सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

षष्ठः खण्डः] अनाविलोपेताम् । १२३

षष्ठः खण्डः] अनाविलोपेताम् । १२३

प्रदक्षिणमुपचारः ॥ १८ ॥

वृद्धिपूर्तेष्विति संबध्यते । तत्र प्रदक्षिणमुपचारः स्यात् । उपचारक्रिया अन्यत्राप्रदक्षिणम् । परिस्तरणाद्युदाहरणम् ॥ १८ ॥

यवैस्तिलार्थः ॥ १९ ॥

यच्छ्राद्धेषु तिलकृत्यं, तदाभ्युदयिकेषु यवैः कर्तव्यम् । आपस्तम्बश्च— 'अवकाशेषु तिलान् विकिरति पिण्डांश्च तिलमिश्रान् निवृणाति । मासि श्राद्धे तिलानां द्रोणं द्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत्' इति । तत्र सर्वत्र यवा भवन्ति । स्वधाग्रहणे च तिलोऽसि सोमदेवत्य इत्यत्र यवोऽसि सोमदेवत्य इत्यूहेन यवप्रक्षेपः ॥ १९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
द्वितीयाध्याये पञ्चमः खण्डः ।


अथ षष्ठः खण्डः ।

रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमृशेदहं ते पूर्व पादावारभे¹ बृहद्रथन्तरे ते चक्रे ॥ १ ॥

अत्रेतिशब्दोऽध्याहार्यः² । नवरथे विशेषं वक्ष्यति । तद्व्यतिरिक्तं क्रीतं लब्धं पूर्वकृतं वा रथमारोक्ष्यन् आरोढुमिच्छन् पाणिभ्यां चक्रे नाना पृथगभिमृशेद् अहं ते इति मन्त्रेण । नानेत्युभाभ्यां³ पाणिभ्यामेकस्याभिमर्शनं मा भूद् युगपदभिमर्शनं यथा स्यादित्येवमर्थं नानाभूताभ्यां पाणिभ्यामभि-


१. 'भे वृ' ख. ग. ङ. पाठः.
२. 'इतिशब्दाध्याहारेण मन्त्रसमाप्तिः ।',
३. 'नानाग्रहणमुभा' ग. घ. पाठः.

१२४ आश्वलायनगृह्यसूत्रम् [ द्वितीयोऽध्यायः

मृशेत् न संहताभ्यामिति । रथमारुह्य यावद्दूरं गच्छति तावत्
सकृदेवेदं कर्म भवति, तदर्थत्वादारोहणस्य । मध्ये त्वारोह-
णमानुषङ्गिकम् ॥ १ ॥

वामदेव्यमक्ष इत्यक्षाधिष्ठाने ॥ २ ॥

नाभौ वामदेव्यमक्ष इत्यभिमृशेन्नाना पाणिभ्याम् ॥

दक्षिणपूर्वाभ्यामारोहेद् वायोष्ट्वा वीर्येणारोहामी-
न्द्रस्यौजसाधिपत्येनेति ॥ ३ ॥

दक्षिणः पूर्वः ययोस्ताभ्यां दक्षिणपूर्वाभ्याम् । पादा-
भ्यामित्यनुक्तमपि गम्यते तत्कर्मत्वाद्वारोहणस्य । एवंभूताभ्यां
पादाभ्यामारोहेद् रथं वायोष्ट्वेति मन्त्रेण ॥ ३ ॥

रश्मीन् संमृशेदरश्मिकान् वा दण्डेन ब्रह्मणो
वस्तेजसा संगृह्णामि सत्येन वस्तेजसा संगृह्णामीति ॥ ४ ॥

रश्मयोऽश्वादीनां प्रग्रहाः तान् संमृशेद् ब्रह्मणो व
इति मन्त्रेण । ये पुनररश्मयोऽश्वादयः तान् दण्डेन संमृशेद् वा
तेनैव मन्त्रेण । बहुवचननिर्देशाद् बहुयुगो रथोऽभिप्रेतः । यद्य-
पि तस्य चक्राणि चत्वारि, तथापि चक्रे इति द्विवचनयोगा-
न्मुख्ययोरेवाभिमर्शनम् ॥ ४ ॥

अभिप्रवर्तमानेषु जपेत् सहस्रसनिं वाजमभिव-
र्तस्व रथ देव प्रवह वनस्पते वीड्वङ्गो हि भूया इति ॥ ५ ॥

यदा चोदिता अश्वादय इष्टां दिशमभिवर्तन्ते गच्छ-
न्ति तदा सहस्रसनिमित्येतं मन्त्रं प्रवहान्तं जपेत्, वनस्पते


१. 'ग्योऽत्र र' ग. पाठः.