कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इस ग्रन्थ के बारे में
वात्स्यायन का कामसूत्र भारतीय परम्परा में 'काम' पुरुषार्थ का प्रामाणिक शास्त्र माना जाता है। इसका आरम्भ धर्म, अर्थ और काम तीनों को नमस्कार से होता है और यह काम को धर्म तथा अर्थ के साथ सन्तुलित जीवन का अंग मानकर चलता है। ग्रन्थ सात अधिकरणों, छत्तीस अध्यायों और चौंसठ प्रकरणों में बँटा है और प्राचीन नगर-जीवन, नागरक की दिनचर्या, चौंसठ कलाओं, विवाह, गृहस्थ स्त्री के कर्तव्यों और सामाजिक व्यवहार का विस्तृत चित्र देता है, इसलिए यह सांस्कृतिक इतिहास का भी महत्त्वपूर्ण स्रोत है।
विषय-सूची में सातों अधिकरण इस क्रम में हैं: साधारण, साम्प्रयोगिक, कन्यासम्प्रयुक्तक, भार्याधिकारिक, पारदारिक, वैशिक और औपनिषदिक।
यह स्कैन काशी संस्कृत सीरिज (हरिदास संस्कृत ग्रन्थमाला) की २९वीं संख्या है, जिसे चौखम्बा संस्कृत सीरिज ऑफिस, बनारस ने १९२९ में छापा। इसमें मूल सूत्रों के साथ यशोधर की प्रसिद्ध संस्कृत टीका 'जयमङ्गला' पूर्ण रूप में दी गई है, और सम्पादन साहित्याचार्य गोस्वामी दामोदर शास्त्री ने किया है। आरम्भ में द्वितीय संस्करण का उपसंहार है, जिसमें बम्बई के निर्णयसागर प्रेस से पहले छपे संस्करण की चर्चा है। यह प्रति केन्द्रीय पुरातत्त्व पुस्तकालय, नई दिल्ली की है।
इस संस्करण में सूत्र और टीका संस्कृत में ही हैं, हिन्दी अनुवाद नहीं है।
३ अध्याये ] बालोपक्रमप्रकरणम् । १७७
३ अध्याये ] बालोपक्रमप्रकरणम् । १७७
धनहीनस्त्वभिजनादिगुणयुक्तोऽपि दरिद्रः कन्यां न लभते, मध्यस्थगुणो हीनापदेशो वेति । मध्यस्था रूपशीलादयो गुणाः, अभिजनः-प्रधानं तदभावादीनव्यपदेशः, सधनो वा प्रातिवेश्य इति । स्वगृहसमीपवासी सीमासम्बन्धेन कलहादिजनकत्वाद् धनगर्वान्न लभते, मातापित्रोर्भ्रातृषु च सत्सु, परतन्त्रोऽन्यप्रधानः सधनोऽपि न लभते, बालवृत्तरुचितप्रवेशो वेति । यो लाडीकवद् दृश्यते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१७८ सटीके कामसूत्रे [ ३ अधिकरणे,
ल्लकद्यूतं पञ्चसमयादि, मध्यमाङ्गुलिग्रहणमिति । अङ्गुलिविपर्यासेन गोपितुर्मध्यमाङ्गुलेर्ग्रहणं, षट्पाषाणकादीनीति । यत्र स्वल्पानि षट्पाषाणानि हस्तस्य क्रोडेनोत्क्षिप्य पृष्ठेन गृह्यन्ते, आदिशब्दादन्यानि च देश्यानि पञ्चिकाप्रसृतकादीनि, तत्साम्यादिति । यत्र नायिकाया अभिनिवेशः, तदाप्तदासचेटिकाभिश्चित । तस्या ये दासाश्चेटिकाश्च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३ अध्याये ] बालोपक्रमप्रकरणम् । १७९
३ अध्याये ] बालोपक्रमप्रकरणम् । १७९
क्नुयादनभिहिताऽपि प्रत्याचार्यकम् ॥ ९ ॥
धात्रेयिकां धात्र्या दुहितरम्, प्रियं तदात्वे सुखकरं, हितमायत्याम्, अधिकोपग्रहे फलमाह—सा हीति । प्रीयमाणा स्निह्यमाना, विदिताकाराऽपीति । नायको नायिकामिच्छतीति ज्ञाताभिप्रायाऽपि, अप्रत्यादिशन्ती तमिति । नायकमप्रत्याचक्षाणा, तां चेति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १८० | सटीक कामसूत्रे | [ ३ अधिकरणे, |
|---|
वीणिकानां पिण्डोलिकानां पटोलिकानामलक्तकमनःशिलाहरिता-
लहिङ्गुलकश्यामवर्णकादीनां, तथा चन्दनकुङ्कुमयोः पूगफलानां
पत्राणां कालयुक्तानां, च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां
च प्रकाशं, यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयति-
तव्यम् ॥ १४ ॥
महानसिकस्येति। महानसविषयं कर्म महानसिकमित्युक्तम्, भक्तग्र-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३ अध्याये ] बालोपक्रमप्रकरणम् । १८१
३ अध्याये ] बालोपक्रमप्रकरणम् । १८१
वर्धमानानुरागां चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभि-
श्चित्तहारिणीभिश्च रञ्जयेत् ॥ १७ ॥
अन्वर्थाभिः, स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाभिः, चित्तहारिणीभिरन्याभिरनुरागयुक्ताभिः ॥ १७ ॥
विस्मयेषु प्रसज्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत्, कलासु
कौतुकिनीं तत्कौशलेन,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंबालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
१८२ सटीके कामसूत्रे [ ३ अधिकरणे,
तथाभूतं तं च दृष्ट्वा, भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्गिताकारलिङ्गैर्विद्यात् ॥ २२ ॥
किमित्यनुपहतदर्शनः स्यादित्याह--
युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जत इति प्रायोवाद इति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३ अध्याये ] इङ्गिताकारसूचनप्रकरणम् । १८३
कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥
परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्षं,- तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥
यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति ॥ ३१ ॥
तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१८४ सठीके कामसूत्रे [ ३ अधिकरणे,
अनलङ्कृता दर्शनपथं परिहरति ॥ ४० ॥
दर्शनपथमिति । नायकस्य ॥ ४० ॥
कर्णपत्रमङ्गुलीयकं स्रजं वा तेन याचिता सधीरमेव गात्राद-
वतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति ॥ ४१ ॥
सधीरमवतार्य किं ग्रहीष्यतीति, सख्या हस्त
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८५
चतुर्थोऽध्यायः ।
शास्त्रकार एव प्रकरणसम्बन्धमाह—
दर्शितेङ्गिताकारां कन्यामुपायतऽभियुञ्जीत ॥ १ ॥
दर्शितेङ्गिताकारमिति । उपायत इति । उपाया एवाभियोगा अभि-
युज्यते तैरिति, ते चासहायस्येत्येकपुरुषाभियोगा उच्यन्ते, ससहाय-
स्यापि के चित्सम्भवन्ति,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१८६ सटीक कामसूत्रे [ ३ अधिकरणे,
स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ॥ ९ ॥
अन्यापदेशेनेति । त्वत्तुल्यवयोरूपया सहोपगमः स्वप्ने ममाभूदिति कथनम् ॥ ९ ॥
प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनं तत्रान्यापदिष्टस्प- र्शनम् ॥ १० ॥
स्वजनसमाजः = स्वजनगोष्ठी, समीपोपवेशनमिति । नायिकायाः, तत्रेति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८७
विजने तमसि च द्वन्द्वमासीनः क्षान्तिं कुर्वीत समानदेशश-
य्यायां च ॥ १९ ॥
द्वन्द्वमिति । साहचर्येणासीनः, क्षान्तं कुर्वीतेति । करस्पर्शादिना, त-
त्काले लज्जाऽभावात्कन्यायाः, समानदेशशय्यायां च क्षान्तिं कुर्वीत॥१९॥
तत्र यथार्थमनुद्वेजयतो भावनिवेदनम् ॥ २० ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१८८ सटीक कामसूत्रे [ ३ अधिकरणे,
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥ २६ ॥
अस्येति । कन्यासाध्यस्य, त्रिरात्रं त्रिसंध्यं, प्रयुक्तिः = प्रयोगः, कार्यः ॥ २६ ॥
एतन्निर्देशे फलमाह—
अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ॥ २७ ॥
अभीक्ष्णेति । गोष्ठीमिति । कलानामाख्यायिकानां वा येन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९
४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९
खया वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सहैनामङ्कमानाययेत् ततो यथोक्तमभियुञ्जीत ॥ ३२ ॥
एकेति । असम्भव इति । नायिकाया विप्रकृष्टत्वात्स्वयमेकस्याभि-
योगो न सम्भवति सहायमपेक्षते, गृहीतार्थयेति । नायकोऽपि नायिकां-
समीपमानेतुमिच्छतीत्येतद्रूपार्थज्ञानवत्या, तस्यामन्तर्भूतया नायिकायां-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१३० सटीके कामसूत्रे [ ३ अधिकरणे,
पाणिग्रहणं स्वयमभीप्सेत ॥ ३६ ॥
मन्देति । मन्दापदेशा = हीनाभिजना, गुणवत्यपि सा तैरदास्यमाना वा, धनहीना वा कुलीनाऽपि, समानैस्तुल्याभिजनैर्धनिभिः, माता-पितृवियुक्ता वा, अनाथत्वादयाच्यमाना, प्राप्तयौवनेति । प्रत्येकं योज्यं, स्वयं पाणिग्रहं लिप्सेत, तदानीं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९१
औचित्यदर्शनमिति । सहसा न प्रतिजानीयाद् , अनुबन्ध्यमानमनुकुर्यादित्यर्थः ॥ ४१ ॥
प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्तमाचरेत् ॥ ४२ ॥
प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः , बालायां ये नायकस्योपक्रमा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१९२ सटीके कामसूत्रे [ ३ अधिकरणे,
१९२ सटीके कामसूत्रे [ ३ अधिकरणे,
नातिविवृतेति । अङ्गोपाङ्गप्रत्यङ्गदर्शनेनेत्यर्थः, तत्र हेतुः—अनिश्चयेति ॥ ४९ ॥
निश्चितकालं दर्शयन्नाह -
यदा तु मन्येतानुरक्तो मयि न व्यावतिष्यत इति तदैवैनमभियुञ्जानं बालभावमोक्षाय त्वरयेत् ॥ ५० ॥
**यदा त्विति। न व्यावत्तिष्यते, न मां त्यक्ष्यति, अभियाञ्जानं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९३
यस्तु धनवान्बहुपत्नीको गुणवानप्यवश्यस्तमभियुञ्जानं प्रतिलोमयेदिति दर्शयन्नाह—
वरं वश्यो दरिद्रोऽपि निर्गुणोऽप्यात्मधारणः ।
गुणैर्युक्तोऽपि न त्वेवं बहुसाधारणः पतिः ॥ ५५ ॥
वरमिति । आत्मधारणः कुटुम्बमात्रधारकः, बहुसाधारणो बहूनामेकः, यस्तु धनवान् कृतपरिग्रहो गुणवान् वश्यः, तं न प्रतिलोमयेदित्यर्थः ॥ ५५ ॥
यस्तु न वश्यस्तत्र दोषमाह—
प्रायेण धनिनां दारा बहवो निरवग्रहाः ।
बाह्ये सत्युपभोगेऽपि निर्विश्रम्भा बहिःसुखाः ॥ ५६ ॥
प्रायेणेति । स्वत एव धनवान्बहून्दारान्प्रतिगृह्णाति, विशेषतस्ताश्च, निरवग्रहाः=निरङ्कुशाः, तत्र कारणं—बाह्य इति । अशनाद्युपभोगेन बहिःसुखाः, निर्विश्रम्भा आन्तरेण रताख्यसुखेन वर्जिता इत्यर्थः ॥ ५६ ॥
नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा ।
विदेशगतिशीलश्च न स संयोगमर्हति ॥ ५७ ॥
नीचोऽधमजातिः पूर्वगुणयुक्तोऽपि, पलितः=वृद्धः, विदेशगतिशीलः=सदा प्रवासी ॥ ५७ ॥
यदृच्छयाऽभियुक्तो यो दम्भद्यूताधिकोऽपि वा ।
सपत्नीकश्च सापत्यो न स संयोगमर्हति ॥ ५८ ॥
यदृच्छयेति । स्वेच्छाभियोगशीलो बलात्कारेणेति भावः, दम्भाधिको व्याजबहुलो, द्यूताधिको द्यूतासक्तश्च, सपत्नीकः सापत्यश्च परिणीतभार्यायुक्तस्तदपत्यवांश्च, एकतरवान्वा ॥ ५८ ॥
वश्यस्तु तादृशोऽपि संयोगमर्हत्येवेत्याह—
गुणसाम्येऽभियोक्तॄणामेको वरयिता वरः ।
तत्राभियोक्तरि श्रैष्ठ्यमनुरागात्मको हि सः ॥ ५९ ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगाः प्रयोज्योपावर्त्तनमभियोगतश्च कन्यायाःप्रतिपत्तिश्चतुर्थोऽध्यायः ।
२५ का० सू०
१९४ सटीक कामसूत्रे [ ३ आधिकरण,
गुणेति । यथोक्तगुणानां साम्ये, एको वरयिता वर इति । व्रियन्त-
इति वराः सर्व एवाभियोक्तारः, तेषां वर एको वरयिता वरणे साधुः,
‘वर ईप्सायां’ साधुकारिणि तृन्, तस्मिन्नभियोक्तरि वरयितृत्ववि-
शिष्टे, श्रेष्ठता तस्यानुरागात्मकत्वात् ॥ ५९ ॥
इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं-
प्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगः, प्रयोज्योपावर्तनमभियोगतश्च
कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
एवमनुरञ्जितां स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेद्, विपरीतामा-
सुरादिभिरिति विवाहयोगा उच्यन्ते-तत्र गान्धर्वेण या प्रायशो विविक्ता-
दृश्यन्ते, तस्या बहुसिद्ध्याः सुकरमभिप्रेतदेशनयनं, या तु न प्रायश-
स्तस्यास्तावत्सहायसाध्यविधिमाह—
प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रिय-
हिताभ्यामुपगृह्योपसर्पेत् ॥ १ ॥
प्राचुर्येणेति । धात्रेयिकां पुरुषप्रवृत्तामत्यर्थाद् , उपगृह्य प्रियहिता-
भ्यामुपसर्पेत् , तस्याः समीपे निसृष्टार्थां प्रेषयेत् ॥१॥
सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्ज-
येत् ॥ २ ॥
सा चेति । सा = उपसर्पिता, अविदिता नाम, नायकस्याविदितेव
भूत्वा; कृतकप्रयोगपरिहारार्थं, तद्गुणैरिति । तस्य नायकस्य गुणैः॥२॥
तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठमुपवर्णयेत् ॥ ३ ॥
तस्याश्चेति । रुच्यानभीष्टान् ॥ ३ ॥
अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेद् माता-
पित्रोश्च गुणानभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ॥४॥
अभिप्रायविरुद्धानिति । यथा नेच्छति तानियं तथेत्यर्थः, गुणानभि-
ज्ञतां लुब्धतां चेति । ‘अगुणज्ञौ तव पितरौ लुब्धौ च, येन गुणवन्तमप-
हायान्यं धनिनं निर्गुणं गवेषयतः’ इति प्रतिपादयेत् ॥ ४ ॥
५ अध्याये ] विवाहयोगप्रकरणम् । १९५
याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाऽऽद्याः स्वबुद्ध्या भर्तारं प्राप्य संयुक्ता मोदन्ते स्म ताश्चास्या निदर्शयेत् ॥ ५ ॥
समानजातीया इति । मोदन्ते स्म = प्रमुदितवत्यः, नानुरूपोऽयं ममेति स्वबुद्ध्याऽवधारणं, न पित्रोरिच्छया, तथा कर्तव्ये शकुन्तलाऽऽदिकृताः कथाः कथयेत्, कौशिकः स्वतपोविघ्नार्थमिन्द्रसंप्रेषितामप्सरसं मेनकां दृष्ट्वा जातरागश्चकमे, सा च तद्वीर्यग्रहणात्तत्रैव कन्यां प्रसूय त्यक्त्वा चारण्ये दिवं जगाम, शकुन्तसंपातमध्यगतां च तां कन्यां कण्वर्षिः करुणयाऽऽश्रममानीय वर्धितवान्, यथार्थं च शकुन्तलेति नाम चक्रे, सा च कालेन प्राप्तयौवना मृगयाप्रसङ्गादागतं दुष्यन्तं राजानं दृष्ट्वा स्वबुद्ध्या पाणिं ग्राहितवतीति, आदिशब्दाद्राजदारिकाः कन्या निदर्शयेत्, ॥ ५ ॥
महाकुलेषु सापत्नकैर्बाध्यमाना विद्धिष्टा दुःखिताः परित्यक्ताश्च दृश्यन्तायातिं चास्य वर्णयेत् ॥ ६ ॥
महाकुलेष्विति । महाकुलेषु च लोभात्पित्रा दत्ता नियतं सापत्नकैर्बाध्यन्ते, ततश्च विद्धिष्टाः परिजनस्य परित्यक्ताः सत्यो दुःखिता दृश्यन्त इति दर्शयेद्, आयतिमुत्तरभाविनमर्थम्, भविष्यति चेति ॥ ६ ॥
सुखमनुपहतमेकचारितायां नायकानुरागं च वर्णयेत् ॥ ७ ॥
एकचारितायामिति । एकपत्नीत्वे सुखमनुपहतं वर्णयेत् सापत्न्यदुःखाभावाद्, नायकानुरागं चेति ॥ ७ ॥
समनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् ॥ ८ ॥
समनोरथाया इति । अस्त्येवायमस्या मनोरथः, किं तु दोषान्पश्यतीत्युत्प्रेक्ष्याह — अपायमिति । विनाशं कुतश्चित्, साध्वसं = भयं,-गुरुजनाद्, व्रीडां परिजनेषु, हेतुभिरपायैर्दर्शनैरपनयेत् ॥ ८ ॥
दूतीकल्पं च सकलमाचरेत् ॥ ९ ॥
दूतीकल्पं च पारदारिके वक्ष्यमाणं प्रतारणप्रकरणम्, ॥ ९ ॥
त्वामजानतीमिव नायको बलाद्ग्रहीष्यतीति तथा सुपरिगृहीता स्यादिति योजयेत् ॥ १० ॥
त्वामजानतीमिवेति । अजानतीमिव बलात्कारेण ग्रहीष्यति तदा न तव दोषः, तथेति । तेन प्रकारेण सुगृहीतं स्याद् वचनोयाभावादित्यमुंचार्थं योजयेत् ॥ १० ॥
१९६ सटीक कामसूत्रे [ ३ अधिकरणे,
प्रतिपन्नामभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निमा-
नाय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रामेत् ॥ ११ ॥
प्रतिपन्नामिति । अभ्युपगतार्थामेकान्तदेशवर्तिनीं, श्रोत्रियेति । तत्राग्नेः संस्कृतत्वादित्यर्थः, यथास्मृति स्वगृह्योक्तविधिना, त्रिः परिक्रामेत् कन्यामग्निं भ्रमयेत् ॥ ११ ॥
ततो मातरि पितरि च प्रकाशयेत् ॥ १२ ॥
प्रकाशयेत्, प्रणिधिना यथा नायकेनोढेति ॥ १२ ॥
अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्याचार्यसमयः ॥ १३ ॥
न निवर्तन्त इति । नान्येनोह्यत इति दर्शयति, तेन धर्मविवाहेष्वग्निसंनिधानं कार्यमिति ॥ १३ ॥
दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् ॥ १४ ॥
दूषयित्वेति । अभिगम्येत्यर्थः, नोद्वाहितमात्रां, शनैः स्वजने प्रकाशयेत्, तस्या आत्मीयकरणार्थम् ॥ १४ ॥
यथा पितरौ तथाविधामपि न प्रयच्छत इति तदाह—
तद्बान्धवाश्च यथा कुलस्याघं परिहरन्तो दण्डभयाच्च तस्मा-
एवैनां दद्युस्तथा योजयेत् ॥ १५ ॥
तद्बान्धवा इति । नायिकाबान्धवाः, नायकोपगृहीतेत्यघं दोषं परिहरन्तो, यदि तस्मै न प्रतिपाद्यते तदा कुलं दुष्यत इति, दण्डभयाच्चेति । एवं चानुश्रीयमानं यदि राजा शृणुयात्तदा दण्डं पातयेदिति, तस्मा एव नायकायैव, तथा योजयेत् प्रतिविदध्यान्नायकः ॥ १५ ॥
अनन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान्प्रणियेदिति ॥ १६ ॥
अनन्तरं च तत्प्रतिपादनस्य, प्रीत्युपग्रहेण मुकुरवस्त्रादिदानेन बाह्यानुरागेण चान्तरेण वा प्रीणयेत्तर्पयेद् ॥ १६ ॥
गान्धर्वेण विवाहेन वा चेष्टेत ॥ १७ ॥
गान्धर्वेण चेष्टेतेति । एवं गान्धर्वविधिरुक्तः ॥ १७ ॥
आन्तरस्थामधिकृत्याह—
अप्रतिपद्यमानायामन्तश्चारिणीमन्यां कुलप्रमदां पूर्वसंसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यमवकाशमेनामन्यकार्यापदेशे-
नानाययेत् ॥ १८ ॥