बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
दशमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४९
दशमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४९
नीवीं विस्रस्य परिधायाऽप उपस्पृशेत् ॥ १६ ॥
आर्द्रं तृणं (१)गोमयं भूमिं वा समुपस्पृशेत् ॥ १७ ॥
अनु०—नीवी (धोती के बन्धन) को खोलने पर या वस्त्र पहनते समय नीवी बन्धन बाँधने के बाद जल का स्पर्श करे अथवा भीगी हुई घास, गोबर या भूमि का स्पर्श करे ॥ १६-१७ ॥
परिहितस्य वाससो बन्धो नीवी । अपामुपस्पर्शनं प्रक्षालनं वा सम्भवा-
पेक्षो विकल्पः ॥ १६-१७ ॥
नाभेरधस्स्पर्शनं कर्मयुक्तो वर्जयेत् ॥ १८ ॥
अनु०—देव, पितृ सम्बन्धी धार्मिक कर्म करते समय शरीर के नाभि से नीचे के भाग का स्पर्श न करे ॥ १८ ॥
देवपितृसंयुक्तं कर्म कुर्वाण इत्यर्थः ॥ १८॥
तत्र कारणमाह—
२“ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यमवाचीनममेध्यमि”ति श्रुतिः ॥१९॥
अनु०—पुरुष की नाभि से ऊपर का भाग पवित्र होता है और नीचे का भाग अपवित्र होता है ऐसा वेद का वचन है ॥ १९ ॥
टि०—द्रष्टव्य-तैत्तिरीय संहिता ६. १. ३. ४
पुरुषस्य नाभ्या ऊर्ध्वं मेध्यम् । अवाचीनमधस्तात्, अमेध्यम्, अयज्ञार्हमित्यर्थः ॥ १९ ॥
शूद्राणामार्याधिष्ठितानामर्धमासि ३मासि वा वपनम् ॥ २० ॥
अनु०—आर्यों की सेवा में रहनेवाले शूद्रों का अर्धमास (१५ दिनों) में अथवा पूरे मास में एक क्षोर होना चाहिए ॥ २० ॥
टि०—ब्यूह्लर ने यहाँ पुनः इस बात का संकेत किया है कि शूद्र द्विजातियों के यहाँ रसोइये का कार्य भी करते थे। आपस्तम्ब धर्म सूत्र २. १. २. ४-५ से भी यही अभिप्राय ध्वनित है।
१. गां भूमिमिति आ. ग. पु.
२. ज्योतिष्टोमे दीक्षाप्रकरणे यजमानस्य मेखलाबन्धनविधिसमीपे श्रुतोऽयमर्थ-वादः। कटिप्रदेशे मेखला बद्धव्या। तस्यां च बद्धायां शरीरे मेध्यामेध्ययोः स्थानयो-विभागो भवतीति।। नाभ्यै इति षष्ठ्यर्थे चतुर्थी।
३. मासि मासीति. घ. पु.
| ७० | बौधायन-धर्मसूत्रम् | [ शौचविधिः |
|---|
कार्यमिति शेषः । आर्याधिष्ठिताः आर्याच्छाखादि शुश्रूषवः ॥ २० ॥
आर्यवदाचमनकल्पः ॥ २१ ॥
**अनु०--**उनके आचमन का नियम आर्यों के समान ही हो ॥ २१ ॥
तेषामिति शेषः । कल्पः प्रयोगः । 'आसीनस्त्रिः पिबेत्' ( १. ८. १५ ) इत्यादि । एवं च 'स्त्रीशूद्रौ तु सकृत्' इत्येतदनार्याधिष्ठितशूद्रविषयं द्रष्टव्यम् । ननु सर्व एव शूद्रा आर्याधिष्ठिताः । तथा च वक्ष्यति—'शूद्रेषु पूर्वेषां परिचर्या' ( १. १८. ५ ) इति सत्यम्—तथाऽपि परिचर्यायामतिक्रमस्सम्भाव्यते । सन्ति हि केचिच्छूद्राः स्वतन्त्रा एव शिल्पजीविनश्च, तस्मादनवद्यम् । आर्यो ब्राह्मणोऽभिप्रेतो न क्षत्रियवैश्यौ, तत्रैतत्स्यात् । आर्यवदिति वतिप्रत्ययेनाऽऽचमनधर्माणां सर्वेषामतिदेशे सत्युपवीतादीनामपि प्राप्तिस्स्यात् । नेत्याह—त्रैवर्णिकप्रधानत्वादुपनयनस्य, तत्प्रयुक्तत्वाच्चोपवीतस्य, न शूद्रस्य प्राप्तिः । तस्मादुपवीतादिवर्जितस्याऽतिदेशोऽयम् ॥ २१ ॥
वर्णधर्मप्रसङ्गादिदमन्यदुच्यते मा भूत्तत्प्रसारणमिति—
वैश्यः कुसीदमुपजीवेत् ॥ २२ ॥
**अनु०—**वैश्य ब्याज पर रुपया उठाकर जीविका चला सकता है ॥ २२ ॥
कुसीदो वृद्धयर्थं द्रव्यस्य प्रयोगः ॥ २२ ॥
तमेव विस्तारयति—
पञ्चविंशतिस्त्वेव पञ्चमाषकी स्यात् ॥ २३ ॥
**अनु०—**किन्तु पच्चीस ( कार्षापण ) मूलधन पर पांच पण ( कार्षापण का बीसवां भाग ) प्रतिमास ब्याज़ होना चाहिए ॥ २३ ॥
माषो नाम कार्षापणस्य विंशतितमो भागः । 'विंशो भागः पणस्य परिकीर्तितः' इति स्मृत्यन्तरदर्शनात् । पञ्चविंशतिसङ्ख्यानां कार्षापणानां प्रतिमासं पञ्च माषा वृद्धिरित्यर्थः ॥ २३ ॥
एतदतिक्रमे दोषमाह—
अथाऽप्युदाहरन्ति—
'यस्समर्घमृणं गृह्य महार्घं यः प्रयोजयेत् ।
१. See. प्रजापतिस्मृति. श्लो० ८८. श्लोकद्वयमपीदं वासिष्ठे दृश्यते । तत्र 'ऋणं गृह्य' इत्यत्र 'धान्यमुद्धृत्य' इति पठ्यते । अन्यत् सर्वं सममेव । See वा. ध. २. ४१.