कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०९
४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०९
अनेन वा प्रतिबद्धमिति । तस्य मित्रत्वाद्, अनेन संधिं कृत्वा संक्र-मस्थानीयेन ॥ २८ ॥
विमानितो वा भार्यया तमेव तस्यां विक्रमयिष्यामि ॥ २९ ॥
विमानितो वेति । मत्तो विशीर्णः स्वभार्यया संसृष्टः, तया चास्म-दमर्षादवमानितोऽहं चाकृष्ट्या तमेव संधाय, तस्यां विक्रमयिष्यामि = विग्रहं कारयिष्यामि, आक्रोशस्य निर्यातनार्थम् ॥ २९ ॥
अस्य वा मित्रं मद्द्वेषिणीं सपत्नीं कामयते तदमुना भेद-यिष्यामि ॥ ३० ॥
अस्य वा विशीर्णस्य मित्रं शक्तिद्रव्यसंपन्नं मद्द्वेषिणीमपकर्तुकामां-न्मम सपत्नीं वर्तमानां भूतपूर्वां वा कामयते, तन्मित्रमधुना विशीर्णेन भेदयिष्यामि, येन सा लाभेन न योक्ष्यते, मां चोपकरिष्यति ॥ ३० ॥
चलचित्ततया वा लाघवमेनमापादयिष्यामीति ॥ ३१ ॥
चलचित्ततया वेति । इतोऽन्यत्र गतस्ततोऽन्यत्र गतस्तमपि चल-चित्ततया लाघवमापादयिष्यामि ॥ ३१ ॥
स्वयमुपजपेदित्युक्तं तस्य स्वरूपमाह—
तस्य पीठमर्ददयो मातुर्दौःशीत्येन, नायिकायाः सत्यप्यनु-रागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः ॥ ३२ ॥
तस्येति । विशीर्णस्य, मातुर्दौःशील्येनेति । मातैवास्या दुःशीला, तयाऽर्थपरतया त्वं निष्कासितः, नायिका त्वय्यनुरक्तैव ॥ ३२ ॥
वर्तमानेन चाकामायः संसर्गं विद्वेषं च ॥ ३३ ॥
केवलं परवशा वर्तमानेन शठ्येन यः संसर्गः संप्रयोगो **नायिकाया-**अनिच्छन्त्या अकामायः औषधपानवद् विद्वेषः परमार्थतो यस्य दर्श-नपथेऽपि न तिष्ठतीति वर्णयेयुः ॥ ३३ ॥
तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यायेयुः ॥ ३४ ॥
तस्याश्चेति । नायिकायाः, साभिज्ञानैरिति । अभिज्ञानं वक्ष्यति, पूर्वानुरागैरिति । पूर्वमविशीर्णे येऽनुरागा आसंस्तएनं प्रत्याययेयुर्नायकं-बोधयेयुः, तथैव प्रतिपद्यते ॥ ३४ ॥
अभिज्ञानं च तत्कृतोपकारसंबद्धं स्यादिति विशीर्णप्रतिसं-धानम् ॥ ३५ ॥
तत्कृतोपकारसंबद्धमिति । नायकेन यः कृत उपकारोऽर्थेनानर्थप्रती-कारेण वा तेन युक्तं स्यात् कृतज्ञतासूचनार्थम् ॥ ३५ ॥
३९ का० सू०
३०६ सटीक कामसूत्रे [ ६ अधिकरणे
अपूर्वस्यासम्भवे विशीर्णप्रतिसंधानमुक्तं, सम्भवति चापूर्वे, विशीर्णे चोपजपति सति, केन संधानं युक्तमित्याह—
अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान्, स हि विदितशीलो दृढरागश्च सूपचरो भवतीत्याचार्याः ॥ ३६ ॥
अपूर्वेति । विदितशील इति । संवासेन ज्ञातस्वभावः, दृढानुरागश्च पूर्वमासक्तत्वात्, स ह्युभयधर्माध्यासितत्वात्कान्तानुवृत्त्या सुखेनोपचर्य्यत इति सूपचरो न त्वपूर्वः ॥ ३६ ॥
पूर्वसंसृष्टः सर्वतो निष्पीडितार्थत्वान्नात्यर्थमर्थदो दुःखं च पुनर्विश्वासयितुमपूर्वस्तु सुखेन नुरज्यत इति वात्स्यायनः ॥ ३७ ॥
नात्यर्थमर्थद इति । अर्थार्थे सन्धीयते स चेन्न यथावत् किं तेन संहितेन, दुःखं च पुनर्विश्वासयितुं तस्य सत्यपि विदितशीलत्वे दृढानुरागित्वे च निष्कासनेनोत्पादितवैरूप्यात्, सुखेनोनुरज्यत इति । तद्गदोषस्यादृष्टत्वात्, तस्य वा निष्पीडितार्थत्वादन्यर्थमर्थद इत्यर्थोक्तम्, अपूर्वो द्विविधः—अन्यवेश्यासंसृष्टोऽसंसृष्टश्चेति, संसृष्टोऽपि द्विविधः—निष्कासितोऽनिष्कासितश्च, तेषां सन्धानोपायो गम्योपावर्तने द्रष्टव्यः ॥ ३७ ॥
तथाऽपि पुरुषप्रकृतितो विशेषः ॥ ३८ ॥
पुरुषप्रकृतित इति । पुरुषस्वभावात्, कश्चिदपूर्वोऽपि दुरुपचरः कदर्थ्यश्च भवति, पूर्वसंसृष्टश्च निष्पीडितार्थोऽपि दाता, निष्कासितोऽपि सविश्वास इति ॥ ३८ ॥
संक्षेपेण सन्धाने कारणं त्रिविधं नायिकान्तरस्थं विशीर्णस्थं वर्तमानस्थं चेति, तदेव दर्शयन्नाह—
भवन्ति चात्र श्लोकाः—
अन्यां भेदयितुं गम्यादन्यतो गम्यमेव वा ।
स्थितस्य चोपघातार्थं पुनः संधानमिष्यते ॥ ३९ ॥
अनियमिति । भेदयितुं विशीर्णात्, ‘तदनेन विमानितो वा भार्य्यया तमेव तस्यां विक्रमयिष्यामि’, ‘अस्य वा मित्रं मद्वेषिणीं कामयते तदमुना भेदयिष्यामि’ इत्युभयमुक्तं वेदितव्यं, स्थितस्योपघातार्थमित्यनेन ‘वर्त्तमानस्य वा दर्पविघातं करिष्यामि’ इत्येतदुक्तम्, अन्यतो गम्यमेव वेति । अन्यस्या नायिकाता विशीर्णं भेदयितुमित्यनेन च विशीर्णस्थं कारणमुक्तम् ॥ ३९ ॥
संप्रयोगार्थं विशीर्णः संधत्ते, तादृशमस्ति संधानं यत्र वर्त्तमानम-
४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०७
तिसक्तं विशीर्णे वाऽनुरक्तमपेक्ष्य तदैव सम्प्रयोग इति दर्शन्नाह—
बिभेत्यन्यस्य संयोगाद्व्यलीकानि च नेक्षते ।
अतिसक्तः पुमान्यत्र भयाद्बहु ददाति च ॥ ४० ॥
बिभेतीति । यत्र यस्मिन्सन्निधाने वर्तमानेऽतिसंसक्तोऽप्यन्यस्य संयोगाद्विभेति, संयुक्तोऽयं कदा चिदपकरिष्यतीति, व्यलीकानि च नायिकाकृतानपराधान्नेक्षतेऽवधीरयत्यतिसक्तत्वादेव, भयादिति । परित्यागभयाद् बहु ददाति ॥ ४० ॥
असक्तमभिनन्देच्च सक्तं परिभवेत्तथा ।
अन्यदूतानुपाते च यः स्यादतिविशारदः ॥ ४१ ॥
असक्तमिति । यो विशीर्णोऽप्यनुरक्तत्वाद्धर्तमानमसक्तमभिनन्देद्-विज्ञातभावत्वाद्, यदस्यां न रक्त इति, सक्तं परिभवेद्, अलक्तकावस्थां-प्राप्स्यस्यचिरेणेति, अन्यदूतानुपाते चेति । अन्यस्य सम्बन्धि न्यायाति दूतेऽतिविशारदोऽत्यर्थमर्थदो मा भूदन्येन सन्धानमिति ॥ ४१ ॥
तत्रोपजापिनं पूर्वं नारी कालेन योजयेत् ।
भवेच्चाच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥ ४२ ॥
तत्रेति । तस्मिन्संधाने, पूर्वमिति । पूर्वसंसृष्टं विशीर्णमुपजापिनं, नारीति । सामान्याभिधानेऽपि प्रकरणाद्वेश्यैव द्रष्टव्या, कालेन योजयेद्, न तदैव सम्प्रयोजयेद्, अन्यथा तदात्व एव वर्तमानेनातिसक्तेन फल-वतां विश्लेषः स्याद्, विशीर्णोऽप्यतिरक्तत्वात् प्रत्याशया कालान्तर-मपेक्षत एव, यदाह-‘भवेच्चाच्छिन्नसंधानेति । विशीर्णेन सहेत्यर्थः, न च सक्तं परित्यजेत्, तदात्व एव तस्य सफलत्वात् ॥ ४२ ॥
सक्तं तु वशिनं नारी संभाष्याप्यन्यतो व्रजेत् ।
ततश्चार्थमुपादाय सक्तमेवानुरञ्जयेत् ॥ ४३ ॥
यस्य तदात्वेऽन्यस्माल्लाभो महान् ; न च सम्प्रयोगं विना तत्र किं-प्रतिपत्तव्यमित्याह—सक्तं त्विति । वशिनं यथोक्तकारिणम्, अन्यत इति । अन्यमुद्दिश्य, ततश्चेति । यत्र व्रजिता सक्तमेवानुरञ्जयेत् कान्ता-नुवृत्त्या तत्र स्थितत्वाद्, नान्यम् ॥ ४३ ॥
प्रतिसंधानात् प्राक् चतुष्टयं निरूप्यमित्याह—
आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम् ।
सौहृदं प्रतिसंदध्याद्विशीर्णं स्त्री विचक्षणा ॥ ४४ ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्ण-प्रतिसंधानं चतुर्थोऽध्यायः ।
३०८ सटीक कामसूत्रे [ ६ अधिकरणे,
आयतिमिति। प्रभावं, लाभमायत्यां, तदात्वे प्रीतिं पुष्कलां निर्व्याजं तस्यात्मविषये, सौहृदमात्मनस्तस्मिन् विषये, विचक्षणेति । परीक्षणे विचक्षणा = कुशला ॥ ४४ ॥
इति विशीर्णप्रतिसन्धानं षट्पञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसन्धानं चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
त्रिविधा वेश्या—एकपरिग्रहा, अनेकपरिग्रहा, अपरिग्रहा चेति, तत्र पूर्वस्या लाभ उक्तः, द्वितीयां वक्ष्यति, तृतीयाया विना परिग्रहमनेकस्माल्लभमानाया लाभविशेषा उच्यन्ते,
तत्रापरिग्रहकारणमाह—
गम्यबाहुल्ये बहु प्रतिदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥१॥
गम्येति। यदा गम्या बहवस्तेभ्यः स्पर्धया बहु लभते, प्रतिदिनं चैकैकमभिगच्छन्ती तदा नैकं प्रतिगृह्णीयात्, स हि बहु प्रतिदिनञ्च न ददाति ॥ १ ॥
यद्येवमनियतो लाभः ततश्च कश्चित्स्वल्पमपि दद्यात् तद्ग्रहणे चान्येऽपि तावन्मात्रकमेव दद्युरित्याह—
देशं कालं स्थितिमात्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्यामर्घं स्थापयेत् ॥ २ ॥
देशं सम्पन्नमितरं वा, कालं यत्र काम उद्भूतशक्तिरनुद्भूतशक्तिर्वा, स्थितिः = देशप्रवृत्तिः, यथाऽपरकायं सेवमानस्यैकगुणः पूर्वकायमपि द्विगुणः, आत्मनो गुणान्रूपवैदग्ध्द्यादीन् सतोऽसतो वा, तथा सौभाग्यम्, अन्याभ्य इति। वेश्याभ्यः स्थानमानाभ्यामात्मनो न्यूनत्वं चाधिक्यं चावेक्ष्य तदनुरूपं रजन्यामर्घं स्थापयेद् , इयमेकां रात्रिमियता शेत इति ॥२॥
तत्र यदाऽवस्थापितेनार्घेण गम्य एव स्वदूतसम्प्रेषणेन भाणयति सिद्धं कार्यं, नो चेत्तत्राह—
गम्ये दूतांश्च प्रयोजयेत् तत्प्रतिबद्धांश्च, स्वयं प्रहिणुयात् ॥३॥
तत्प्रतिबद्धान् = गम्यप्रतिबद्धान्, प्रयोजयेदभिप्रायजिज्ञासाऽर्थं, विदिताभिप्राया तु स्वयं प्रहिणुयात् प्रेषयेदात्मीयानित्यर्थः ॥ ३ ॥
दूतसम्प्रेषणाद्गम्यसम्प्रेषणे रजन्यर्घलाभः, तस्मान्नियमितादधिको-
५ अध्याये ] लाभविशेषप्रकरणम् । ३०९
योऽनुरागाल्लभ्यते स लाभातिशयः, तं चेतादेव लभते भद्रकमेव नो चेदत्राह—
द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत् परिग्रह-
कल्पं सकलं च चरेत् ॥ ४ ॥
द्वीति । इतिशब्दो विकल्पार्थः, द्वौ त्रींश्चतुरो वा वारानेकस्यापि मूलं गच्छेत्, परिग्रहकल्पं सकलं चेति । तावत्सु दिवसेष्वन्यनिरपेक्षा-ऽनुरञ्जनविधिमाचरेदित्यर्थः ॥ ४ ॥
इदानीन्नियतमितमतिशयवन्तं राजन्यर्घलाभमधिकृत्यार्थितया द्रव्य-स्वरूपतो गम्यतश्च विशेषमाह—
गम्ययौगपद्ये तु लाभसाम्ये यद्द्रव्यार्थिनी स्यात्तद्दायिनि
विशेषः प्रत्यक्ष इत्याचार्याः ॥ ५ ॥
गम्येति । यदि बहवो गम्या युगपदुपस्थिता एको हिरण्यमपरस्त-त्तुल्यमूल्यं दातुं, ततो येन द्रव्यार्थिनी तद्दायिनि गम्ये लाभविशेषः-प्रत्यक्षः, तेनार्थिनी स्यादित्याचार्याः ॥ ५ ॥
अप्रत्यादेयत्वात्सर्वकार्याणां तन्मूलत्वाद्विरणयद इति वा-
त्स्यायनः ॥ ६ ॥
अप्रेति । हिरण्यमत्र लोकप्रतीत्या कपर्दकाः, ते च दत्ता गम्येन पुनर्न प्रत्यादीयन्ते, वस्त्रादिकं दत्त्वाऽपि किञ्चित्प्रत्यादत्ते, सर्वकार्याणा-मिति । तद्द्द्रव्यमन्यच्च कार्यं सर्वं हिरण्यमूलं, तेन लभ्यमानत्वात् , तेन तत एव विशेषः, तस्मात्तत्रैवार्थित्वं कर्तव्यम् ॥ ६ ॥
सुवर्णरजताम्रकांस्यलोहभाण्डोपस्कारास्तरणप्रावरणवासो-
विशेषगन्धद्रव्यकटुकभाण्डघृततैलधान्यपशुजातीनां पूर्वपूर्वतो वि-
शेषः ॥ ७ ॥
सुवर्णेति । सुवर्णरजते घटिते अघटिते वा, ताम्र कांस्यलोहैर्घटितं-भाण्डोपस्करम्, आस्तरणं = तूलिकादि,प्रावरणं = कम्बलादि,वासोवि-शेषः क्षौमादिः,गन्धद्रव्यं = चन्दनादि, कटुकं = मरिचादि, भाण्डः = पट्ट-खट्वाऽऽदिः, पूर्वपूर्वर्त इति । क्षुद्रपशुजातेर्धान्यं ततस्तैलादिरित्यादिना विशेषः ॥ ७ ॥
पत्तनसाम्याद्वा द्रव्यसाम्ये मित्रवाक्यादातिपातित्वायायतितो-
गम्यगुणतः प्रीतितश्च विशेषः ॥ ८ ॥
पत्तनसाम्याद्वेति । यद्वा गृहस्वरूपानुरूप्येण विशेषः, द्रव्यसाम्य-
३१० सटीक कामसूत्रे [ २ अधिकरणे,
इति । यद्वा द्वावपि रूपतः प्रमाणतस्तुल्यं द्रव्यं प्रयच्छतस्तत्र मित्रवचनमनुष्ठेयं, यत्र वा तदानीमदीयमानमतिपतति, यत्र चायतिः-प्रभावः पुरुषगुणा वा, यत्र गम्ये सति प्रीतिर्वा नायिकायाः, नायकस्य नायिकायां वेति ॥ = ॥
गम्यतो विशेषमाह—
रागित्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ९ ॥
रागीति। रक्तात् त्यागिनो विशेषः प्रत्यक्षः, तदात्व एव द्रव्यप्राप्तेः ॥ ९॥
शक्यो हि रागिणि त्याग आधातुं, लुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निर्बन्धाद्रज्यत इति वात्स्यायनः ॥ १० ॥
शक्य इति। रागिण्यत्यागिनि, रक्ते शक्यस्त्याग आधातुमुपायेन, कुत इत्याह—लुब्धोऽपि त्यजति द्रव्यं ददाति, निर्बन्धादिति। प्रयासेनापि न रज्यते तस्य तेजस्वित्वाद्, अरक्तस्तु न त्यजति ॥ १० ॥
तत्रापि धनवदधनवतोधनवति विशेषः, त्यागिप्रयोजनकर्त्रोः-प्रयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ११ ॥
तत्रापि धनवदधनवतोरिति । रागित्यागिनोर्यो धनवान्स विशिष्यते नेतरो निर्धनः, प्रयोजनकर्तरीति। नायिकायाः कार्यस्य यः कर्ता तस्मिन्नत्यागिनि विशेषः प्रत्यक्षः, तदात्व एव कार्यकारणात्, त्यागी तु दास्यतीति न प्रत्यक्षः ॥ ११ ॥
प्रयोजनकर्ता सकृत्कृत्वा कृतिनमात्मानं मन्यते त्यागी पुनरतीतं नापेक्षत इति वात्स्यायनः ॥ १२ ॥
सकृत्कृत्वेति । एकवारं कृत्वा, कृतिनमिति। कृतमस्याः कार्यं किमपरं करिष्यामीति, अतीतमिति। दत्तमेवास्यै न पुनर्द्ददामीति नापेक्षते त्यागशीलत्वात् ॥ १२ ॥
तत्राप्यायतितो विशेषः ॥ १३ ॥
आयतित इति । यदा तत्प्रयोजनमधीरितमवपतति तदा तत एव विशेषः ॥ १३ ॥
कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ १४ ॥
कृतज्ञात् त्यागिनि विशेषः प्रत्यक्षो द्रव्यदर्शनाद्, न तु कृतज्ञे तस्यात्यागित्वात् ॥ १४ ॥
चिरमाराधितोऽपि त्यागी व्यलीकमेकमुपलभ्य, प्रतिगणिकया वा मिथ्यादूषितः, श्रममतीतं नापेक्षते, प्रायेण हि तेजस्विनः