आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
तृतीयः खण्डः] अनाविलोपेताम् । १११
तृतीयः खण्डः] अनाविलोपेताम् । १११
तेषाममात्यानां मध्ये ये मन्त्रविदो भवन्ति ते मन्त्रान् जपेयुः। के पुनस्ते मन्त्राः, स्योनापृथिवी भवेति अनन्तरोक्ता वक्ष्यमाणाँश्च अतो देवा अवन्तु नः सौर्याणि स्वस्त्ययनानि च॥
संहाय अतो देवा अवन्तु न इति त्रिरेतां दाक्षिणामुखाः प्रत्यङ्मुखा उदङ्मुखाश्च ॥ ९ ॥
‘ओहाङ् गतौ’ संपूवोऽयं शयित्वोत्थायासने वर्तते । दृश्यते
‘कलिः शयानो भवति सञ्जिहानस्तु द्वापरः’
इति । संहाय शयनादुत्थाय अतो देवा अवन्तु न इत्येतामृचं दाक्षिणादि (दि) ङ्मुखास्त्रिर्जपेयुः प्रतिदिशं सकृत् सकृत् ॥
चतुर्थं संहाय सौर्याणि स्वस्त्ययनानि च जपित्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयीत॥१०॥
चतुर्थं संहाय चतुर्थं संहानं कृत्वा । चतुर्थवचनाद् ज्ञायते प्रतिदिशं संहाय जप इति । संहानवचनाच्च संवेशनमपि भवति । तत्रापस्तम्बः — ‘प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैर्नैवस्वस्तरे संविशन्ति । दक्षिणतः पितोत्तरा मातैवमवशिष्टान् । ज्येष्ठो ज्येष्ठोऽनन्तरः । संहायोत्तराभ्यां पृथिवीमभिमृशन्ति । एवं संवेशनादि त्रिरि’ति । एवं चतुर्थं संहाय सौर्याणि सूर्यो नो दिव उदुत्यं जातवेदसमित्यादीनि च स्वस्ति नो मिमीतामित्यादीनि च जपित्वाऽन्नं भक्ष्यभोजनादिकं संस्कृत्य गुणवत्कृत्वा तेन ब्राह्मणान् भोजयित्वा तैर्भुक्तवद्भिः स्वस्त्ययनं वाचयीत
१. ‘रं व’ घ. ग. पाठः.
२. ‘णा अ’ घ. पाठः.
११२ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
पुण्याहं वाचयेत् । अपर आह — अतो देवा अवन्तु न इति त्रिर्जपेयुरिति एको योगः। अत्र दिशोऽनुक्तत्वात् 'तस्य नित्याः प्राञ्चश्रेष्टा' इति वचनाद् दक्षिणादीनां च वक्ष्यमाणत्वाच्च प्राङ्मुखा इति गम्यते । तत एतामित्यादि चतुर्थमित्यन्तोऽपरो योगः। एतामेवर्ग्चं दक्षिणादिदिङ्मुखाश्च जपेयुः । तत्र पच्छो जपः आनन्तर्येण च दिशां पादैर्योग इति ॥ ११ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये तृतीयः खण्डः ।
अथ चतुर्थः खण्डः ।
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः ॥ १ ॥
हेमन्तशिशिरयोर्ऋत्वोश्चतुर्णामपरपक्षाणां या अष्टम्यः तास्वष्टका नाम कर्म भवति । यद्यपि द्वयोर्ऋत्वोश्चत्वार एवापरपक्षाः, तथापि चतुर्णामित्युच्यते अधिकमासोपजने पञ्चमनिवृत्त्यर्थम् । किञ्च बहुवचनस्य त्रिष्वेवोपपत्तेश्चतुर्थो न गृह्येत तदर्थं च ॥ १ ॥
एकस्यां वा ॥ २ ॥
एकस्यां वाष्टम्यामष्टका भवति । तत्रापस्तम्बः— 'या माघ्याः पौर्णमास्या उपरिष्टाद् व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षत' इति । व्यष्टकापरपक्षः ॥ २ ॥
पूर्वेद्युः पितृभ्यो दद्यात् ॥ ३ ॥
पूर्वेद्युः पूर्वस्मिन्नहनि सप्तम्यां पितृभ्यः पितृपितामहप्रपितामहेभ्यो दद्यात् ॥ ३ ॥