आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
एकादशः खण्डः] अनाविलोपेत्तम् । ५५
एकादशः खण्डः] अनाविलोपेत्तम् । ५५
युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ती’ति । इह तु पुंसवनमनवलोभनं चोच्यते । तत् तृतीये गर्भमासे कर्तव्यम् । तिष्येणेति ‘नक्षत्रे च लुपी’त्यधिकरणे तृतीया । प्राशनेन चास्य सम्बन्धः नोपवासेन । ज्योतिःशास्त्रे कल्पान्तरेषु च तिष्य एव पुंसवनं विहितम् । तत्रापस्तम्बः — ‘पुंसुवनं व्यक्ते गर्भे तिष्येणे’ति । किञ्च,
‘‘नक्षत्रमुपवासश्च प्राशनस्य गुणौ मतौ ।
गुणानां च परार्थत्वादसम्बन्धः समत्वतः ॥’’
समानं रूपं यस्य स सरूपः सरूपो वत्सो यस्याः सा सरूपवत्सा एवम्भूताया गोर्दधानि । सप्तमीनिर्देशात् प्रक्षिप्येति गम्यते । द्वौ द्वौ च माषौ यवं च प्रक्षिप्य तद् दधि पूर्वेद्युरुपोषिताया भार्यायाः प्रसृतेन प्राशयेत् तामेव । उपवासश्च रात्रावभोजनम् । ‘औपवस्तमेव कालान्तरे भोजनमि’त्यापस्तम्बधर्मे प्रदर्शनात् । प्रसृतोऽर्धाञ्जलिः । द्वौ द्वाविति वीप्सावचनं वक्ष्यमाणप्रसृतापेक्षम् । एकस्मिंस्तु प्रसृते द्वौ माषौ ॥
किं पिबसि किं पिबसीति पृष्टा पुंसवनं पुसवनमिति त्रिः प्रतिजानीयात् ॥ ३ ॥
प्रतिज्ञानं प्रतिवचनम् । प्राश्नन्तीं भार्यां भर्ता पृच्छति किं पिबसीति । सा प्रत्याह — पुंसवनमिति । अत्रापि वीप्सावचनं वक्ष्यमाणप्रसृतापेक्षम् । त्रिरित्यनुवादः । ‘एवं त्रीन् प्रसृतान्’ इत्येव सिद्धे एवं तावदुपदेशः । अपर आह — प्रतिप्राशनमावृत्तम् एवं प्रश्नः प्रतिवचनं चेति । अस्मिन् पक्षेऽपि त्रिरित्यनुवादः ॥ ३ ॥
१. ‘शः प्रतिप्राशः अ’ ग. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
| ५६ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
एवं त्रीन् प्रसृतान् ॥ ४॥
एवमुक्तेन प्रकारेण त्रीन् प्रसृतान् प्राशयेत् । उक्तेन सह त्रयः प्रसृताः ॥ ४ ॥
अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधीं नस्तः करोति ॥ ५ ॥
उक्तं पुंसवनम् । अनवलोभनमुच्यते । मन्त्रलिङ्गं हि भवति 'माहं पौत्रमघं नियामि'ति । तत्र मण्डलाकारमगारं कर्तव्यं तस्यच्छायायां तत् कर्म भवति । नासिकाबिलस्य द्वित्वाद् दक्षिणस्यामिति विशेष्यते । अस्माद्विशेषणाद् ज्ञायते 'एकाङ्गवचने दक्षिणं प्रतीयाद्' इति परिभाषा ज्ञानेन्द्रियेषु न प्रवर्तत इति । अजीतामोषधीम् अजीर्णां दूर्वामित्युपदेशः । तां नस्तः करोति नस्तःकरणं नाम नासिकाबिलेनान्तःप्रवेशनम् । तच्च स्वरूपेणाशक्यमिति रसीकृत्य कर्तव्यम् । तत्रापस्तम्बः — 'अनवरस्नातया कुमार्या दृषदपुत्रे दृषदपुत्रेण पेषयित्वा परिवाप्ये'ति । अनुपदेशान्मन्त्रो न भवति ॥ ५ ॥
प्रजावज्जीवपुत्राभ्यां हैके ॥ ६॥
एके आचार्याः प्रजावज्जीवपुत्राभ्यामृषिभ्यां दृष्टे ये सूक्ते 'आ ते गर्भो योनिमेतु' 'अग्निरेतु प्रथमो देवतानामि'त्येताभ्यां नस्तःकरणमिच्छन्ति । सूक्तद्वयमुक्त्वा तदन्ते निषेकः । अनयोरपि सूक्तयोर्लिङ्गानि भवन्ति । अनवलोभनमेतदिति ॥ ६ ॥
१. 'रिप्लाव्ये'ति मुद्रितपाठः. २. 'न्त्रोऽपि न', ३. 'त्वा' ग. पाठः. ४. 'नमिति' ग., 'यं' क. ख. पाठः.