आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
चतुर्थः खण्डः] अनाविलो॑पेतम् । ११३
चतुर्थः खण्डः] अनाविलो॑पेतम् । ११३
ओदनं कृसरं पायसं चतुःशरावस्य वापूपान् उदीरतामवर उत्परास इत्यष्टाभिर्हुत्वा यावतीभिर्वा कामयीत ॥ ४ ॥
तिलौदनं कृसरं¹ पायसं पयसि शृत²मेतेषां त्रयाणां समुच्चयः। तैः सहापूपानां विकल्पः। चतुर्णां शरावाणां समूहः चतुःशरावम्। तत्परिमितैस्तण्डुलैः कृता अपूपाः चतुःशरावस्यापूपाः। एतानि द्रव्याणि समवदाय उदीरतामित्यष्टाभिरृग्भिर्जुहोति³। यावत्योऽभिप्रेता ऊर्ध्वमप्यष्टाभ्यस्तावतीभिर्हुत्वा⁴ पितृभ्यो दद्यादिति पूर्वेण संबन्धः। पूर्वेद्युरेतानि द्रव्याण्येताभिर्हुत्वा पितृभ्यो दद्यादिति। तत्र होमव्यतिरेकेणापि पितृभ्यो दानं चोदितं भवति। किं पुनस्तद्, ब्राह्मणभोजनं पिण्डनिपरणं च ॥ ४ ॥
अथ श्वोभूतेऽष्टका पशुना स्थालीपाकेन च ॥ ५ ॥
पूर्वेद्युः कर्म प्रकृतं, ततः श्वोभूतेऽष्टका भवति पशुना स्थालीपाकेन च। चशब्दो विकल्पार्थः अनेकार्था निपाता भवन्तीति। पशुना स्थालीपाकेन वा। पशुशब्देन स्त्रीगवी गृह्यते। आह चापस्तम्बः — 'श्वोभूते दर्भेण गामुपाकरोती'ति। अष्टमीष्वष्टकेत्येव सिद्धे श्वोभूत⁵ इति वचनं नियमार्थम्। कथं श्वोभूत एवाष्टका स्यादिति। तेनाष्टम्यामसंभवे लोप एवाष्टकायाः। एतदेव ज्ञापकमन्येषां नियतकालानां
१. 'रं पयसि संस्कृतं पायसं ते' ख. पाठः. २. 'संस्कृत' घ. पाठः. ३. 'भिर्जु', ४. 'त्वा किं पितृभ्यो ददाति पू' ग. पाठः. ५. 'तेव' ख. ग. पाठः.
११४ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
कारणवशादुत्कर्षेऽप्यलोपो भवतीति। तेन पार्वणमुत्कृष्टमन्य-
स्मात् पर्वणः कर्तव्यम्। विधिकृन्मुखं तु भवति शास्त्रान्त-
रवशात् ॥ ५ ॥
अप्यनडुहो यवसमाहरेत् ॥ ६ ॥
ग्रासमुष्टिर्यवसम् । अपीत्यल्पत्वे,^१ एतावदपि तावत्
कुर्यादिति ॥ ६ ॥
अग्निना वा कक्षमुपोषेत् ॥ ७ ॥
कक्षो गुल्मः। उपोषणं दाहः ॥ ७ ॥
एषा मेऽष्टकेति^२ ॥ ८ ॥
— इति चौनयोः कल्पयोर्ब्रूयात् ॥ ८ ॥
न त्वेवानष्टकः स्यात् ॥ ९ ॥
अष्टकाकाले तूष्णीं न स्थातव्यं सर्वथा किञ्चित्
कर्तव्यमित्युक्तं भवति। एते चत्वारः कल्पा यथापूर्वं गरी-
यांसः ॥ ९ ॥
तां हैके वैश्वदेवीं ब्रुवते ॥ १० ॥
हशब्दो वाक्यालङ्कारे। तामष्टकामेके आचार्याः वैश्व-
देवीं ब्रुवते विश्वे देवा देवतेति। होममन्त्रेषु बहुँ^४देवतासं-
कीर्तनात् ॥ १० ॥
आग्नेयीमेके ॥ ११ ॥
अग्ने नयेति दर्शनात्। अस्मिन् पक्षे देवनान्तरसंकी-
र्तनं गुणभावेन । एवमुत्तरत्रापि ॥ ११ ॥
१. 'पिशब्दोऽनुकल्पतां द्योतयति । ए', २. 'का । इ',
३. 'वचनमन', ४. 'ह्दीनां देवतानां सं' ग. पाठः.