सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः - ८३

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः - ८३

अस्मिन् पक्षे परकीयमतेन दोषमाह—
अथाऽप्युदाहरन्ति—

१ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥
तस्माद्राजा ब्राह्मणस्वं नाऽऽददीत कदाचन ।
परमं ह्येतद्विषं यद्ब्राह्मणस्वमिति ॥ १४ ॥

अनु०— इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—
ब्राह्मण की सम्पत्ति उसे ग्रहण करनेवाले को पुत्र, पौत्र के साथ नष्ट कर देती है, विष तो एक ही व्यक्ति के प्राण का हरण करता है । विष विष नहीं है, वस्तुतः विष तो ब्राह्मण की सम्पत्ति है । इस लिए राजा ब्राह्मण के धन को कदापि ग्रहण न करे, ब्राह्मण का धन परम विष होता है ॥ १४ ॥

राजग्रहणमुपलक्षणार्थम्, अन्यो वा ब्राह्मणस्वं नाऽऽददीत । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । इयांस्तु विशेषः । २ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ॥ १४ ॥

प्रसक्तानुप्रसक्तं परिसमाप्याऽधुना प्रकृतमुच्यते—
जननमरणयोस्सन्निपाते समानो दशरात्रः ॥ १५ ॥

अनु०— यदि जन्म और मृत्यु दोनों एक साथ ही हों तो दोनों के लिए केवल एक ही बार दश (दिन एवं) रात्रि का आशौच होता है ॥ १५ ॥

सन्निपातस्समवायः । अन्तरेण निमित्तेन दशाहे वर्तमाने इतरस्याऽपि निमित्तस्य तत्राऽन्तःपातः । तथा चेत् पूर्वाशौचप्रयुक्ततन्त्रमध्यपातित्वादितरप्रसजति, न पृथग्दशरात्रं प्रयुङ्क्ते इत्यभिप्रायः । एवं त्र्यहादिष्वपि । तत्र भूयसा सहाऽल्पीयो गच्छति न त्वल्पीयसा भूयः । ३अपेक्षितप्रयुक्तिसांनिध्याभावात् । तत्र सजातीयस्यैव प्रसङ्ग इति केचित् । तथा च गौतमः—४‘तज्जातीयमेवाऽऽपतेत् तच्चेदन्तः पुनरापतेच्छेषेण शुद्धयेरन्’ ।


१. अत्र मूलपुस्तकेषु व्याख्यानपुस्तकेषु च परस्परं पाठेषु वैमत्यं दृश्यते । परन्तु अर्थतो भेदाभावात् कश्चन पाठः स्वीकृतः ।
२. विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ग. पु.
३. प्रेक्षावत्प्रवृत्तिसान्निध्याभावादिति घ. पु.
४. तच्चेदन्त इत्येतदाद्येव सूत्रम्. गौ. ध. पुस्तके ।

८४ बौधायन-धर्मसूत्रम् [ आशौचविधिः

इत्युक्तवान्। तस्माज्जनने जननं मरणे मरणमिति निवेशस्सिद्धो भवति। आचार्यस्त्वनादृत्य तच्छब्दं जननमरणयोरिति वदन् विजातीयस्याऽपिप्रसङ्गं मन्यते ॥ १५ ॥

तत्र विशेषमाह—

अथ यदि दशरात्रास्सन्निपतेयुराद्यं दशरात्रमाशौचमा नवमाद् दिवसात् ॥ १६ ॥

अनु०— यदि दस ( दिन ओर ) रात्रि का आशौच काल के पूरा होने के पहले (दश दिन का या तीन रात्रियों का) दूसरा आशौच आ पड़े तो प्रथम आशौच काल ही दोनों के लिए आशौच काल होता है किन्तु ऐसी स्थिति में दूसरा आशौच कारण ( जन्म या मृत्यु ) प्रथम आशौच काल के नवें दिन से पहले ही घटित हुआ हो तभी दोनों के लिए पूर्ववर्ती आशौच काल पर्याप्त समझना चाहिये ॥ १६ ॥

आङत्राऽभिविधौ । यदि दशरात्रे वर्तमाने दशमादिवसादर्वाग्दशाहं त्रिरात्रादयो वा निपतेयुः तदा प्रक्रान्तस्य शेषेणैव शुद्धिर्भवतीत्यर्थः। दशमे चेदहनि सन्निपतेयुरन्यदाशौचं कल्प्यम् । तच्च गौतमवचनात् । स आह—'रात्रिशेषे द्वाभ्याम्, प्रभाते तिसृभिः' इति । प्रभाते प्रकर्षेण भाते दशमस्य उषःप्रभृति उदयादर्वाक् परिपात इत्यभिप्रायः । उदिते तु यथाप्राप्तमेव ॥ १६ ॥

जननमरणयोरित्युक्तं, तत्र निर्देशक्रमेण जनने तावद्विशेष उच्यते—

जनने तावन्माता पित्रोर्दशाहमाशौचम् ॥ १७ ॥

अनु०— जन्म के अवसर पर माता और पिता के लिए दस दिन का आशौच तो होता ही है ॥ १७ ॥

यदि सर्वे सपिण्डा वृत्तवन्तो भवेयुः तदा मातापित्रोरेव दशाहाशौचम् ॥ १७ ॥

अपि चेत्पिता वृत्तवान् तत्राऽऽह—

मातुरित्येके तत्परिहरणात् ॥ १८ ॥

अनु०— कुछ लोगों का मत है कि जन्म के अवसर पर आशौच केवल प्रसूतामाता के लिए ही होता है क्योंकि उसी से स्पर्शादि का परहेज रखा जाता है ॥ १८ ॥

यस्मात्प्रसूतिकां लोकः परिहरति तस्मात् तस्या एव जननाशौचं न जनकस्येति ॥ १८ ॥