कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
१ अध्याये ] एकचारिणीवृत्तप्रकरणम्। २०३
१ अध्याये ] एकचारिणीवृत्तप्रकरणम्। २०३
साधिक्षेपवचनं त्वेनं मित्रजनमध्यस्थमेकाकिनं वाऽप्युपाल-
भेत न च मूलकारिका स्यात् ॥ २० ॥
मित्रजनमध्यस्थं यदि कार्यवशात्साधिक्षेपवचनमुपालभेत, न च मूलकारिका स्यात् ॥ २० ॥
सत्स्वप्यपचारेषु युक्तिमाह--
न ह्यतोऽन्यदप्रत्ययकारणमस्तीति गोनर्दीयः ॥ २१ ॥
न ह्यत इति। मूलकर्मणः, अप्रत्ययकारणम् = अविश्वासकारणं, गोनर्दीयमतमनुमतमप्रतिषिद्धत्वात् ॥ २१ ॥
दुर्व्याहृतं दुर्निरीक्षितमन्यतो मन्त्रणं द्वारदेशावस्थानं निरी-
क्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरमवस्थानमिति वर्ज-
येत् ॥ २२ ॥
दुर्व्याहृतं=दुर्मन्त्रितं, दुर्निरीक्षितं=अस्निग्धवीक्षणम् , अन्यतो मन्त्रणं=तिर्यङ्मुखं कृत्वा भाषणम्, एतत्त्रितयं वैराग्यजनकं, द्वारदेशावस्थानं, गृहद्वारस्थितिनिरीक्षणं च, तदुभयमयत्नसाध्यत्वसूचकं, निष्कुटेष्विति। गृहवाटिकायां निर्गत्य कया चित्सह मन्त्रणं, विविक्तेषु = निर्जनेषु गृहप्रदेशेषु, चिरमवस्थानं, तदुभयमसद्विकल्पजनकं भवेत् ॥ २२ ॥
स्वेददन्तपङ्कदुर्गन्धांश्च बुध्येतेति विरागकारणम् ॥ २३ ॥
स्वेदादीन्बुध्येतापनयनार्थं, दन्तपङ्कः=दन्तमलः, विरागकारणमिति। वैराग्यजनकं भवेद्भर्तुः ॥ २३ ॥
बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास-
इत्याभिगामिको वेषः ॥ २४ ॥
नानावर्णं कालवशाद्यद्यद्विराजते वर्णतस्तत्तदुपादेयमिति, आभिगामिको नायकाभिगमनप्रयोजकः, तदा हि बहुभूषणादिभिः कालौपयिकेन च रक्तवाससा प्रसाधिता मनोहरेति ॥ २४ ॥
प्रतनुश्लक्ष्णमल्पदुकूलता परिमितमाभरणं सुगन्धिता नात्यु-
ल्वणमालेपनं तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः॥२५॥
प्रतनु श्लक्ष्णमल्पं सूक्ष्मं यत्संयन्तुं शक्यं वस्त्रं, परिमितं कर्णयोर्ग्रीवायां च, नात्युद्धतं वर्णविन्यासाभ्यां चेति, वैहारिको, यात्राक्रीडाविहारप्रयोजकः ॥ २५ ॥
२०४ सटीके कामसूत्रे [ ४ अधिकरणे,
नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत वारिता-
यां च नाहमत्र निर्बन्धनीयेति तद्वचसो निवर्तनम् ॥ २६ ॥
व्रतं नियमं स्वयमनुकरणेनानुवर्तेत भक्तिख्यापनार्थं, वारितायां-
नायकेन व्रतोपवासाभ्यां, नाहमत्र निर्बन्धनीया निषेधनीयेति वाक्येन
नायकवचसो निवर्तनं भक्तेर्नाट्यार्थम् ॥ २६ ॥
मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्धग्रहणम् ॥ २७ ॥
मृद्भाण्डं=घटादि, विदलभाण्डं=पिटकादि, काष्ठभाण्डं=पीठखट्-
वाऽऽदि, लोहभाण्डं=ताम्रादिमयं, काले = इत्युपयोगकाले, तत्रापि यत्-
समर्घं प्राप्यते ॥ २७ ॥
तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकभाण्डौषधानां च दुर्ल-
भानां भवनेषु प्रच्छन्नं निधानम् ॥ २८ ॥
लवणं=सैन्धवादि, स्नेहः=घृततैलवसामज्जानः, गन्धद्रव्यं=तगरादि,
कटुकं=तुम्बूयादि, औषधं=द्विपञ्चमूलादि, दुर्लभा ये न तत्रत्याः, अपि तु
दुःखेन लभ्यन्ते, प्रच्छन्नं निधानं यत्र तानि भवन्ति, न विनश्यन्ति
वा ॥ २८ ॥
मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डा-
लाबुसूरणशुकनासास्वयंगुप्तातिलपर्णिकाऽग्निमन्थल्शुनपलाण्डुप्र-
भृतीनां सर्वौषधीनां च बीजग्रहणं काले वापश्च ॥ २९ ॥
मूलकादीनां च बीजग्रहणमिति संबन्धः, एर्वारुकः=कर्कटिका,
अलाबुः=तुम्बी, सूरणः=कन्दः, शुकनासा=सर्वतोभद्रा, स्वयंगुप्ता=क-
पिकच्छूः, तिलपर्णिका=काश्मरी, अग्निमन्थः=अनेनव नाम्ना प्रथितः,
पलाण्डुः=लशुनाकारो लोहितः ॥ २९ ॥
स्वयं च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥३०॥
सारस्य = द्रव्यस्य, परेभ्यो नाख्यानं ‘धनायुषी गुप्ततमे कार्ये’ इति
वचनाद्, भर्तृमन्त्रितस्य च नाख्यानं मा ज्ञासीद्भिन्नरहस्येति ॥ ३० ॥
समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोप-
चारैरतिशयीत ॥ ३१ ॥
समानाः=तुल्याभिजनाः, कौशलेन कलासु, मानेन मनस्वितया,
उपचारैर्भर्तरि क्रियमाणैरुपचारैरतिशयीतात्मनोऽधिकत्वख्यापनार्थम्॥३१॥
सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् ॥ ३२ ॥