आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
चतुर्थः खण्डः] अनाविलेापेतम् । ११५
चतुर्थः खण्डः] अनाविलेापेतम् । ११५
सौर्यामिके ॥ १२ ॥
'ग्रीष्मो हेमन्त' इति मन्त्रे 'अधिपतिः प्राणेद' इति सूर्यस्याभिधानं मन्यन्ते ॥ १२ ॥
नक्षत्रदेवतामेके ॥ १३ ॥
अत्र शाखान्तरं मृग्यम् ॥ १३ ॥
रात्रिदेवतामेके ॥ १४ ॥
शाखान्तरेषु 'यां जनाः प्रतिनन्दन्ती'त्यष्टकाहोम उक्तः, तदभिप्रायमेतत् ॥ १४ ॥
ऋतुदेवतामेके ॥ १५ ॥
'ग्रीष्मो हेमन्त'² इति दर्शनात् ॥ १५ ॥
पितृदेवतामेके ॥ १६ ॥
'वह वपां जातवेदः पितृभ्य' इति दर्शनात् ॥ १६ ॥
प्राजापत्यामेके ॥ १७ ॥
'प्रजापतिर्मयि परमेष्ठी' 'प्रजापते न त्वदि'ति दर्शनात् । तत्र पितृदेवतेति निर्णयः । स्मर्यते हि 'अष्टका पितृदेवत्ये' इति । प्रसिद्धिरप्येवमेव । तेन प्राचीनावीतमेव भवति सर्वत्र ॥ १७ ॥
पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्जं वपामुत्खिद्य³ जुहुयात् वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान् पराके मेदसः कुल्या उपैनान् स्रवन्तु सत्या एतामाशिषः सन्तु सर्वाः स्वाहेति ॥ १८ ॥
१. 'ण इ' क. पाठः. २. 'त्यादिद' ख. पाठः. ३. 'द्य उत्कृत्य जु' क. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
११६ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
‘अथ पशुकल्प’ इत्यत्रोक्तेन पशुं संज्ञप्य मारयित्वा
प्रोक्षणोपाकरणवर्जं प्रोक्षणमुपाकरणं चेति द्वे एते कर्मणी
वर्जयित्वा वपामुत्खिद्य जुहुयात् वह वपामिति मन्त्रेण । प-
शुचोदनयैव सिद्धे पशुकल्पेनेति वचनं पशुकल्पस्यैव प्रोक्ष-
णस्य प्रतिषेधो यथा स्यात् स्थालीपाकधर्मस्य पार्व्वणेप्राप्तस्य
प्रतिषेधो मा भूदिति । तेन पशुपक्षेऽपि तदङ्गभूते स्थालीपाके
प्रोक्षणं भवत्येव । वपामुत्खिद्येति वचनं सर्वेष्वपि देवता-
विकल्पेषु वह वपामित्यनेन मन्त्रेण होमो यथा स्यादिति,
यदुत्खिद्य जुहुयात् तदनेन मन्त्रणेति, अन्यथा पितृदेवत्या-
यामष्टकायां न स्यात् पितृलिङ्गत्वान् । येषां तु पितृदेवत्यै-
वाष्टकेति निर्णयः तेषां प्राप्तानुवाद एवायम् ॥ १८ ॥
अथावदानानां स्थालीपाकस्य च अग्ने नय सु-
पथा राये अस्मानिति द्वे । ग्रीष्मो हेमन्त ऋतवः
शिवा नो वर्षाः शिवाभया शरन्नः । संवत्सरोऽधिपतिः
प्राणदो नोऽहोरात्रे कृणुतां दीर्घमायुः स्वाहा । शान्ता
पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयं कृणोतु । शिवा
दिशः प्रदिश उद्दिशो न आपो विद्युतं परिपान्तु वि-
श्वतः स्वाहा । आपो मरीचीः प्रवहन्तु नो धियो धाता
समुद्रोऽपँहन्तु पापं भूतं भविष्यदभयं विश्वमस्तु मे
ब्रह्माभिगुप्तः स्वाराक्षाणि स्वाहा । विश्व आदित्या वस-
१. ‘कस्य’ ग. पाठः. २. ‘णतः प्रा’, ३. ‘द्यव’ ग. घ. पाठः.
४. ‘हवन्तु’ ख. पाठः.