आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
दशमः खण्डः ] अनाविलेापेतम् । २१३
दशमः खण्डः ] अनाविलेापेतम् । २१३
स्थालीपाके ये तुषाः ये च फलीकरणाः ये च पशोः पुच्छादयः तत्सर्वमग्नावन्वप्रहरेत् ॥ २१ ॥
भोगं चर्मणा कुर्वीतेति शाम्बव्यः ॥ २२ ॥
शाम्बव्यस्त्वाचार्यो मन्यते भोगं चर्मणा कुर्वीतेति चर्मणोऽनुभवे न दोष इति ॥ २२ ॥
उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छासिनीघोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽनेन वः प्रीणानीति ॥ २३ ॥
अथाग्नेरुत्तरतः दर्भवीता दर्भराजयः कुशसूनाः कुशपुष्पमय्यो वास्तीर्णा भवन्ति तासु पशोः शोणितं निनयेत् श्वासिनीरित्यादिना मन्त्रेण ॥ २३ ॥
अथोदङ्ङावृत्य श्वासिनीघोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽन्न तद्धरध्वमिति सर्पेभ्यो यत् तत्रासृगूवध्यं वावच्युतितं भवति ॥ २४ ॥
अथ यस्मिन् देशे पशुर्विशसितः तं प्रत्युदङ्मुख आवृत्य श्वासिनीघोषिणीरित्यादिमन्त्रेण यत्तत्र देशे असृग् रक्तम् ऊवध्यमान्त्रं वा अवच्युतितं क्षरितं भवति । सापेक्षत्वान्मन्त्रलिङ्गाच्च सर्पेभ्यो निवेदयतीति गम्यते ॥ २४ ॥
तद्धरन्ते सर्पाः ॥ २५ ॥
तदेव निवेदितं सर्पा हरन्ते ॥ २५ ॥
अथ देवस्य वैभवमुच्यते —
सर्वाणि ह वा अस्य नामधेयानि सर्वाः सेनाः सर्वाण्युच्छ्रय णानि ॥ २६ ॥
यावत् किञ्चिन्नामसंयुक्तं तत्सर्वमस्य देवस्य शेषभू-
२१४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
तम् । यावत्यश्च सेनास्ता अप्यस्यैव । सर्वप्रकाराणि चोच्छ्रय-
णानि उच्छ्रूयाः ऐश्वर्याणि तान्यप्यस्यैव ॥ २६ ॥
एवंविद् यजमानं प्रीणाति नास्य ब्रुवाणं चन
हिनस्तीति विज्ञायते¹ ॥ २७ ॥
य एवं देवं विदित्वा² याजयति स यजमानं प्रीणा-
ति बलेन योजयति । यश्चास्यैवंविदो यजमानस्य ब्रुवाण उ-
पदेष्टा³ भवति तमपि देवो न हिनस्तीति ब्राह्मणम्⁴ । चनश-
ब्दोऽप्यर्थे । एवं याजयितुर्यजमानस्य च कर्माङ्गं ज्ञानमुप-
दिष्टम् ॥ २७ ॥
नास्य प्राश्नीयुर्नास्य ग्राममाहरेयुरनभिमानुको
हैष देवः प्रजा भवति⁵ ॥ २८ ॥
अस्य पशोः द्वितीयार्थे षष्ठी अस्य वा संबन्धि कि-
ञ्चिदपि न प्राश्नीयुः (ना)स्य संबन्धि किञ्चिदनुपयुक्तमपि
ग्राममाहरेयुः । कस्माद्, अनभिमानुको हैष देवः प्रजा भ-
वति । अभिपूवों मन्यतिर्हिंसाकर्मा छान्दस उक(न्? ञ्) । ‘न
लोकाव्ययनिष्ठाखलर्थतृनाम्’ इत्युकान्तयोगे षष्ठीप्रतिषेधाद्
द्वितीया । प्रजानामहिंसको भवति । इतरथा हिंस्यादित्युक्तं
भवति ॥ २८ ॥
अमात्यानन्ततः प्रतिषेधयेत् ॥ २९ ॥
अमात्यान् पुत्रादीन् बालान् अस्य कर्मणोऽन्ततः
समीपे प्रतिषेधयेत् यथा समीपे नागच्छेयुः तथा कुर्यात् ॥
१. ‘ते ॥ एवं’, २. ‘त्वा यो या’ ङ. पाठः. ३. ‘द्रष्टा’ ग. ङ. पाठः. ४. ‘णं भवति । च’ ख. ङ. पाठः. ५. ‘तीति ॥’ ङ. पाठः.