सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

द्वितीयः खण्डः] अनाविलोपेताम् । १३९

द्वितीयः खण्डः] अनाविलोपेताम् । १३९

ह्नि¹'ति वक्ष्यति । तमपि प्रतिषेधं बाधित्वाऽहरहःक्रियो स्यादि-
त्येवमर्थमिदमिति । ब्रह्मयज्ञस्तु न भवति 'तस्य द्वावनध्यायौ
यदात्माशुचिर्यद्देश' इत्याहृत्य वक्ष्यमाणत्वादिति ॥ ४ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
द्वितीयाध्याये प्रथमः खण्डः ।


अथ द्वितीयः खण्डः ।

अथ स्वाध्यायविधिः ॥ १ ॥

ब्रह्मयज्ञाध्ययनप्रकारौ वक्ष्यते । अक्रियमाणे विधिग्र-
हणे पूर्वोक्तानां यज्ञानामनन्तरं स्वाध्यायोऽध्येतव्य इत्युक्तं
स्यात् । विधिग्रहणाँ³दनुष्ठानक्रमो यथारुचि भवति ॥ १ ॥

प्राग्वोदग्वा ग्रामान्निष्क्रम्याप आप्लुत्य यज्ञो-

पवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्-

कूलानां तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षि-

णोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा

एष ओषधीनां रसो यद्दर्भाः सरसमेव तद् ब्रह्म क-

रोति द्यावापृथिव्योः सन्धिमीक्षमाणः संमील्य वा

यथा वा युक्तमात्मानं मन्येत तथायुक्तोऽधीयीत स्वा-

ध्यायम् ॥ २ ॥


१. 'ति प्रतिषेधं व' ग. घ. पाठः. २. 'या कर्तव्यतार्था' ग. पाठः.
३. 'णात् त्वनुष्ठाने य' ख. ग. ङ. पाठः.

१४० आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः

प्राङ्मुख उदङ्मुखो वा ग्रामान्निष्क्रम्याप आप्लुत्य
आप्लवनं स्नानम् इह तु द्वितीयानिर्देशादवगाहनपूर्वके वर्तते ।
आप्लुत्येत्येव सिद्धेऽप इति वचनादुद्धृताभिरद्भिः स्नानप्रति-
षेधः । आपस्तम्बस्तु गृहस्थं प्रकृत्याह—'¹सशिरावमज्जन-
मप्सु वर्जयेदि'ति । आप्लुत्य यज्ञोपवीती भूत्वाचामति । अत्र
यज्ञोपवीतवचनादकर्मकाले नावश्यम्भावः । कर्माङ्गमिदमाच-
मनं शौचार्थस्य स्मृतिप्राप्तत्वाद् । आचम्याक्लिन्नवासा अनाद्र-
वासा भूत्वा प्राक्कूलानां प्रागग्राणां दर्भाणां महदासनमुपस्तीर्य
तेषु प्राङ्मुख उपविशति । अत्र प्राङ्मुखत्वविधानात्पूर्व-
त्रानियमः । उपविश्य उपस्थं कृत्वा उपस्थकरणे दक्षिणः
पाद उत्तरे² स्यात् । ततः³ पूर्वोक्तलक्षणपवित्रवन्तौ पाणी
सन्दधाति । तत्र पवित्रवन्तौ पाणी इति वचनात् प्रतिपाणि
पवित्रे भवतः । सन्धाय द्यावापृथिव्योः सन्धिमीक्षमाण इत्य-
न्वयः । मध्ये त्वासनार्थानां पवित्रार्थानां च दर्भाणामर्थवादो
ब्राह्मणानुकर्षणेन । दर्भा इति यद् एष अपामोषधीनां च रसः⁴
तेन दर्भवान् कर्म कुर्वन् सरसं ब्रह्म करोतीति विज्ञायते
ब्राह्मणं भवतीति⁵ । संमील्य वा चक्षुषी प्रकारान्तरेणापि यथा
वा युक्तं समाहितमात्मानं मन्यते तथा युक्तोऽधीयीत स्वा-


१. 'सहशिरोव' ख. ग. ङ. पाठः.
२. 'रः सव्यस्योपरि भवति । त' घ. पाठः.
३. 'ततः प्रच्छिन्नाग्रावनन्तर्गभौ प्रादेशमात्रौ कुशावित्युक्तलक्षणाभ्यां पवित्राभ्यां तद्वन्तौ पाणी सन्दधाति दक्षिणस्यार्वाचीनताववान इति श्रुतेः । तत्र पवित्रवन्तौ पाणी सन्धायेति वच',
४. 'सः तत् तेन दर्भानुप्रवेशनेन स',
५. 'तिद्यावापृथिव्योः सन्धिमीक्षमाणः स' घ. पाठः.