सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४७

अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४७

वृद्धों, अतिथियों की पूजा, होम, जप कर्म, भोजन, आचमन तथा स्वाध्याय। इसके विपरीत विधि से प्राचीनावीत होता है जिसका उल्लेख अगले सूत्र में किया गया है।

कुशविकारः कौशम्; सूत्रस्य विकारः, सौत्रम्। तच्च सूत्रं कार्पासमयम्। त्रिरिति क्रियाभ्यावृत्तिगणने सुच् भवतीति। त्रिवृदिति च त्रिगुणं भवति। एतदुक्तं भवति- नवकृत्वस्संपादयेदिति। यज्ञार्थमुपवीतं उपव्यानं विन्यासविशेषः। यज्ञग्रहणं गुरुपासनादेरपि प्रदर्शनार्थम्। तथा चाऽऽपस्तम्बः—'उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्' इति। आनाभेः, आङ्मर्यादायाम्, ऊर्ध्वं नाभेरेरित्यर्थः। दक्षिणं बाहुमवधाय बाहोरधस्तात्कृत्वा शिरोऽवदध्यात् दक्षिणं बाहुं शिरश्चोपरि गृह्णीयादित्यर्थः। तथा च श्रुतिः—'दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम्' इति च ॥ ५ ॥

विपरीतं पितृभ्यः ॥ ६ ॥

अनु०—इसके विपरीत ( दाहिनी भुजा को नीचे करके बायीं को ऊपर उठाकर तथा सिर नीचे करके ) पितृकर्म में धारण किया जाय ॥ ६ ॥

दक्षिणबाहुमधस्तात्कृत्त्वा सव्यं बाहुमुत्थाय शिरोऽवदध्यात्। श्रुतिरपि 'एतदेव विपरीतं प्राचीनावीतम्' इति। पितॄनुद्दिश्य यत्क्रियते तत्रतद्भवति ॥ ६ ॥

कण्ठेऽवसक्तं निवीतम् ॥ ७ ॥

अनु०—यदि यज्ञसूत्र कण्ठ में ही लटकाकर धारण किया जाय तो निवीत कहलाता है ॥ ७ ॥

मनुष्याणां भवति। ऋषीणामित्येवेदमुक्तं भवति ॥ ७ ॥

अधोऽवसक्तमधोवीतम् ॥ ८ ॥

अनु०—यदि यज्ञसूत्र नाभि से नीचे लटका कर धारण किया जाय तो अधोवीत कहलाता है ॥ ८ ॥

नाभेरधोऽवसक्तमधःक्षिप्तमधोवीतं भवति। एतदेव 'संवीतं मानुषम्' इति चोच्यते। मनुष्यकार्येषु कर्तव्यम्, तानि चाऽञ्जनाभ्यञ्जनोद्वर्तनादीनि ॥ ८ ॥ आचमनादिशौचाङ्गतया यज्ञोपवीतमुक्तम्। इदानीं तदेव शौचमाह—

प्राङ्मुख उदङ्मुखो वाऽऽसीनश्शौचमारभेत। शुचौ देशे दक्षिणं बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चाऽऽमणिबन्धात् ॥ ९ ॥

अनु०—शौच का कर्म पूर्व की ओर मुख करके अथवा उत्तर की ओर मुख

४८बौधायन-धर्मसूत्रम्[ शौचविधिः

करके पवित्र स्थान पर बैठकर करे। दाहिनी बाहु को दोनों घुटनों के बीच रखते हुए पैरों को धोवे और फिर मणिबन्धन तक दोनों हाथों को धोवे ॥ ९ ॥

**टि०—**गोविन्द स्वामी के अनुसार सूत्र में प्रयुक्त 'च' शब्द से मूत्रादि से अपवित्र बने शरीर के अन्य अंगों के प्रक्षालन का नियम भी इस सूत्र द्वारा निर्दिष्ट है।

शौचमिहाऽऽचमनमभिप्रेतम् । शुचावित्येव सिद्धे देशग्रहणं पादुकादावारूढेनाऽऽचमनं न कर्तव्यमिति बोधयितुम । अनेकपुरुषोन्नाय्योदे । आसीनग्रहणं शयनादिनिवृत्त्यर्थम् । प्रक्षाल्य पाणी पादौ चेति चशब्दान्मूत्राद्युपहतं गात्रान्तरमपि प्रक्षालयेति गम्यते ॥ ९ ॥

पादप्रक्षालनोच्छेषणेन नाऽऽचामेद्यद्याचामेद् भूमौ स्रावयित्वाऽऽचामेत् ॥ १० ॥

**अनु०—**पैर धोने के बाद बचे हुए जल से आचमन न करे। यदि आचमन करना ही हो तो उसमें से कुछ जल भूमि पर गिराकर तब अवशिष्ट जल से आचमन करे ॥ १० ॥

यत्पात्रस्थोदकेन पादप्रक्षालनं कृतं तदवशिष्टं पादप्रक्षालनोच्छेषणं तेनाऽऽचमनं न कार्यम् । अन्यस्याऽसम्भवे तेनाऽपि यद्याचामेद्भूभौ स्रावयित्वाऽऽचामेत् । तस्माद्भूभौ किञ्चिदुदकं विस्राव्याऽऽचमनं कार्यम् ॥ १० ॥

आचमन एव पाण्यवयवविशेषविधित्सयाऽऽह—

ब्राह्मेण तीर्थेनाऽऽचामेत् ॥ ११ ॥

**अनु०—**ब्राह्म तीर्थ से आचमन करे ॥ ११ ॥

किं तद्ब्राह्मं तीर्थम् ?

अङ्गुष्ठमूलं ब्राह्मं तीर्थम् ॥ १२ ॥

**अनु०—**अंगूठे के मूल भाग को ब्राह्म तीर्थ कहते हैं ॥ १२ ॥

तस्याऽङ्गुष्ठमूलस्योत्तरतो मेखला ॥ २१ ॥ १

एतत्प्रसङ्गात्पितृतर्पणाद्यर्थमन्यान्यपि तीर्थान्याह—

अङ्गुष्ठाग्रं पित्र्यमङ्गुल्यग्रं दैवमङ्गुलिमूलमार्षम् ॥ १३ ॥

**अनु०—**अंगूठे के अग्र भाग को पित्र्य तीर्थ, अङ्गुलियों के अग्रभाग को देवतीर्थ तथा अङ्गुलियों के मूल भाग को आर्ष तीर्थ कहते हैं ॥ १३ ॥


१. इतः सूत्रान्तरं पुस्तकान्तरेषु ।