कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
१८२ सटीके कामसूत्रे [ ३ अधिकरणे,
तथाभूतं तं च दृष्ट्वा, भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्गिताकारलिङ्गैर्विद्यात् ॥ २२ ॥
किमित्यनुपहतदर्शनः स्यादित्याह--
युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जत इति प्रायोवाद इति बालायामुपक्रमाः ॥ २३ ॥
युवतय इति। जातयौवनाः, संसृष्टं जातपरिचयम्, अभीक्ष्णदर्शनं सदा दृश्यमानं, कामयन्त इति। इच्छन्ति, नाभियुञ्जते कया चिल्लज्जाऽऽश्चर्ययुक्त्या ॥ २३ ॥
बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
भावं च कुर्वतीमिङ्गिताकारैः सूचयेदित्युकं, तेषां सूचनं प्रकाशनमुच्यते, यदाह--
तानिङ्गिताकारान्वक्ष्यामः ॥ २४ ॥
तानिति। तत्रेङ्गितमन्यथा वृत्तिः, आकारो मुखनयनरागः, तदुभयमुत्तरत्र यथायोगं योज्यम् ॥ २४ ॥
संमुखं न वीक्षते, तं तु वीक्षिता व्रीडां दर्शयति ॥ २५ ॥
संमुखं न वीक्षत इति। लज्जया पराङ्मुखी, तं तु नायकं, वीक्षितेति। नायकेन, व्रीडां दर्शयति, अधोमुखी भूत्वा ॥ २५ ॥
रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति ॥ २६ ॥
रुच्यमतिमनोहरम्, आत्मनोऽङ्गं स्तनबाहुमूलादि, अपदेशेनेति। प्रावरणव्याजेन ॥ २६ ॥
प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ॥ २७ ॥
प्रमत्तमन्वहितम्, प्रच्छन्नमेकाकिनम्, अतिक्रान्तं दूरगतम् ॥ २७ ॥
पृष्टा च किञ्चित्सस्मितमव्यक्ताक्षरमन्त्रासितार्थं च मन्दं मन्दमधोमुखी कथयति ॥ २८ ॥
पृष्टा च किञ्चिदिति। नायकेन, सस्मितमित्यादिनाऽनुरागोन्मुखता व्रीडा चाख्यायते ॥ २८ ॥
तत्त्समीपे चिरं स्थानमभिनन्दति ॥ २९ ॥
तत्त्समीप इति। नायकसमीपे ॥ २९ ॥
दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं सवदनवि·
३ अध्याये ] इङ्गिताकारसूचनप्रकरणम् । १८३
कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥
परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्षं,- तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥
यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति ॥ ३१ ॥
तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं करोति तिर्यक्पश्यन्ती, तत्र कथामनुबध्नाति सखीं प्रोत्साह्य ॥ ३१ ॥
बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति, परिचारिकायास्तिलकं च रचयति ॥ ३२ ॥
बालस्येति । लाडीकस्य स्वाङ्कमारोपितस्य, चुम्बनावगूहनं च संक्रान्तकम्, परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती ३२
परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥ ३३ ॥
परिजनानवष्टभ्येति । परिजनक्रोडापाश्रया, तास्ताश्चेति । केशविरचनाङ्गवलनविजृम्भिकाः ॥ ३३ ॥
तन्मित्रेषु विश्वसिति वचनं चैषां बहुमन्यते करोति च ॥ ३४ ॥
तन्मित्रेषु=नायकमित्रेषु, विश्वसिति स्वभावं प्रकटयति, वचनं चैषां बहुमानं कुरुते तदनुरूपाद्यनुष्ठानात् ॥ ३४ ॥
तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति ॥३५॥
तत्परिचारकैरिति । नायकपरिचारकैः ॥ ३५ ॥
स्वकर्मसु च प्रभविष्णुरिवैतानियुङ्क्ते ॥ ३६ ॥
एतानिति । नायकपरिचारकान् ॥ ३६ ॥
तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति ३७॥
तेष्विति । परिचारकेषु, कस्य चिदन्यस्य कथयत्सु, तां संकथाम् ३७
धात्रेयिकया चोदिता नायकस्योदवसितं प्रविशति ॥ ३८ ॥
धात्रेयिकया चोदिता प्रविशात्र इति, उदवसितं गृहम् ॥ ३८ ॥
तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति ॥ ३९ ॥
तामन्तरा कृत्वेति । धात्रेयिकां व्यवधानीकृत्य, नायकेन सह द्यूतादि नियोजयितुमिच्छति ॥ ३९ ॥
१८४ सठीके कामसूत्रे [ ३ अधिकरणे,
अनलङ्कृता दर्शनपथं परिहरति ॥ ४० ॥
दर्शनपथमिति । नायकस्य ॥ ४० ॥
कर्णपत्रमङ्गुलीयकं स्रजं वा तेन याचिता सधीरमेव गात्राद-
वतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति ॥ ४१ ॥
सधीरमवतार्य किं ग्रहीष्यतीति, सख्या हस्त इति । लज्जया न त-
द्धस्ते ददाति, नित्यं धारयति श्लाघ्यमाना ॥ ४१ ॥
अन्यवरसंकथासु विषण्णा भवति तत्पक्षकैश्च सह न संसृ-
ज्यत इति ॥ ४२ ॥
तत्पक्षैरिति । अन्यवरपक्षैः ॥ ४२ ॥
प्रकरणद्वयमुपसंहरन्नाह—
दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च ।
कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥ ४३ ॥
दृष्ट्वेति । एतानिति । आकारान्, इङ्गितानि चेति लिङ्गविपरिणामेन
योज्यम्, भावसंयुक्तानीति । अनुरागसङ्गतान्, संप्रयोगार्थमिति । सं-
प्रयोगोऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः, योगानिति । अभियो-
गान् ॥ ४३ ॥
त्रिविधा कन्या-बाला तरुणी प्रौढा चेति, यथाक्रममुपक्रममाह—
बालक्रोडनकैर्बाला कलाभियोंवने स्थिता ।
वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् ॥ ४४ ॥
इति श्रीवात्स्यायनीये कामसूत्रे तृतीयेऽधिकरणे बालोपक्रमा-
इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।
बालक्रीडनकैरिति । कलाभिरनुरागिणी, वत्सला प्रौढा, यस्तस्या-
विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ ४४ ॥
इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं-
प्रयुक्तके तृतीयेऽधिकरणे बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।
४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८५
चतुर्थोऽध्यायः ।
शास्त्रकार एव प्रकरणसम्बन्धमाह—
दर्शितेङ्गिताकारां कन्यामुपायतऽभियुञ्जीत ॥ १ ॥
दर्शितेङ्गिताकारमिति । उपायत इति । उपाया एवाभियोगा अभि-
युज्यते तैरिति, ते चासहायस्येत्येकपुरुषाभियोगा उच्यन्ते, ससहाय-
स्यापि के चित्सम्भवन्ति, ते द्विविधाः—बाह्या आभ्यन्तराश्चेति ॥ १ ॥
तत्र पूर्वानधिकृत्याह—
द्यूते क्रीडनकेषु च विवदमानः साकारमस्याः पाणिमव-
लम्बेत ॥ २ ॥
द्यूत इति । विवदमानो वाक्कलहं कुर्वन्, साकारं पाणिमवलम्बेत
यथाऽवगच्छेद् 'अहमनेनोढेति' ॥ २ ॥
यथोक्तं च स्पृष्टकादिकमालिङ्गनविधिं विदध्यात् ॥ ३ ॥
स्पृष्टकादिकमिति । स्पृष्टकं विद्धकमुद्घृष्टकं पीडितकमिति, चतुष्ट-
यमवसरप्राप्तत्वाद्यथायोग्यं विदध्यात् ॥ ३ ॥
पत्रच्छेदक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्श-
येत् ॥ ४ ॥
पत्रेति । स्वाभिप्रायसूचकं संप्रयोगसूचकं हंसादिमिथुनम् ॥ ४ ॥
एवमन्यद्विरलशो दर्शयेत् ॥ ५ ॥
एवमिति । अन्यदपि यन्मिथुनं भवति, तिलकादिकं साकारं, विर-
लश इति । सततदर्शने हि ग्राम्यता सम्भाव्यते कौतुकं चापैति ॥ ५ ॥
जलक्रीडायां तद्दूररतोऽप्सु निमग्नः समीपमस्या गत्वा स्पृष्ट्वा
चैनां तत्रैवोन्मज्जेत् ॥ ६ ॥
जलेति । स्पृष्ट्वा चैनामिति । निमग्न एव, तत्रैवोन्मज्जेद्, नायिकास-
मीपे ॥ ६ ॥
नवपत्रिकादिषु च सविशेषभावनिवेदनम् ॥ ७ ॥
नवपत्रिकादिषु चेति । देश्यक्रीडासु, सविशेषभावनिवेदनमिति ।
पूर्वोक्तेनैव स्वाभिप्रायसूचकेन पत्रच्छेद्यादिना ॥ ७ ॥
आत्मदुःखस्यानिवेदेन कथनम् ॥ ८ ॥
आत्मदुःखस्य च कथनं 'न जाने किं कृत मम चेतसि पीडा' इति,
तत्राप्यनिर्वेदेन भूयो भूयः प्रधानकार्यत्वात्कथनम् ॥ ८ ॥
२४ का० सू०
१८६ सटीक कामसूत्रे [ ३ अधिकरणे,
स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ॥ ९ ॥
अन्यापदेशेनेति । त्वत्तुल्यवयोरूपया सहोपगमः स्वप्ने ममाभूदिति कथनम् ॥ ९ ॥
प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनं तत्रान्यापदिष्टस्प- र्शनम् ॥ १० ॥
स्वजनसमाजः = स्वजनगोष्ठी, समीपोपवेशनमिति । नायिकायाः, तत्रेति । समीपे प्रेक्षणकादिषु, अन्यापदिष्टमन्यदपदिश्य स्पर्शनम् ॥ १०॥
अपाश्रयार्थं च चरणेन चरणस्य पीडनम् ॥ ११ ॥
अपाश्रयार्थमिति । अपाश्रयस्तदङ्गे स्वाङ्गस्थापनं, चरणस्य पीडनं- स्वचरणेन ॥ ११ ॥
ततः शनैर्कैरैकामङ्गुलिमभिमृशेत् ॥ १२ ॥
तत इति । तस्मात्सिद्धादुत्तरकाले, शनकैरिति । कियतीं काल- कलामतिक्रम्य तस्या अङ्गुलिमभिमृशेत् ॥ १२ ॥
पादाङ्गुष्ठेन च नखाग्राणि घट्टयेत् ॥ १३ ॥
पादाङ्गुष्ठेनेति । नखाग्राणि, घट्टयेच्चालयेत् ॥ १३ ॥
तत्र सिद्धः पदात्पदमधिकमाकाङ्क्षेत ॥ १४ ॥
तत्रेति । सिद्धो नखाग्रघट्टने, पदात्पदमिति । स्थानात्स्थानान्तरं- जघनोरुनितम्बादिकं स्प्रष्टुं सोपानक्रमेणाकाङ्क्षेत ॥ १४ ॥
क्षान्त्यर्थं च तदेवाभ्यस्येत् ॥ १५ ॥
क्षान्त्यर्थं चेति । सहनार्थम्, अभ्यस्येत् तदेव यत्पूर्वाभ्यु- पगतम् ॥ १५ ॥
आन्तरानधिकृत्याह—
पादशौचे पादाङ्गुलिसन्दंशेन तदङ्गुलिपीडनम् ॥ १६ ॥
पादशौच इति । पादधावनं ददत्याः स्वपादाङ्गुलिसन्दंशेन पी- डनम् ॥ १६ ॥
द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ॥ १७ ॥
तद्गतो विकार इति । द्रव्यं पूगफलादिकं समर्पयता प्रतिगृह्णता वा द्रव्यगतो विकारः कार्यः, सनखस्पर्शमर्पयेत्प्रतिगृह्णीयादित्यर्थः ॥ १७ ॥
आचमनान्ते चोदकेनासेकः ॥ १८ ॥
आचमनान्त इति । उपस्पृष्टुं ददतीं तदन्ते जलचुलकेनाहन्यात् ॥ १८ ॥
४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८७
विजने तमसि च द्वन्द्वमासीनः क्षान्तिं कुर्वीत समानदेशश-
य्यायां च ॥ १९ ॥
द्वन्द्वमिति । साहचर्येणासीनः, क्षान्तं कुर्वीतेति । करस्पर्शादिना, त-
त्काले लज्जाऽभावात्कन्यायाः, समानदेशशय्यायां च क्षान्तिं कुर्वीत॥१९॥
तत्र यथार्थमनुद्वेजयतो भावनिवेदनम् ॥ २० ॥
तत्रेति । आसने शयने च, यथार्थं भावनिवेदनमाकारेण न वाचा
प्रत्याख्यानभयाद्, अनुद्वेजयत इति । यथा नोद्विजते ॥ २० ॥
यदा वाचा तदा विधिमाह—
विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं, भा-
वं च तत्रोपलक्षयेद् यथा पारदारिके वक्ष्यामः ॥ २१ ॥
विविक्ते चेति । 'किंचिदस्ति कथयितव्यम्' इत्येतावद्वक्तव्यं, 'किं-
तद्' इति तयोच्यमाने निर्वचनं ब्रूयादित्यर्थः, तत्रेति । वचनोपन्यासे,
भावं संप्रयोगाभिलाषमस्या लक्षयेत् , कथमित्याह-यथेति। तत्र प्रवृत्त्या
भावपरीक्षां वक्ष्यति, इङ्गिताकारैश्च यद्भाववेदनं तदनुरागमात्रवेदन-
मिति विज्ञेयम् ॥ २१ ॥
विदितभावस्याभ्यन्तरमभियोगमाह—
विदितभावस्तु व्याधिमपदिश्येनां वार्त्ताग्रहणार्थं स्वमुद्व-
सितमानयेत् ॥ २२ ॥
विदितेति । व्याधिमपदिश्येति । कृतकं शिरःशूलादिकमपदिश्य,
स्वमुद्वसितं स्वगृहम्, आनयेद् विश्वास्यया प्रहितया ॥ २२ ॥
आगतायाश्च शिरःपीडने नियोगः, पाणिमवलम्ब्य चास्याः-
साकारं नयनयोर्ललाटे च निदध्यात् ॥ २३ ॥
शिरःपीडन इति । शिरो मे दुःखयति पीडय हस्तेनेति नियोगः ॥२३॥
औषधापदेशार्थं चास्याः कर्म विनिर्दिशेत् ॥ २४ ॥
औषधेति । यथा जानात्यस्मत्कृतेयमस्यावस्थेति कर्माणि दर्श-
येत् ॥ २४ ॥
त्वयैवेदं कर्तव्यं, न ह्येतदृते कन्याया अन्येन कार्यमिति
गच्छन्तीं पुनरागमानानुबन्धमेनां विसृजेत् ॥ २५ ॥
त्वयैवेति । त्वया साधितं सिद्धिदं भवतीति पुनरागमानानुबन्धं-
पुनरागन्तव्यमित्येवंरूपम् ॥ २५ ॥
१८८ सटीक कामसूत्रे [ ३ अधिकरणे,
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥ २६ ॥
अस्येति । कन्यासाध्यस्य, त्रिरात्रं त्रिसंध्यं, प्रयुक्तिः = प्रयोगः, कार्यः ॥ २६ ॥
एतन्निर्देशे फलमाह—
अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ॥ २७ ॥
अभीक्ष्णेति । गोष्ठीमिति । कलानामाख्यायिकानां वा येन तदासक्ता चिरं तिष्ठेदित्यर्थः ॥ २७ ॥
अन्याभिरपि सह विश्वासनाथमधिकमधिकं चाभियुञ्जीत न तु वाचा निर्वदेत् ॥ २८ ॥
अन्याभिरिति । यथाऽयमेकोऽभियुञ्जीत, तथाऽन्याभिरपि स्त्रीभिः सहाधिकमधिकं, किमर्थमिति चेत् ? तद्विश्वासनार्थं, ताभिः कार्यं विश्वसिति, न तु स्वयं वाचा निर्वदेत् ॥ २८ ॥
को दोष इत्याह—
दूरगतभावोऽपि हि कन्यासु न निर्वेदेन सिद्ध्यतीति घोटकमुखः ॥ २९ ॥
दूरेति । अत्यर्थजातविस्रम्भोऽपि न सिद्ध्यति, बहुशोऽभियोगापेक्षणीयत्वात्कन्यानां, घोटकमुखग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात्॥२९॥
यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत ॥ ३० ॥
यदा त्विति । बहुसिद्धां बहुभिरभियोगैः, गान्धर्वेण विधिना श्रोत्रियागारादग्निमाहृत्येत्यादिना कार्योन्मुखीमुपक्रमेत ॥ ३० ॥
तत्र कालमाह—
प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति न च पुरुषं प्रत्याचक्षते तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः ॥ ३१ ॥
प्रदोष इति । रात्रिप्रारम्भे, निशि = रात्रौ त्रियामालक्षणायां, तत्राप्यन्धकारे प्रतार्थ; योषिद्ग्रहणं सर्वस्त्रीप्रतिपत्त्यर्थम्, मन्दसाध्वसाः कैश्चिददृश्यमानत्वाद्, सुखेन व्यवसायिन्यः सङ्केतदेशयायिन्यो रागवत्यः संप्रयोगाभिलाषिण्यो न प्रत्याचक्षते न निषेधन्ति तद्वचनानुष्ठानेन, तस्मात्तत्कालमिति । अत्यन्तसंयोगे द्वितीया, प्रयोजयितव्या योज्या वाञ्छितकार्येषु ॥ ३१ ॥
एकपुरुषाभियोगानां स्वसम्भवे गृहीतार्थया धात्रेयिकया स-