सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९७

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९७

जात्युक्तं पारदार्यं च गुरुतल्पत्वमेव च ।
१चारणादिखीषु नाऽस्ति कन्यादूषणमेव चेति ॥ ३ ॥

अथ नानाबीजायतनत्वादपवित्रं स्त्रीक्षेत्रम् । ततस्तत्रोत्पन्नमपि क्षेत्रजगूढोत्पन्नकानीनसहोढपौनर्भवाख्यमपत्यमप्यपवित्रमेतन्मूत्रच्छर्दिवदसंव्यवहार्यमित्याशङ्कयाऽऽह--

स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिंचित् ।
मासि मासि रजो ह्यासां दुरितान्यपकर्षति ॥ ४ ॥

अनु०—स्त्रियों की पवित्रता अद्वितीय रूप वाली होती है, उन्हें कोई यौन-संबंध द्वारा दूषित नहीं कर सकता । प्रत्येक मास में होने वाला मासिक स्राव उनके दोषों को दूर कर देता है ॥ ४ ॥

टि०—गोविन्दस्वामी ने परपुरुष के संसर्ग से होने वाली अपवित्रता, मानसिक तथा वाचिक दोषों के भी दूर हो जाने का अर्थ ग्रहण किया है ।
.परपुरुषसंसर्गविषयाणि मानसानि वाचिकानि च दुरितानि पापानि । न पुनर्हिंसादिनिमित्तान्यपकर्षति ॥ ४ ॥

किञ्च--

सोमश्शौचं ददत्तासां गन्धर्वश्शिक्षितां गिरम् ।
अग्निश्च सर्वभक्ष्यत्वं तस्मा२न्निष्कल्मषाः स्त्रियः ॥

अनु०—सोम देव ने स्त्रियों को पवित्रता प्रदान की, गन्धर्व ने मधुर और मनोहर बोलने का ढंग दिया, अग्नि ने उनको सबके द्वारा भोग्य बनाया, अतः स्त्रियां सभी प्रकार की अशुद्धि से मुक्त होती हैं ॥ ५ ॥

टि०—गोविन्दस्वामी ने सर्वभक्ष्यत्वम् का अर्थ लिया है सर्वैः भोग्यत्वम् । ब्यूह्लर ने अनुवाद में अग्नि ने सभी अंगों की पवित्रता प्रदान की ऐसा अर्थ किया है ।

तासां स्त्रीणां सोमश्शौचं दत्तवान् । यत एव देवता ताभ्यो वरं ददौ तस्मात्ताभिर्यदशौचं क्रियते तद्भर्त्रा नैवाऽवेक्षणीयम् । देवताप्रसादप्रसङ्गादिदमन्यदुच्यते—गन्धर्वश्शिक्षितां गिरं भाषणप्रकारम् । अतोऽनुचितभाषणेऽपि तासु क्षान्तेन भवितव्यम् । तथा चोक्त पात्रलक्षणे 'स्त्रीषु क्षान्तम्' इति । अग्निश्च सर्वभक्ष्यत्वं सर्वैर्भोग्यत्वं दत्तवान् , यत एवं देवताभ्यो लब्धवराः


१. साधारणस्त्रियां इति. ग. पु.
२. निष्कल्मषाः इत्येव ग. पु.

१९८बौधायन-धर्मसूत्रम्[ प्रायश्चित्तम्

स्त्रियः तस्मात् ¹निष्कल्मषाः विगतकल्मषाः काञ्चनसमाः, अपराधेष्वपि न त्याज्या इत्यभिप्रायः ॥ ५ ॥

अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
मृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम् ॥ ६ ॥

अनु०—दसवें वर्ष में वन्ध्या स्त्री का परित्याग कर दे, केवल पुत्रियां उत्पन्न करने वाली स्त्री का बारहवें वर्ष में परित्याग कर दे, जिस स्त्री के बच्चे मर जाते हों उसका पन्द्रहवें वर्ष में परित्याग कर दे और झगड़ालू हो उसका तत्काल परित्याग करे ॥ ६ ॥

अधिवेदनमत्र विवक्षितम् । न त्यागः । तदपि सति सम्भवे । धर्माधिकारः पुनरस्त्येव । अप्रियवादिन्यास्तु विपन्ने (?) । तस्या अपि ग्रासाच्छादनं देयम् ॥ ६ ॥

अयं परः स्त्रीधर्मः—

संवत्सरं प्रेतपत्नी मधुमांसमद्यलवणानि वर्जयेदधश्शयीत ॥ ७ ॥

अनु०—पति की मृत्यु होने पर विधवा स्त्री एक वर्ष तक मधु, मांस, मद्य और नमक का प्रयोग न करे और भूमि पर शयन करे ॥ ७ ॥

टि०—यहां ब्रह्मचर्य के नियम का पालन भी समझना चाहिए—गोविन्दस्वामी ।

मृतः पतिर्यस्याः तस्याः अयं सांवत्सरीको नियमः । अत्यन्तं ताम्बूलमपि । तद्ग्रहणमेव ब्रह्मचर्यस्याऽपि ग्रहणम् । तच्च यावज्जीविकम् ॥ ७ ॥

षण्मासानिति मौद्गल्यः ॥ ८ ॥

अनु०—मौद्गल्य का मत है कि केवल छः मास तक ही विधवा उपर्युक्त नियम का पालन करे (एक वर्ष तक नहीं) ॥ ८ ॥

अशक्तावनुग्रहोऽयम् । अन्यथा पितृमेधकल्पोक्तेन 'यावज्जीवं प्रेतपत्नी' इत्यनेन विरोधस्स्यात् ॥ ८ ॥

अत ऊर्ध्वं गुरुभिरनुमता देवराज्जनयेत् पुत्रमपुत्रा ॥ ९ ॥

अनु०—इस समय के बाद यदि उसका कोई पुत्र न हो तो वह गुरुओं की आज्ञा से देवर (पति के भ्राता) द्वारा पुत्र उत्पन्न करे ॥ ९ ॥

अत ऊर्ध्वं संवत्सरात् षड्भ्यो मासेभ्यः गुरुभिश्श्वशुरप्रभृतिभिः अनुमता, तत्सुतेषु । देवरो द्वितीयो वरः स पत्युर्भाता । तस्मात्पुत्रमेकं जनयेत् तावतैव सपुत्रवत् सिद्धेः, विवक्षितत्वाच्चैकवचनस्य ॥ ९ ॥


१. निष्कलुषाः काञ्चनसमाः इत्येव ग. पु.