आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
नवमः खण्डः] अनाविलोपेतुम् । १७१
नवमः खण्डः] अनाविलोपेतुम् । १७१
यत्र बाणाः संपतन्तीति युध्यमानेषु जपेत् ॥
युध्यमानेषु योधेषु जपेत् पुरोहितः ॥ १८ ॥
संशिष्याद् वा संशिष्याद् वा ॥ १९ ॥
अथवा न स्वयं दुन्दुभिमर्शनादि कुर्याद् इदमित्थं मन्त्रैस्त्वया कर्तव्यमिति राजानं संशिष्यात् संदिशेत् । द्विरुक्तिरध्यायपरिसमाप्तिकृता ॥ १९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
अनाविलायां तृतीयाध्याये नवमः खण्डः ।
तृतीयोऽध्यायः समाप्तः ।
अथ चतुर्थोऽध्यायः।
आहिताग्निश्चेदुपतपेत् प्राच्यामुदीच्यामपराजि-
तायां वा दिश्युदवस्येत् ॥ १ ॥
उपतापो रोगः। प्राच्यादीनामन्यतमस्यां दिशि उद्-
वस्येत् ग्रामान्निष्क्रम्य वसेत् ॥ १ ॥
किं प्रयोजनमित्याह —
ग्रामकामा अग्नय इत्युदाहरन्ति ॥ २ ॥
एवं के(तः? ते) किमित्याह—
आशांसन्त एनं ग्राममाजिगमिषन्तोऽगदं कुर्यु-
रिति विज्ञायते ॥ ३ ॥
अपिनामायं जीव्याद् अस्मांश्च यक्षीष्ट इत्येवमाशंस-
न्तोऽग्नयो ग्राममाजिगमिषन्त आगन्तुमिच्छन्तः एनं यज-
मानमगदं कुर्युरिति विज्ञायते ॥ ३ ॥
अगदः सोमेन पशुनेष्ट्येष्टावस्येत् ॥ ४ ॥
यद्यसावगदः स्वस्थो भवति ततः सोमादीनामन्यत-
मेनेष्ट्वा अवस्येद् गृहं प्रविश्य वसेत्। सोमोऽग्निष्टोमः। पशुरै-
न्द्राग्नः। इष्टिरग्रायणेष्टिर्दर्शपूर्णमासौ वा। आ तस्मात् का-
लात् तत्र वसेदित्युक्तं भवति। अन्ये त्वाग्नेयमष्टाकपालं
तदहरेवेच्छन्ति ॥ ४ ॥
१. 'न्ति केचिद् ब्रह्मवादिनः। ए' ङ. पाठः.
२. 'त' ख. ग. पाठः.
३. 'वे' घ. पाठः.