सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५५

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५५

पञ्चमोऽध्यायः ।

ईश्वराणां परगृहप्रवेशाभावात्कामितं न सम्भवति, प्रायशस्तत्र दूतीकर्माधिक्रियत इति, तदनन्तरमीश्वरकामितमुच्यते, यदाह—

न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते, महाजनेन हि चरितमेषां दृश्यतेऽनुविधीयते च ॥ १ ॥

महाजनेनेति । जनसमूहेनैतेषां चरितं दृश्यते सर्वदा तदनुगतत्वाद्, यदि दृष्टं तदा को दोष इत्याह--अनुविधीयते चेति ।

'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इति ॥ १ ॥

तदेव दृष्टान्तेन दर्शयति—

सवितारमुद्यन्तं त्रयो लोकाः पश्यन्त्यनूद्यन्ति च, गच्छन्तमपि पश्यन्त्यनुप्रतिष्ठन्ते च ॥ २ ॥

सवितारमिति । सविता लोकेषु श्रेष्ठः, तमुद्यन्तं, पश्यन्तीति चरितदर्शनम्, अनूद्यन्ति च तस्मिंस्तूदते सुप्ताः प्रबुध्यन्त इति, चरितानुविधानं, गच्छन्तमपि देशान्तरं पश्यन्तीति, चरितदर्शनम्, अनुप्रतिष्ठन्ते च यथास्वं क्रियासु प्रवर्तन्त इति, चरितानुविधानम् ॥ २ ॥

तस्मादशक्यत्वाद्वर्हणीयत्वाच्च न ते वृथा किञ्चिदाचरेयुः ॥ ३ ॥

तस्मादिति । परगृहं प्रविश्य यत्परदाराभिगमनं तदशक्यं, महाजनेन गर्हणीयत्वाच्च, इतरोऽपि जनोऽनुविदध्यादिति, शिष्टानां कुत्सनीयं तस्मात्तदर्थं न ते किञ्चिदनुष्ठानमाचरेयुर्निष्फलत्वात्स्वपरिग्रहेष्वपि सुखसम्भवात् ॥ ३ ॥

अवश्यं त्वाचरितव्ये योगान्प्रयुञ्जीरन् ॥ ४ ॥

अवश्यं त्विति । अन्यकारणवशात्स्थानान्तरयायिनो वा रागवशादाचरितव्ये, योगानिति । प्रयोगान् ॥ ४ ॥

ते द्विविधाः—प्रच्छन्नाः प्रकाशाश्च, ईश्वरा अपि द्विविधाः-क्षुद्रा मुख्याश्च, तत्र क्षुद्रानधिकृत्य प्रच्छन्नानाह—

ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिकपुत्रस्य यूनो ग्रामीणयोषितो वचनमात्रसाध्याः, ताश्चर्षंण्य इत्याचक्षते विटाः ॥ ५ ॥

ग्रामाधिपतेरिति । ग्रामभोक्तुरायुक्तस्याधिकृतस्य, हलोत्थवृत्तिर्ग्रामकूटः, तस्य ग्रामीणैः कर्षणफलिका दीयन्ते, तस्य पुत्रस्य, यून इति । प्रत्येकं योज्यं, तेषामीश्वरत्वाद्धचनमात्रसाध्या नाभियोगमपेक्षन्ते, किं सर्वा एवेत्याह—ताश्चर्षंण्य इति ॥ ५ ॥

२५६ सटीक कामसूत्रे [५ अधिकरणे,

ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमण-
प्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णाऽतसीशणवल्क-
लादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च
कर्मसु संप्रयोगः ॥ ६ ॥

ताभिरिति। चर्षणीभिः सह संप्रयोग इति, वक्ष्यमाणेन सम्बन्धः, अत्रोपायमाह—विष्टिकर्मस्विति। भक्तमात्रेण यानि पेषणकुट्टनरन्धनादीनि कार्याणि तानि विष्टिकर्माणि, कोष्ठागारप्रवेशे तत्रत्यं कर्म कर्तुं-प्रविष्टाभिः, द्रव्याणां धान्यादीनां कोष्ठागारात्निष्क्रमणे तत्र च प्रवेशे तत्र कर्म कर्तुं प्रविष्टाभिः, क्रियमाणे भवनप्रतिसंस्कारे गृहमण्डने क्षेत्रकर्मणि बीजानां रक्षणोत्पादनादौ, कर्पासस्योर्णाया अतसीशणवल्कलस्य च भाण्डागारात्सूत्रकर्तनाय दाने, सूत्रस्य च कर्तितस्य प्रतिग्रहे स्वीकारे कर्तनिकाभिः, द्रव्याणामिति। धान्यादीनां, क्रयविक्रयविनिमयेष्विति। क्रेतुं विक्रेतुं वा प्रविष्टाभिः, तेषु तेषु चेति। राजकुलप्रवेशहेतुषु ॥ ६ ॥

तथा व्रजयोषिद्भिः सह गवाध्यक्षस्य ॥ ७ ॥

गोपीभिर्गवाध्यक्षस्य दधिमथनादिकर्मसु ॥ ७ ॥

विधवाऽनाथाप्रव्रजिताभिः सह सूत्राध्यक्षस्य ॥ ८ ॥

स ह्यधिष्ठाय राजकीयसूत्राणि विधवाऽऽदिभिः कर्तनिकाभिः कर्तयति ॥ ८ ॥

मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥ ९ ॥

नगरे नियुक्तस्य दाण्डपाशिकस्य स्त्रीमर्मज्ञत्वाद्रात्रावटने चोदिताभिः ॥ ९ ॥

क्रयविक्रये पण्याध्यक्षस्य ॥ १० ॥

राजकीयपण्यानि क्रेतुं विक्रेतुं च नियुक्तस्य क्रेतृविक्रेतृस्त्रीभिः, संप्रयोग इति सर्वत्र योज्यम् ॥ १० ॥

मुख्यानधिकृत्य प्रच्छन्नानाह--

अष्टमीचन्द्रकौमुदीसुवसन्तकादिषु पत्तननगरखर्वटयोषितामीश्वरभवने सहान्तःपुरिकाभिः प्रायेण क्रीडा ॥ ११ ॥

अष्टमीति। कौमुदी कोजागरः, नगरखर्वटौ व्याख्यातौ, पत्तनादिकमुपलक्षणार्थं द्रोणमुखस्य, ईश्वरभवन इति। यस्य नगरादि भुज्यते तस्य भवने, आन्तःपुरिकाः = अन्तःपुरस्त्रियः ॥ ११ ॥

५ अध्याये ] ईश्‍वरकामितप्रकरणम्। २५७

तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तःपुरिकाणां-
पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीता-
श्चोपप्रदोषं निष्क्राम्येयुः ॥ १२ ॥

तत्रेति। क्रीडायाम्, आपानकान्त इति। आन्तःपुरिकाभिः सर्वाभिः-
सह पेयं पीत्वा, तदन्ते विशेषविधिमाह—नगरस्त्रिय इति। अत्रापि
नगरखर्वटद्रोणमुखस्त्रियश्च, भोगावासकानिति। परिभोगप्रदेशान्,
कथाभिरासित्वेति। आन्तःपुरिकाभिः सह कथाभिः स्थित्वा, पूजिता-
आन्तःपुरिकाभिः, प्रपीता इति। प्रपीतमासां विद्यत इति मत्वर्थेऽकारः,
उपप्रदोषं=प्रदोषसमीपे, निष्क्राम्येयुर्दिनं राजभवनेऽतिवाह्य ॥ १२ ॥

तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वंसंसृष्टा तां तत्र
संभाषेत ॥ १३ ॥

तत्रेति। अष्टमीचन्द्रादिषु, प्रणिहिता राज्ञा प्रयुक्ता, प्रयोज्याया इति।
यामभिगन्तुमिच्छेत्, पूर्वसंसृष्टेति। पूर्वमेव या गृहं यात्वा संसर्गं कृत-
वती, तामिति। प्रयोज्यां राजभवने प्रविष्टां, भाषेत कुशलपूर्वकम् ॥ १३॥

रामणीयकदर्शने च योजयेत् ॥ १४ ॥

रामणीयकदर्शने च योजयेत्, चित्तहरणार्थम् ॥ १४ ॥

प्रागेव स्वभवनस्थां ब्रूयात् ॥ १५ ॥

प्रागेवेति। राजभवनप्रवेशात्, स्वभवनस्थां ब्रूयादौत्सुक्यवार-
णार्थम् ॥ १५ ॥

अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयक़ानि
दर्शयिष्यामीति काले च योजयेत् ॥ १६ ॥

अमुष्यामिति। येयमेष्यति, काले प्रज्ञाते च योजयेत् ॥ १६ ॥
रामणीयकशेचनान्याह—

बहिः प्रबाळकुट्टिमं ते दर्शयिष्यामि मणिभूमिकां वृक्षवाटिकां
मृद्वीकामण्डपं समुद्रगृहप्रासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्री-
डामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ता-
दर्णितानि स्युः ॥ १७ ॥

बहिरिति। प्रबालकुट्टिमं मणिभूमिकां स्फटिकाद्याकारां कृतकु-
ट्टिमां भूमिं, वृक्षवाटिकां=पुष्पफलसमृद्धां, मृद्वीकामण्डपं=द्राक्षाम-
ण्डपं, समुद्रगृहप्रासादानिति। धारागृहान् प्रासादांश्च, गूढभित्तिसञ्चा-
३३ का० सू०

२५८ सटीके कामसूत्रे [ ५ अधिकरणे

रानिति । गूढं भित्तिमध्यगतत्वाद् जलसञ्चारो येषु समुद्रगृहेषु, प्रासा-
देष्वपि निष्कासनप्रवेशनलक्षणसञ्चारानिति योज्यं, यन्त्राणि सजी-
वानि निर्जीवानि घटितान्यन्यानि च यानि कौतुकानि, क्रीडार्थी ये
मृगाः, शकुनकांत्सादीन् , व्याघ्रपञ्जरान्व्याघ्राधिष्ठितान् , कस्याश्चि-
देव क चित्कौतुकमुत्पद्यत इत्यनेकोपदर्शनम् ॥ १७ ॥

एकान्ते च तद्गतमीश्वरानुरागं श्रावयेत् ॥ १८ ॥

एकान्त इति । ईश्वरः कृतसङ्केतस्तिष्ठति, तद्गतमिति । त्वय्यनुर-
क्त ईश्वर इति ॥ १८ ॥

संप्रयोगे चातुर्यं चाभिवर्णयेत् ॥ १९ ॥

संप्रयोगेऽपि स्वेश्वरेण सत्यायतिं प्रभावं वर्णयेद्, येनापरिभूता
वत्स्यसि ॥ १९ ॥

अमन्त्रश्रावं च प्रतिपन्नां योजयेत् ॥ २० ॥

अमन्त्रश्रावं च वर्णयेद् , आवाभ्यामन्यो न कश्चिज्जानातीति, प्रति-
पन्नां संप्रयोगं, योजयेदीश्वरेण ॥ २० ॥

अप्रतिपद्यमानायां विधिमाह—

अप्रतिपद्यमानां तु स्वयमेवेश्वर आगत्योपचारैः सान्त्वितां
रञ्जयित्वा संभूय च सानुरागं विसृजेत् ॥ २१ ॥

अप्रतिपद्यमानां त्विति । उपचारैरिति । स्रगादिभिः पानादिभिश्च
स्फीतैः सान्त्वितामभिमुखीकृताम्, उपचारैः स्त्रियो ह्रियन्त इत्यतिप्र-
तीतमेतद् , रञ्जयित्वा; तदनुकूलेन रतेन, सम्भूय चेति । दास्या नगर
स्त्रीभिः संयोज्य विसृजेत् , सानुरागमिति क्रियाविशेषणं, यथा जानाति
मय्यनुरक्त ईश्वर इति ॥ २१ ॥

प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तःपुरमौ-
चित्यात्प्रवेशयेत् , तत्र प्रणिहिता राजदासीति समानं पूर्वेण ॥२२॥

अनुग्रहोचितस्येति । ईश्वरस्य यः प्रसादवित्तकः, स च प्रयोज्यायाः-
पतिः तस्य दाराः, नित्यमिति । प्रत्यहमन्तःपुरं प्रविशन्ति, औचित्या-
दिति । अनुग्रहोचितत्वादेव प्रवेशोऽपि तस्या उचित एवेति, तत्रेति ।
प्रविष्टायां प्रयोज्यायां, प्रणिहिता राजदासीत्यनेन पूर्वोक्तेन समानम्,
प्रयोगद्वयेऽप्यत्र प्रयोज्यानुप्रवेशस्य सुकरत्वाद्, दास्येव प्रयुक्ता ॥ २२ ॥

आन्तः पुरिका वा प्रयोज्या सह स्वचेटिकासंप्रेषणेन प्रीतिं-
कुर्यात् , प्रसूतप्रीतिं च सापदेशं दर्शने नियोजयेत् , प्रविष्टां पूजितां
पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण ॥ २३ ॥

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५९

आन्तःपुरिका चेति । या का चिदीश्वरप्रयुक्ता चेटिकासंप्रेषणेन प्रीतिं कुर्यादात्मनो विश्वासासंभवात्, प्रसृतप्रीतिं च प्रयोज्यां सापदेशं किंचित्कार्यमपदिश्य; तयैव चेट्या दर्शनेऽपि नियोजयेद्, यथा मां द्रष्टुमागच्छेदिति ॥ २३ ॥

यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थमान्तःपुरिका सोपचारं तामाह्वयेत्, प्रविष्टा प्रणिहिता राजदासीति समानं पूर्वेण ॥ २४ ॥

यस्मिन्वेति । गीततन्त्रीवाद्यादिविज्ञाने, विख्यातां=प्रवीणां, सोपचारमिति । वस्त्रादिदानपूर्वकमाह्वयेद्, अत्र च प्रवेशस्यासंभवाद् आन्तःपुरिका द्वितीया प्रयुक्ता ॥ २४ ॥

उद्भूतानर्थस्य भीतस्य वा भार्या भिक्षुकी ब्रूयादसावान्तःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं श‍ृणोति, स्वभावतश्च कृपाशीला तामनेनोपायेनाधिगमिष्याम्यहमेव ते प्रवेशं कारयिष्यामि, सा च ते भर्तुर्महान्तमनर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विखिरिति प्रवेशयेद्, आन्तःपुरिका चास्या अभयं दद्यादभयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण ॥ २५ ॥

उद्भूतानर्थस्येति । अर्थप्रतिघाति यत्कार्यं तदुत्पन्नं यस्य, भीतस्य चेति । यो राजकुलाद्भीतस्तस्य जायां भिक्षुकी राजप्रणिहिता ब्रूयाद्, अस्मिन्प्रयोगे तृतीयाऽपरा प्रयुक्ता, साऽप्येवंविधं कार्यं बुद्ध्वा; प्रयोज्यामान्तःपुरिकायां योजयति, राजनि सिद्धा प्रसादवित्तिका, गृहीतवाक्येति । सा यदाह तद्राजा करोति, मम वचनं शृणोतीत्यात्मनो गृहीतवाक्यतामाह-स्वभावतः कृपाशीलेति । उत्कोचाभावं दर्शयति, तामनेनेति । तदानीं बुद्धिविकल्पितेनोपायेन, कथं मम ? प्रवेश इति चेदाह—अहमेवेति । अनर्थमित्युपलक्षणार्थम्, भयं च निवर्तयिष्यति, द्विखिरिति । प्रवेशयेत्पश्चाज्जातपरिचया स्वयमेव प्रवेक्ष्यति, अभयमस्यै दद्याद्, अभयं निवेदितवत्यै संप्रहृष्टामनुद्विग्नां सम्भाषेत ॥ २५ ॥

एतया वृत्त्यर्थिनां, महामात्राभितप्तानां, बलाद्विगृहीतानां, व्यवहारे दुर्बलानां, स्वभोगेनारसंतुष्टानां, राजनि प्रीतिकामानं, राजभजनेषु व्यक्तिमिच्छतां, सजातैर्बाध्यमानानां, सजातान्बाधितुकामानां, सूचकानाम्, अन्येषां कार्यवशिनां, जाया व्याख्याताः॥२६॥

२६० सटीके कामसूत्रे [५ अधिकरणे,

एतयेति। उद्भूतानर्थभीतजायया, वृत्यर्थिनां = जीवनार्थिनाम्, महामात्राभितप्तानां = महामात्रैः प्रभवद्भिः पीडितानाम्, बलाद्विगृहीतानां राजवल्लभैर्व्यवहारे दुर्बलानां न्यायबलाभावात्, स्वभोगेन तावन्मात्रेणासन्तुष्टानांमधिकमिच्छतां, राजनि प्रीतिकामानं क्वचित्परिचयं मम मा कार्षीदिति, बाह्यजनेषु, व्यक्तिं = प्रसिद्धिम्, इच्छतां, राज्ञः प्रसाद्योऽयमिति, सजातैः = दायादैः, सूचकानाम् = उद्घोषकाणां, कार्यवशिनामिति। कार्यार्थिनां, जाया व्याख्याताः, अत्रापि भिक्षुकी ब्रूयादिति योज्यम्, एते प्रच्छन्नयोगा अत्याजितस्वकुलासु स्त्रीषु ॥ २६ ॥

अन्येन वा सह संसृष्टां सङ्ग्राह्य; प्रयोज्यां दास्यमुपनीतां क्रमेणान्तःपुरं प्रवेशयेत् ॥ २७ ॥

अन्येनेति। येन केन चित्संसृष्टां कृतसंसर्गा, संग्राहेति। नागरकेण संग्रहविधिना ग्राहयित्वा, दास्यमुपनीतामिति। प्रकाशविनष्टाया वेश्याविशेषत्वाद्, तां सामान्यस्त्रियं क्रमेणान्तःपुरं प्रवेशयेद्, न झटिति समनन्तरमेव मा भूदेतत्कृतः प्रयोग इति ॥ २७ ॥

प्रणिधिना चायातिमस्याः सन्दूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनामन्तःपुरं प्रवेशयेदिति प्रच्छन्नयोगाः, एते राजपुत्रेषु प्रायेण ॥ २८ ॥

प्रणिधिना = चारेण, सन्दूष्य सद्भूतेनैव दोषेण, अन्यथा-अदुष्टदूषणमधर्माय भवति, एवं चास्य कलत्रावग्रहो न दोषाय, एतद्योगद्वयं त्याजितस्वकुलासु, एते राजपुत्रेषु प्रायेण न तु राज्ञः, तस्य मण्डले प्रतिष्ठितत्वात्कादाचित्काः स्युः ॥ २८ ॥

ननु परभवनप्रवेशेनापि प्रच्छन्नयोगाः सम्भवन्ति, यदा दूत्या प्रयोज्यां सङ्केत्य प्रच्छन्नः प्रविशति, न च तदानीं चरितं महाजनेन दृश्यतेऽनुविद्यीयते चेत्यत्राह—

न त्वेव परभवनमीश्वरः प्रविशेत् ॥ २९ ॥

प्रविशेत्प्रच्छन्नोऽपीत्यर्थः ॥ २९ ॥

अत्र पूर्ववृत्तं दोषं दर्शयति —

आभीरं हि कोट्टराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान, काशिराजं जयत्सेनमश्वाध्यक्ष इति ॥ ३० ॥

आभीरं हीति। गूर्जराते कोट्टं नाम स्थानं, तस्य राजानमाभीरनामानं, परभवनगतमिति। श्रेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं-

५ अध्याये ] ईश्वरकामितप्रकरणम् । २६१

रजको राज्यार्हेण तद्भ्रात्रा प्रयुक्तो जघान, काशिराजं चेति । काशीस्थं-
राजानं जयत्सेनमश्वाध्यक्षस्तद्भार्यामधिगन्तुं तद्भवनगतं जघान ॥३०॥

प्रकाशकास्तु योगा राज्ञः प्रायेण द्रष्टव्या यदाह—

प्रकाशकामितानि तु देशप्रवृत्तियोगात् ॥ ३१ ॥

देशप्रवृत्तियोगादिति । यो यस्मिन्देशे समाचारः पूर्वैः स्थापितस्त-
द्योगादिति, अतो दृश्यमानान्यपि कामितानि महाजनेन नानुविधी-
यन्ते, राज्ञामेव तत्राधिकारात् ॥ ३१ ॥

प्रत्ता जनपदकन्या दशमेऽहनि किंचिदौपायनिकमुपगृह्य
प्रविशन्त्यन्तःपुरमपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् ॥ ३२ ॥

प्रत्ता इति । ऊढा औपायनिकमुपायप्रयोजनं वस्त्रादि, उपभुक्ता राज्ञा
संप्रयुक्ताः, विसृज्यन्ते त्यक्ष्यन्ते, इत्यान्ध्राणां प्रवृत्तिः ॥ ३२ ॥

महामात्रेश्वराणामन्तःपुराणि निशि सेवार्थं राजानमुपग-
च्छन्ति वात्सगुल्मकानाम् ॥ ३३ ॥

महामात्राणां य ईश्वरा मुख्यास्तेषामन्तःपुराणि स्त्रियः, सेवार्थ-
मिति । सेवां कर्तुं, वात्सगुल्मकानामिति । दक्षिणापथे सोदर्यौ राजपुत्रौ
वत्सगुल्मौ ताभ्यामध्यासितो देशो वत्सगुल्मक इति प्रतीतः, तत्र
भवानामिदं प्रवृत्तिः ॥ ३३ ॥

रूपवतीर्जनपदघोषितः प्रीत्यपदेशेन मासं मासार्धं वा वास-
यन्त्यन्तःपुरिका वैदर्भाणाम् ॥ ३४ ॥

रूपवतीरिति । प्रशंसायां मतुप् , प्रीत्यपदेशेनेति । परस्परस्नेहभावः-
प्रीतिस्तस्यापदेशः, संप्रयोगस्तु प्रयोजनं, वासयन्ति, अन्तःपुर एवान्तः-
पुरिकाः स्त्रियः, वैदर्भाणामिति । कालाञ्जराद्दक्षिणेन विदर्भो नामदेशः,
तत्र भवानाम् ॥ ३४ ॥

दर्शनीयाः स्वभार्याः प्रीतिदायमेव महामात्रराजेभ्यो ददत्य-
परान्तकानाम् ॥ ३५ ॥

प्रीतिदायमिति । प्रीत्या यत् स्वत्वनिवृत्त्या दीयते ॥ ३५ ॥

राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घ एकशश्च राज-
कुलं प्रविशन्ति सौराष्ट्रकाणामिति ॥ ३६ ॥

राजक्रीडार्थमिति । प्रवेशस्य निमित्तं, संप्रयोगस्तु प्रयोजनं, नग-
रं यत्र राजधानी तत्र स्त्रियो नगरस्त्रियः, ततो बाह्या जनपदस्त्रियः,