आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः] अनाविलेापेतम् । १६३
सप्तमः खण्डः] अनाविलेापेतम् । १६३
पितृगृहे रात्रिमेतां वसेत् । पूजा च मधुपर्कः 'स्नातकायोपस्थिताये'ति वचनात् ॥ २२ ॥
विद्यान्ते गुरुमर्थेन निमन्त्र्य कृत्वानुज्ञातस्य वा स्नानम् ॥ २३ ॥
विद्यासमाप्तौ गुरुमर्थेन प्रयोजनेन निमन्त्र्य कमर्थं त आहरिष्यामीत्युक्त्वा तेनोक्तं च कृत्वा तत एतत् समावर्तनं कर्तव्यम् । अनुज्ञातस्य वा वत्स ! त्वद्गुणैरेवाहं तोषितः अलमर्थेन अनुजानामि त्वां गृहाश्रमायेत्येवमुक्तस्य वा कर्तव्यम् ॥ २३ ॥
तस्यैतानि व्रतानि भवन्ति ॥ २४ ॥
तस्य स्नातकस्यैतानि वक्ष्यमाणानि व्रतानि भवन्त्यामरणात् ॥ २४ ॥
न नक्तं स्नायात् न नग्नः स्नायात् न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् वर्षति न धावेन्न वृक्षमारोहेन्न कूपमवरोहेन्न संशयमभ्यापद्येत ॥ २५ ॥
संशयः प्राणसंशयस्तं नाभ्यापद्येत न प्रतिपद्येत । अन्यत् स्पष्टम् ॥ २५ ॥
किमर्थं पुनरेवमस्य रक्षोपदिश्यत इत्यत्राह —
महद्वै भूतं स्नातको भवतीति विज्ञायते ॥ २६ ॥
योऽयं स्नातकः स महद्भूतं भवति यथा पृथिव्यादीनि महाभूतान्युपकारकाणि एवमयं सर्वाश्रमाणामुपकारक इति विज्ञायते । आह मनुः —
१. 'कमर्थमाह्रतं च' ङ. पाठः. २. 'क्षैवमुप' ख. ग. ङ. पाठः.
१६४ | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः
“यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥”
इति ॥ २६ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
तृतीयाध्याये सप्तमः खण्डः ।
अथाष्टमः खण्डः ।
गुरवे प्रस्त्रक्ष्यमाणो नाम प्रब्रुवीत ॥ १ ॥
अथ समावृत्तं गुरुः प्रसृजति गृहान् प्रति विसृजति स तेन प्रस्त्रक्ष्यमाणस्तस्मै गुरवे तस्यैव नाम संबुद्ध्या प्रब्रूवीत यज्ञशर्म्मन्निति ॥ १ ॥
इदं वत्स्यावो भो इति उच्चैरूर्ध्वं नाम्नः ॥ २ ॥
अथ नाम्न ऊर्ध्वमिदं वत्स्यावो भो इत्युच्चैः प्रब्रूवीत। नाम्न ऊर्ध्वमुच्चैरिति वचनान्नामोपांशु भवति। वत्स्याव इति केवलोऽपि वसिर्विंपूर्वस्यार्थे द्रष्टव्यः । एतावन्तं कालं सहोषितौ स्वः अथेदानीं विभिद्य वासं करिष्यावः भो यज्ञशर्मन्निति मन्त्रार्थः। इदमिति च क्रियमाणक्रियानिर्देशः यथा इदं गम्यत इति ॥ २ ॥
प्राणापानयोरुपांश्वामन्द्रैरिन्द्रहरिभिरिति च ॥ ३ ॥
प्राणापानयोरिति मन्त्रमुपांशु प्रब्रुवीत आमन्द्रैरित्यृचं च ॥ ३ ॥