सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

३ अध्याये ] बह्वीषु प्रतिपत्तिप्रकरणम् । २१६

३ अध्याये ] बह्वीषु प्रतिपत्तिप्रकरणम् । २१६

तम्, अनुलेपनं सम्बन्धित्वख्यापनार्थं, वासकं क्रमप्राप्तमतीतं वा, ऋतुं च प्रत्युपस्थितम् ॥ ८० ॥

तत्र राजा यद् गृह्णीयात्तस्या वासकमाज्ञापयेत् ॥ ८१ ॥

तत्रेति। निवेदिते, यद् गृह्णीयादिति। यदीयमाङ्गुलीयकम् ॥ ८१ ॥

उत्सवेषु च सर्वांसामनुरूपेण पूजाऽऽपानकं च सङ्गीतदर्शनेषु च ॥ ८२ ॥

अनुरूपेण पूजेति। कुलवयोऽनुरूपा, आपानकं च ताभिः सह ॥ ८२ ॥

अन्तःपुरचारिणीनां बहिरनिष्क्रमो बाह्यानां चाप्रवेशोऽन्यत्र विदितशौचाभ्यः ॥ ८३ ॥

अप्रवेश इति। संगीतकव्यग्रेषु तद्वेशधारिणां नागरिकाणामपि प्रवेशः संभाव्यते, विदितशौचाभ्य इति। ता ह्युपधाशुद्धत्वान्नान्यत्प्रयोजयन्ति ॥ ८३ ॥

अपरिक्लिष्टश्च कर्मयोगः ॥ ८४ ॥
इत्यान्तःपुरिकम् ।

अपरिक्लिष्टश्च कर्मयोग इति। रतोपचारेऽकदर्थितः स्यात्, कदर्थिते च तस्मिन्नकार्यमपि कुर्युः ॥ ८४ ॥

इत्यान्तःपुरिकमष्टत्रिंशं प्रकरणम् ॥

यथा राज्ञो बह्व्यः स्त्रियस्तथा जानपदस्यापि भवन्तीति जानपदस्य बह्वीषु प्रतिपत्तिरुच्यते,

तत्र सामान्यमाह—

भवन्ति चात्र श्लोकाः—

पुरुषस्तु बहून्दारान्समाहृत्य समो भवेत् ।
न चावज्ञां चरेदासु व्यलीकान् सहेत च ॥ ८५ ॥

पुरुषस्त्विति। समो भवेदिति। नैकत्र स्नेहेन वर्तेत, न चावज्ञां चरेदिति। गुणरूपरहितास्वपि तिरस्कारं न कुर्यात्, व्यलीकानपराधान्न सहेत, अन्यथा क्षान्तेषु पुनः पुनर्विशेषतः कुर्युः ॥ ८५ ॥

एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम् ।
विस्रम्भाद्वाऽप्युपालम्भस्तमन्यासु न कीर्तयेत् ॥ ८६ ॥

एकस्यामिति। या चित्ररतेनान्येन वा क्रीडा रतानुगता, अन्या वा, “कृतं गुह्यगतं, विस्रम्भाद्रोपालम्भयुक्तं वासकसंज्ञामनुबन्धयितुम्, अन्यासु न कीर्तयेदिति। स्त्रीणां वैराग्यहेतुत्वात् ॥ ८६ ॥

२२० | सटीके कामसूत्रे | [४ अधिकरणे,

न दद्यात्प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित् ।
तथोपालभमानां च दोषैस्तामेव योजयेत् ॥ ८७ ॥

प्रसरं न दद्यात्कलहपरिहारार्थं, सपत्न्याः कारण इति । सापत्न्यसम्बन्धिनि सत्यपि निमित्ते, तथा तेनैव प्रकारेण निष्प्रसरत्तयोपालभमानां युक्तमेवोपेक्षितमिति, दोषैस्तामेव योजयेत्तवैव दोषो न तस्या इति ॥ ८७ ॥

अन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः ।
बहुमानैस्तथा चान्यामित्येवं रञ्जयेत्स्त्रियः ॥ ८८ ॥

रहसि विस्रम्भैर्विश्वासैर्या लज्जावती, प्रत्यक्षपूजनर्या सपत्नीषु भक्तिमिच्छति, बहुमानैर्या मनस्विनी ॥ ८८ ॥

उद्यानगमनैर्भोगैर्दानैस्तज्जातिपूजनैः ।
रहस्यैः प्रीतियोगैश्चेत्येकैकामबुरञ्जयेत् ॥ ८९ ॥

उद्यानगमनैर्या तच्छीला, भोगैर्या परिभोगलालसा, तज्जातिपूजनैर्या ज्ञातिषु कर्तव्यबुद्धिः, रहस्यै रहसि भवैः, प्रीतियोगैः प्रीत्यर्थैर्योर्गैः कार्या रतिक्रिया ॥ ८९ ॥

अधिकरणार्थानुष्ठाने फलमाह—

युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी ।
करोति वश्यं भर्तारं सपत्नीश्चाधितिष्ठति ॥ ७० ॥

इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तमान्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायः ।

जितक्रोधेति । शास्त्राथानुष्ठानकरणाद्, यथाशास्त्रप्रवर्तिनीति । यद्यस्याः शास्त्रमेकचारिणीज्यष्ठाऽऽदिवृत्तं, सपत्नीश्चाधितिष्ठतीति । सपत्नीनामुपरि स्थितिं लभत इति, 'अधिशीङ्स्थाऽऽसां कर्म'इति कर्मसंज्ञा ॥ ७० ॥

इति पुरुषस्य बह्वीषु प्रतिपत्तिरेकोनचत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां भार्याऽधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तमान्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायः ।


समाप्तं चेदं भार्याऽधिकारिकं चतुर्थमधिकरणम् ।

पारदारिकं नाम पञ्चममधिकरणम् ।

प्रथमोऽध्यायः।

कन्यापुनर्भूर्नायिकयोः समागमोपायः सविशेष उक्तः, तत्र वेश्यायाः-काम एव, परदारेभ्योऽर्थकामाविति, तत्समागमोपायदर्शनार्थं वैशिकात्प्राक्पारदारिकमुच्यते, तत्र स्त्रीपुंसयोः शीलमनवस्थाप्योत्तरव्यापारासंभवात्स्त्रीपुरुषशीलावस्थापनमुच्यते, परपरिगृहीतासु कामः प्रतिषिद्ध इति चेदाह—

व्याख्यातकारणाः परपरिग्रहोपगमाः ॥ १ ॥

व्याख्यातकारणा इति । परपरिग्रहगमनस्य सुखपुत्रव्यतिरेकेण कारणानि विशुद्धिपूर्वकाणि नायिकाविमर्शे व्याख्यातानीति स्मारयति ॥ १ ॥

तेषु साध्यत्वमनत्ययं गम्यत्वमायतिं वृत्तिं चादित एव परीक्षेत ॥ २ ॥

तेष्विति । परपरिग्रहेषु, सत्स्वपि कारणेष्विदमादित एव परीक्षेतेत्याह-साध्यत्वमिति । साधयितुं शक्येति, अनत्ययं प्रत्यवायाभावाद्, गम्यत्वं कुष्ठिन्युन्मत्ताद्यभावाद् , आयतिं प्रभावं तत्संयोगाद्, वृत्तिमात्मनः प्रवृत्तिम् ॥ २ ॥

सुखमपि गमनकारणं यदा शरीरोपघातं पश्येदित्याह—

यदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येत्तदाऽऽत्मशरीरोपघातत्राणार्थं परपरिग्रहानभ्युपगच्छेत् ॥ ३ ॥

यदा त्विति । कां चित्स्त्रियं दृष्ट्वा संप्रयोगेच्छालक्षणः काम उत्पन्नस्तं यदा प्रथमात्स्थानात्स्थानान्तरमवस्थाऽन्तरं प्रतिपद्यमानं गच्छन्तं पश्येदनुभवेन्न च प्रतिसंख्यानेन निवर्तयितुमीशस्तदा तस्मिन् काले शरीरोपघातत्राणार्थमुपगच्छेद्, अन्यथा महाश्वेतासक्तचेतस इव पुण्डरीकस्य विनाशः स्यात् ॥ ३ ॥

तस्य कति स्थानानीत्याह—

दश तु कामस्य स्थानानि ॥ ४ ॥

कामो ह्युत्पादात्प्रभृति विषयप्राप्तावनुकूलप्रत्ययवशात्प्रतिक्षणमुपवर्धमान आप्राणत्यागं वर्तते, तस्यासाधारणकार्योत्पत्त्या व्यवहारार्थं दश स्थानानि पूर्वाचार्यैरुक्तानि ॥ ४ ॥

२२२ सटीके कामसूत्रे [ ५ अधिकरणे,

तानि क्रमेणाह—

चक्षुःप्रीतिर्मनःसङ्गः संकल्पोत्पत्तिर्निद्राच्छेदस्तनुता विषयेभ्यो-
व्यावृत्तिर्लज्जाप्रणाश उन्मादो मूर्छा मरणमिति तेषां लिङ्गानि ॥५॥

चक्षुःप्रीतिरिति । स्त्रियं दृष्टवतः संयोगेच्छाल्लक्षणात्कामादनन्तरं
दृशौ स्निग्धे भवतः, ततो विषयाप्राप्तौ मनसः सक्तिः, तस्मिन्सक्ते संक-
ल्पोत्पत्तिः, कथं प्राप्स्यामि ? प्राप्य चैवमनुष्ठातव्यमिति, ततः संकल्पयतो
निद्राच्छेदः, ततो निद्रामलभमानस्य तनुता शरीरकार्श्यं, ततो विषयेभ्यो
व्यावृत्तिः, सर्वथा तद्गतचित्तत्वादन्यविषयाज्ज्वलदनलप्रख्यान्नोपयाति,
तेभ्यश्च व्यावर्तमानस्य लज्जाप्रणाशनं, गुरुभ्योऽपि न लज्जते, उपक्षीणार्थ-
त्वाच्च न बिभेति, विप्रणष्टलज्जस्य निर्भयस्य चोन्मादः प्रवर्तते, ततो मूर्छा
भवत्यस्वास्थ्यसंज्ञिका, ततो मरणं प्राणत्यागः, तेषामिति । कामस्था-
नानां प्रतिपत्त्यर्थमेते चक्षुःप्रीत्यादयो लिङ्गानि तत्कार्यत्वात् ॥ ५ ॥

तत्राकृतितो लक्षणतश्च युवत्याः शीलं सत्यं शौचं साध्यतां
चण्डवेगतां च लक्षयेदित्याचार्याः ॥ ६ ॥

तत्रेति । तस्मिन्नरागवशादभिगमने शीलादिकमेव प्राधान्येन लक्षयेद्,
आकृतित इति । शरीरस्थानेन, लक्षणतः शरीरस्थेन चिन्हेन, शीलं वक्ष्य-
माणं, सत्यं यथार्थवादितां, शौचं चारित्रविशुद्धिम् ॥ ६ ॥

व्यभिचारादाकृतिलक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्ति-
र्बोद्धव्या योषित इति वात्स्यायनः ॥ ७ ॥

व्यभिचारादिति । सत्यप्याकृतियोगे लक्षणयोगे च नावश्यं शीलस-
त्यशौचानि गम्यन्ते, साध्यासाध्यतां चण्डमृदुवेगतां पुनर्गमयन्त्येव, कथं-
तर्हि ? लक्षयेदित्याह—इङ्गिताकाराभ्यामिति, बोद्धव्या शीलादियुक्तेत्यर्थः,
तत्रेङ्गिताकारौ कन्यासं प्रयुक्तकेऽभिहितौ, प्रवर्त्तनं प्रवृत्तिः, इङ्गितव्यति-
रेकेण, तत्र त्रिभिरेव शीलं, शौचादीनि शेषाणि प्रवृत्त्या स्त्रीपुंसयोः ॥७॥

कस्याः किं शीलमित्याह—

यं कञ्चिदुज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते, तथा पुरुषोऽपि
योषितम्, अपेक्षया तु न प्रवर्त्तते, इति गोणिकापुत्रः ॥ ८ ॥

यं कञ्चिदिति । स्वकीयं परकीयं वा पुरुषम्, उज्ज्वलं वर्णवेषा-
भ्यां, कामयते सञ्जातरोगा भवति, पुरुषोऽपि योषितमुज्ज्वलां दृष्ट्वा
कामयते, अपेक्षया तु कस्य वित्कार्यस्य न प्रवर्त्तते, द्वावपि न संप्र-
युज्येते, तदुभयोरप्युज्ज्वलकामित्वं च कार्यापेक्षित्त्वं च शीलं, गोणि-
कापुत्रग्रहणं प्रावीण्यख्यापनार्थम् ॥ ८ ॥