सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५७

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५७

मदवरोधानां वेति । अस्मत्परिगृहीतानां दाराणामभिगमनेन दूषयिता, ततश्चानुरूपप्रत्यपकारेण शत्रोरानृण्यं गन्तव्यम्'इति न्यायादस्यापि दारानेवाभिगमनेन दूषयन्, प्रतिकरिष्यामि = प्रतीकारङ्करिष्यामि ॥१६॥

राजनियोगाच्चान्तर्वर्तिनं शत्रुं वाऽस्य निर्हनिष्यामि ॥ १७ ॥

राजनियोगादिति । राज्ञाऽहमभ्यन्तरप्रचारं निरूपयितुं नियुक्तस्तमुपायान्तराभावादस्य विश्वस्तया संसृज्य निष्कासयिष्यामि, गुरुत्वात्स्वामिकार्यस्य ॥ १७ ॥

यामन्‍यां कामयिष्ये साऽस्या वशगा तामनेन संक्रमेणा-
धिगमिष्यामि ॥ १८ ॥

यामन्‍यामिति । प्रस्तुतनायिकाया अन्यां यां प्रकृष्टकारणवशात्कामयिष्ये, साऽस्या इति । प्रस्तुतनायिकायाः, वशगा = यथोक्तकारिणी, तामप्रस्तुतामुपायान्तराभावानया संक्रामयमाणया प्राप्स्यामि ॥ १८ ॥

कन्यामलभ्यां वाऽस्माधीनामर्थरूपवर्ती मयि संक्रामयिष्यति ॥१९॥

कन्यामिति । अलभ्यां मया निर्धनत्वादियोगात्, आत्माधीनां तदायत्ताम्, अर्थरूपवतीं त्रिवर्गहेतुं मयि संक्रामयिष्यति माम्प्रापयिष्यति, सा वा संप्रयुज्यमानोभयं सङ्घटयतीति तामेव तावदधिगच्छामि, एवं च काञ्चित् सम्प्रयुज्य या स्त्री वस्तु सङ्घटयतीति ॥ १९ ॥

मपामित्रो वाऽस्याः पत्या सहैकीभावमुपगतस्तमनया रसेन योज-
यिष्यामीत्येवमादिभिः कारणैः परस्त्रियमपि प्रकुर्वीत ॥ २० ॥

ममामित्रो वा प्राणहरोऽस्याः पत्या सहैकीभावमुपगतः सहासनशयनपानभोजनादिभिः, प्राक् 'पतिममित्रसंसृष्टम्' इति संश्लेषमात्रमुक्तम्, तमनया संसृष्ट्या रसेन कालान्तरप्राणहारिणा विषेण योजयिष्यामि, तदेवमादिकारणं यदा मन्येतेति प्रवर्त्तते तदा प्रकुर्वीत, प्रपूर्वः करोतिरभिगमे वर्तत इति साहसिक्य आत्मनेपद(१)म् ॥ २० ॥

इति साहसिक्यं न केवलं रागादेवेति परपरिग्रहगमनकारणानि ॥२१॥

साहसिक्यं न रागेण केवलं विषयस्याशुद्धत्वात्प्रकुर्वीत, किं तु कारणैरित्यर्थः ॥ २१ ॥

एतैरेव कारणैर्महामात्रसम्बद्धा राजसम्बद्धा वा तत्रैकदेशचारिणी
का चिदन्या वा कार्यसम्पादिनी विधवा पञ्चमीति वात्स्यायनः॥२२॥


(१) गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । १ । ३ । ३२ । इत्यनेन ।

८ का० सू०

५८ सटीक कामसूत्रे [ १ अधिकरणे,

एतैरिति। यथोक्तैः, विधवा पञ्चमीति संबन्धः । प्राग्जीवद्भर्तृकेति विशेषः, तत्रापि पत्युरभावात्, महामात्रस्य राज्ञो वा सङ्गाद्वा संबन्धाद्वा संबद्धा प्रतिबद्धा वा, तत्रैकदेशचारिणी तदीयकुटुम्बैकदेशसंबद्धा, अन्या वा का चिदन्यजनसंबद्धा कार्यसंपादिनी यज्जनसंबद्धा तत्कार्येषु व्याप्रीयमाणा, आसु तिसृषु विधवा स्वैरिणी पुनर्भूश्चेति विषयं विमृश्य; पतिस्थाने राजानं महामात्रम् अन्यं वा नियोज्य; नायिकाप्रतिबद्धानि कारणानि योजयेत् ॥ २२ ॥

सैव प्रव्रजिता षष्ठीति सुवर्णनाभः ॥ २३ ॥

सैवेति । विधवा प्रव्रजिता राजमहामात्रयोरन्यस्य वा संबद्धा तत्कुलान्यपगच्छन्तीति नायिकाऽनुवृत्त्या गृहधर्मत्वात्तत्रापि पूर्ववत्कारणानि योजयेत् ॥ २३ ॥

गणिकाया दुहिता परिचारिका वाऽनन्यपूर्वा सप्तमीति घोटकमुखः २४

गणिकेति । गणिकाया दुहिता, अनन्यपूर्वा=पुरुषेणासंस्पृष्टा, परिचारिका वा चन्द्रापीडस्येव पत्रलेखा, तत्र पूर्वा वेश्याऽपि कन्यां तासांवक्ष्यमाणपाणिग्रहणभेदाद्भिद्यते, द्वितीया कन्याऽप्यगृहीतपाणिर्नायकंपरिचरन्तीति विशिष्यते ॥ २४ ॥

उत्क्रान्तबालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनर्दीयः॥ २५॥

उत्क्रान्तबालभावा कुलयुवतिरिति । कुलकन्यैवोढा सती कालेनापक्रान्तबालभावा समुपारूढयौवना कुलयुवतिः, उपचारान्यत्वादिति । उपचारभेदात् सा हि न कन्यावदुपचर्यते, कन्यायामुपचारा अपरिस्फुटाविकल्पेन च प्रयुज्यन्ते, प्राप्तयौवनायास्तु परिस्फुटाः समुच्चयेन चेति॥२५॥

कार्यान्तराभावादेतासामपि पूर्वास्वेवोपलक्षणं तस्मादेता एव नायिका इति वात्स्यायनः ॥ २६ ॥

कार्यान्तराभावादिति । कन्याऽऽदिषु चतसृषु यत्कार्यमुक्तं तद्व्यतिरिक्तानां विधवाऽऽदीनां कार्याभावात्पूर्वास्वेवोपलक्षणमुपदर्शनम्, तत्रैव यथासंभवमुपलक्षयेदित्यर्थः, तत्र विधवा प्रव्रजिता वाऽन्यकारणवशात्परपरिग्रहे द्रष्टव्या, गणिकादुहिता परिचारिका च सुखकार्यत्वाद्वेश्यायाम्, कुलयुवतिः पुत्रकलत्रफलत्वात्कन्यायाम्, उपचारभेदात्तद्भेदे नायिकाऽतिसंप्रयोगात्, दृश्यते हि देशकालप्रकृतिसात्म्यभेदादेकस्यामुपचारबहुत्वम् ॥ २६ ॥

भिन्नत्वात्तृतीयाप्रकृतिः पञ्चमीत्येके ॥ २७ ॥

भिन्नेति । तृतीयाप्रकृतिः=नपुंसकः, स्त्रीत्वपुंस्त्वस्वभावावाद्भिद्यते, तत्र