सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९

४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९

खया वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सहैनामङ्कमानाययेत् ततो यथोक्तमभियुञ्जीत ॥ ३२ ॥

एकेति । असम्भव इति । नायिकाया विप्रकृष्टत्वात्स्वयमेकस्याभि-
योगो न सम्भवति सहायमपेक्षते, गृहीतार्थयेति । नायकोऽपि नायिकां-
समीपमानेतुमिच्छतीत्येतद्रूपार्थज्ञानवत्या, तस्यामन्तर्भूतया नायिकायां-
प्रभवन्त्या, तादृशी तु धात्रेयिका सखी वा यदाह तत्करोति, अर्थं ना-
यकपार्श्वगमनरूपमनिर्वदन्त्या, अन्यव्यपदेशिन्येत्यर्थः, अङ्कमानाययेद्-
ससम्भाषणं, ततो यथोक्तमिति द्यूतक्रीडनकेषु विवदमान इति, य-
थासम्भवं पूर्वोक्तं योज्यमित्यर्थः ॥ ३२ ॥

स्वां वा परिचारिकामादावेव सखीत्वेनास्याः प्रणिदध्यात् ॥३३॥

स्वामिति । सहायार्थमिति भावः, सखीत्वेन, प्रणिदध्याद् = निक्षि-
पेत्, सा हि प्रणिहिता सहायताम्प्रतिपद्यते ॥ ३३ ॥

यज्ञे विवाहे यात्रायामुत्सवे व्यसने प्रेक्षणकव्यापृते जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत ॥ ३४ ॥

यज्ञ इति । यज्ञादयो लोकव्यग्रत्वहेतवः, तत्र तत्रेति । अन्यत्राप्येवं-
प्रकारो यत्र जनो व्याप्रियते, परीक्षितभावामिति । नेयं शुल्कप्रतिग्राहिणी
द्विधाभूतमानसा वा, किं स्थितरेति, एकाकिनीमुपक्रमेत, गान्धर्वेण वि-
धिनेत्यर्थः ॥ ३४ ॥

न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना व्यावर्त-
न्तइति वात्स्यायनः ॥ ३५ ॥

इत्येकपुरुषाभियोगाः ।

दृष्टभावाः = उपलब्धभावाः, देशेऽभिप्रेते, काले यज्ञादिकाले प्रदोषादौ
च प्रयुज्यमाना वाञ्छितकार्य्येण व्यावर्तन्ते ३५ ॥

इत्येकपुरुषाभियोगा अष्टाविंशं प्रकरणम् ॥

यथा धनहीनत्वादियुक्तः कन्यामलभ्यत्वात्स्वयमेवानुरञ्जयेत्, तथा
कन्याऽपि तथाविधा कैश्चिदयाच्यमाना स्वयमुपावर्तेत, तत्प्रयोज्यस्यो-
पावर्तनमाह—उपावर्तनमभिमुखीकरणम्,
कथं न म्रियत इत्याह—

मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनाऽपि समानैर-
याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना

१३० सटीके कामसूत्रे [ ३ अधिकरणे,

पाणिग्रहणं स्वयमभीप्सेत ॥ ३६ ॥

मन्देति । मन्दापदेशा = हीनाभिजना, गुणवत्यपि सा तैरदास्यमाना वा, धनहीना वा कुलीनाऽपि, समानैस्तुल्याभिजनैर्धनिभिः, माता-पितृवियुक्ता वा, अनाथत्वादयाच्यमाना, प्राप्तयौवनेति । प्रत्येकं योज्यं, स्वयं पाणिग्रहं लिप्सेत, तदानीं स्वयंवरस्याभ्यनुज्ञानाद्,

यथोक्तं—

'त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम्' इति ॥ ३६ ॥

सदृशप्रतिपत्तावुपायमाह—

सा तु गुणवन्तं शक्तं सुदर्शनं बालप्रीतयाऽभियोजयेत् ॥३७॥

सा त्विति । गुणवन्तं नायकगुणयुक्तं, शक्तं युद्धादिषु, सुदर्शनं-रूपवन्तम्, बालेति । बाल्ये क्रीडमानयोर्या प्रीतिस्तया प्रयोज्यकर्त्याऽभियोजयेत्, स तथाऽभियुञ्जानः सिद्धयतीत्यर्थः ॥ ३७ ॥

गुणान्तरमाह—

यं वा मन्येत मातापित्रोरसमीक्षया स्वयमप्ययमिन्द्रियदौर्ब-ल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसन्दर्शनेन च तमावर्जयेत् ॥ ३८ ॥

यं वेति । इन्द्रियदौर्बल्यादिति । इन्द्रियाणि नियन्तुमसमर्थत्वाद्, य-मेवं मन्येत तमपि योजयेदिति संबन्धः, प्रियहितेति । प्रियोपचारा एत-दर्थं सुखं कुर्वन्ति, अवर्जनमभिमुखीकरणम् ॥ ३८ ॥

माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कु-र्यात् ॥ ३९ ॥

माता चैनामिति । नायिकाया माता यदि जीवति, सा न जीवति चेत्कृतकमाता वा, सखीभिः सह लज्जाऽपगमार्थं, तदभिमुखीमिति । नायकाभिमुखीम्, उपचारैर्बाह्यैराभ्यन्तरैश्चेति शेषः ॥ ३६ ॥

तत्र पूर्वमधिकृत्याह—

पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम्॥४०॥

पुष्पेति । तदुपस्थानं नायकसमीपगमनं, कलाकौशलप्रकाशनार्थं-गुणवत्त्वज्ञापनार्थम् ॥ ४० ॥

कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्य-दर्शनम् ॥ ४१ ॥

४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९१

औचित्यदर्शनमिति । सहसा न प्रतिजानीयाद् , अनुबन्ध्यमानमनुकुर्यादित्यर्थः ॥ ४१ ॥

प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्तमाचरेत् ॥ ४२ ॥

प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः , बालायां ये नायकस्योपक्रमा उक्तास्तेषु यथोक्तं साऽप्याचरेत् ॥ ४२ ॥

न चैवातुराऽपि पुरुषं स्वयमभियुञ्जीत, स्वयमभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ॥ ४३ ॥

आतुराऽपीति । कामपरवशाऽपि न स्वयमभियुञ्जीत सद्यःसौभाग्यहानेः, आचार्यग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥

स चेदभियुञ्जीत प्रतिगृह्णीयाद्यदाह—

तत्प्रयुक्तानां त्वभियोगानामानुलोम्येन ग्रहणम् ॥ ४४ ॥

तत्प्रयुक्तानामिति । बाह्यानामभियोगानाम्, आनुलोम्येन यथाऽयं न विमुखीभवति ॥ ४४ ॥

आभ्यन्तरमधिकृत्याह—

अङ्गपरिष्वक्ता च न विकृतिं भजेत् ॥ ४५ ॥

अङ्गपरिष्वक्तेति । न विकृतिमिति । मा ज्ञासीन्नायको मामुद्विग्नामिति हेतोरित्यर्थः ॥ ४५ ॥

श्लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् ॥ ४६ ॥

आकारमिति । नायकस्य भावसूचकमाकारं प्रतिगृह्णीयाद्, न प्रत्याचक्षीत, तत्रापि श्लक्ष्णमस्फुटं क्रियाविशेषणमेतद्, अजानतीवेति । धार्ष्ट्यपरिहारार्थम् ॥ ४६ ॥

वदनग्रहणे बलात्कारः ॥ ४७ ॥

बलात्कार इति । तथा कार्यं यथाऽयं चुम्बितुं हठाद्वदनं गृह्णातीत्यर्थः ॥ ४७ ॥

रतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद् गुह्यसंस्पर्शनम् ॥४८॥

रतिभावनामिति । आत्मनो रत्युत्पत्तिं नायकेन यदा साऽभ्यर्थ्यते, स्वगुह्ये तत्पाणिन्यासेन, तदा तस्याः कृच्छ्रान्नायकगुह्यस्पर्शनम् ॥४८॥

तत्रापि विशेषमाह—

अभ्यर्थिताऽपि नातिविवृता स्वयं स्यादानिश्चयकालात् ॥४९॥