आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
चतुर्थः खण्डः ] अनाविलोपेसम् । १८३
चतुर्थः खण्डः ] अनाविलोपेसम् । १८३
अथ चतुर्थः खण्डः ।
प्रैष्येति युगपदग्नीन् प्रज्वलयेतेति ॥ १ ॥
कर्ता परिकर्मिण आह युगपदित्यादि ॥ १ ॥
आहवनीयश्चेत् पूर्वं प्राप्नुयात् स्वर्गे लोके एनं
प्रापदिति विद्यात् ॥ २ ॥
तेष्वग्निषु युगपत् प्रज्वलितेषु यद्याहवनीयः पूर्वं प्रा-
प्नुयात् प्रेतं तत एतं प्रेतं स्वर्गलोकं प्रापत्तै प्राप्तवानिति
विद्यात् ॥ २ ॥
रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ॥ ३ ॥
असौ प्रेतः अमुत्र लोके रात्स्यति संसिद्धो भविष्यति
एवमस्यामात्यजनोऽस्मिन् लोके रात्स्यतीति पुत्रो विद्यात् ।
एतेनोत्तरे सूत्रे व्याख्याते ॥ ३ ॥
गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोके एनं प्रा-
पदिति विद्यात् रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ।
दक्षिणाग्निश्चेत् पूर्वं प्राप्नुयान्मनुष्यलोके एनं प्रापादि-
ति विद्यादन्नमेवासावत्स्यत्येवमयमस्मिन्निति पुत्रः ॥ ४ ॥
एवकारो भिन्नक्रमः अन्नमत्स्यत्येव “अद भक्षणे”
अस्मिन् लोके पुनर्जातोऽन्नवान् भविष्यत्येवेत्यर्थः । एवमय-
मिति व्याख्यातम् ॥ ४ ॥
युगपत् प्राप्तौ परामृद्धिं वदन्ति ॥ ५ ॥
१. ‘प्येतेति’ ख. पाठः. २., ३. ‘र्वः’ ख. घ. ङ. पाठः. ४. ‘त् प्राप्नुयात् प्रा’ घ. पाठः. ५., ६. ‘र्वः’ ग. पाठः. ७. ‘त्तौ तु प’ ख. ग. ङ. पाठः.
१८४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
यद्येनं त्रयोऽप्यग्नयो युगपत् प्राप्नुयुः तदा परा ऋ-
द्धिर्भवतीति वदन्ति ब्रह्मवादिनः ॥ ५ ॥
तं दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्ये-
भिरिति समानम् ॥ ६ ॥
प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयामित्या-
रभ्य समाप्येत्यन्तं यदुक्तं तदत्र कर्तव्यमित्यर्थः ॥ ६ ॥
स एवंविदा दह्यमानः सहैव धूमेन स्वर्गलोकमै-
तीति विज्ञायते ॥ ७ ॥
स प्रेत एवंविदा उक्तं दहनप्रकारं यो वेत्ति तेन द-
ह्यमानः सहैव धूमेन यदैव धूम उद्गच्छति तदैव स्वर्गलोक-
मेतीति ब्राह्मणं भवति ॥ ७ ॥
उत्तरपुरस्तादाहवनीयस्य जानुमात्रं गर्तं खात्वा-
द्भिः पूरयित्वावकाः शीफालमित्यवधापयेत् ततो ह वा
एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति विज्ञायते ॥
तत एवं कल्पिताद् गर्तादेष प्रेतो निष्क्रम्य । सहैवे-
त्यादि गतम् । हवै इत्यव्ययद्वयमयमर्थः सिद्ध इत्यर्थे ॥
इमे जीवा विमृतैराववृत्रन्निति सव्यावृतो व्रज-
न्त्यनवेक्षमाणाः ॥ ९ ॥
ततोऽमात्या इमे जीवा इति मन्त्रमुक्त्वा सव्येन भा-
गेनावर्तमानाः प्रेतमनवेक्षमाणा व्रजन्ति ॥ ९ ॥
यत्रोदकमवहं भवति तत् प्राप्य सकृदुन्मज्जै-
काञ्जलिमुत्सृज्य तस्य गोत्रनाम गृहीत्वोत्तीर्यान्यानि