वनधिकारः।
तथा च वृद्धमनुः—
उभयत्र दशाऽहानि कुलस्याऽन्नं न भुज्यते।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥
कुमारजन्मदिवसमेकं कुर्यात्प्रतिग्रहम्।
आयान्ति देवपितरस्तत्र तं बोधयन्ति च ॥
तस्मात्तद्दिवसः पुण्यः पितृवंशविवर्धनः ॥ इति ।
ब्राह्मणविषयमेतद्दशाहाशौचवचनम्। क्षत्रियादीनां तु एकादशाहादि ॥१॥
अथ सापिण्ड्यस्वरूपमाह—
^२सपिण्डता त्वासप्तमात्सपिण्डेषु ॥ २ ॥
अनु०— सपिण्डता सपिण्डों में सातवीं पीढ़ी के पुरुष तक होती है ॥ २ ॥
टि०— अपने से पहले के छठे पुरुष तक सपिण्डता मानी जाती है, इस पर आगे पुनः विचार किया गया है।
न निवर्तेत इति शेषः। तत्त्वात्मानमधिकृत्य प्रागूर्ध्वं च षट्सु पुंसु
१. सर्वत्र दशाहाशौचवचनमपि इति ग. पु.
२. सपिण्डता त्वासप्तमात्, आदन्तजननाद्योदकोपस्पर्शनम्। इति सूत्रद्वयपाठः ई.पु.