आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
नवमः खण्डः] अनाविलेापेतम् । ४९
नवमः खण्डः] अनाविलेापेतम् । ४९
एकादश पशोरवदानानि ॥ १२ ॥
पश्वधिकारे पुनः पशुग्रहणं श्रौतपरिग्रहार्थम् । श्रौतस्य पशोर्यान्यवदानानि तान्यत्र ग्राह्याणीति । तानि च कल्पान्तरादौ¹गमयितव्यानि । तत्रापस्तम्बः — ‘हृदयं जिह्व वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदत्तृतीयमिति दैवतानि’ ॥ १२ ॥
सर्वाङ्गेभ्योऽवदाय शामित्रे श्रपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात् ॥ १३ ॥
इदं विप्रतिषिद्धं यद्ये²कादशावदानानि³ सर्वाङ्गेभ्योऽवदाय⁴ कथमकादशावदानानीति । नास्ति विप्रतिषेधः । नेदं होमार्थमवदानं चोद्यते, तस्य वक्ष्यमाणत्वात् ‘एकैकस्यावदानस्य द्विर्द्विरवद्यती’ति । किं तर्ह्यनेनोच्यते । यद्यप्येकादशावदानानि, तथापि सर्वाण्यैवे⁵खण्ड्य शामित्रे श्रपयितव्यानीति । तानि च ‘दक्षिणं दोः सव्या श्रोणिर्गुदत्तृतीयमिति सौविष्टकृतानि । क्लोमानं प्लीहानं पुरीततं वॅ⁶निष्ठुमथ्युद्धिं मेदो जाघनीमि’त्यापस्तम्बोक्तानि । तेन च सौविष्टकृतानामत्रापि स्विष्टकृत्येव विनियोगः इतरेषां हुतशिष्टानां च ब्राह्मणभोजनादाविति । तत्र सर्वाङ्गेभ्य इति द्वितीयार्थे पञ्चमी । हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात्
१. ‘दवगन्तव्यानि’ क. पाठः.
२. ‘द्येवमेका’,
३. ‘नि कथं स’,
४. ‘दायदि सर्वाङ्गेभ्योऽवदाय क’,
५. ‘प्यङ्गाव’ ग. पाठः.
६. ‘वि’ क. पाठः.
५० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
हृदयं शूले प्रोतं शामित्र एव प्रतापयेति । ततः स्थालीपाक-
स्याग्रतो जुहोति । द्वितीयार्थे षष्ठी । स्थालीपाकस्य वा एक-
देशमवदानमात्रम् । अग्रतः अवदानेभ्यः प्राग् जुहोति । ततो-
ऽवदानानि । अस्मिन्नपि पक्षे स्विष्टकृदपि विद्यत^२ इत्याहुः ॥
अवदानैर्वा सह ॥ १४ ॥
जुहोति स्थालीपाकं, नाग्रतोऽवदानानाम् ॥ १४ ॥
एकैकस्यावदानस्य द्विर्द्विरवद्यति ॥ १५ ॥
यानि तान्येकादशावदानानि तेषामेकैकस्यार्थाय तत-
स्ततः प्रदेशाद् द्विर्द्विरवद्यति । द्विर्द्विरिति ग्रहणात् पञ्चाव-
त्तिनामपि द्विरेवेति केचित् । नेत्यन्ये, प्रदर्शनार्थत्वाद् द्वि-
र्ग्रहणस्य । यद्येवमपार्थकं द्विर्ग्रहणं तत् क्रियते अवदानधर्मेषु
द्विर्ग्रहणमेव यथा स्याद् देशादिनियमो मा भूदिति ॥ १५ ॥
आवृतैव हृदयशूलेन चरन्ति ॥ १६ ॥
आवृन्नाम मन्त्रवर्जिता क्रियापरिपाटी । अनुपदेशा-
देव मन्त्राभावे सिद्धे^३ तत्प्रतिषेधोऽन्येषां धर्माणां प्राप्त्यर्थः ।
के^४ ते । आहापस्तम्बः — 'अनुपस्पृशन् हृदयशूलमुदङ्परे-
त्यासञ्चरेऽप उपनिनीय शुष्कार्द्रयोः सन्धावुद्वासयती'ति ।
अस्माकमपि 'हृदयशूलमुपोयमानमि^५त्यादि ॥ १६ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये नवमः खण्डः ।
१. 'यति ततोऽवदाना' ग. पाठः. २. 'विभिद्य' क. पाठः.
३. 'द्धेऽपि त', ४. 'के पुनस्ते आ', ५ 'मनुमन्त्रयेदि ॥' ग. पाठः.