कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
४ अध्याये ] नागरकवृत्तप्रकरणम् । ४९
४ अध्याये ] नागरकवृत्तप्रकरणम् । ४९
केति । सहकारफलानां भञ्जनं यत्र क्रीडायाम्, अभ्यूषखादिका, चण-
कादिफलानां विटपास्थानामग्नौ प्लुषितानां खादनं यत्रेत्येते द्वे क्व
चित् क्व चिद् दृश्येते, बिसखादिका; बिसानां मृणालानां खादनं यत्र,
सरःसमीपवासिनां, नव(१)पत्रिका प्रथमवर्षेणेन प्ररूढनवपत्रासु वन-
स्थलीषु या क्रीडा सा; प्रायेणाटवीसमीपवासिनामाटविकानां च, उद्-
कक्ष्वेडिकेति ।
‘वंशनाडी स्मृता श्वेडा सिंहनादश्च कथ्यते’ इति ।
उदकपूर्णा श्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् ; यस्याः
शृ(२)ङ्गक्रीडेति प्रसिद्धिः, पाञ्चालानुयानम् भिन्नालापचेष्टितैः पाञ्चा-
(३)लक्रीडा यथा मिथिलायाम्, एकशाल्मली एकमेव महान्तं कुसु-
मनिर्भरं शाल्मलिवृक्षमाश्रित्य; तत् कुसुमाभरणानां क्रीडा यथा वैद-
र्भाणां, यवचतुर्थी वैशाखशुक्लचतुर्थ्यां नायकानां परस्परं सुगन्ध-
यवचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा, आलोलचतुर्थी श्रावणशुक्ल-
तृतीयायां हिन्दोलक्रीडा, मदनोत्सवो मदनप्रतिकृति(४)पूजनम्, दमन-
भञ्जिका परस्परं दमनकपुष्पावतंसन(५)म्, होलाका फाल्गुनपूर्णि-
मायां शृङ्गकादिमुक्तेन किंशुकादिकुसुमरागाम्भसा परस्परप्रोक्षणम् ;
मिथःपटवासप्रक्षेपश्च, अशोकोत्तंसिका अशोकपुष्पैः शिरोभूषणर-
च(६)ना, पुष्पावचायिका पुष्पावचयनक्रीडा, चूतलतिका चूतपल्ल-
वावतंसनम्, इक्षुभञ्जिका इक्षुखण्डमण्डनम्, कदम्बयुद्धानि कदम्बकु-
सुमैः प्रहरणभूतैर्द्विधा बलं विभज्य युद्धानि कदम्बग्रहणं सुकुमारप्र-
हरणसूचनार्थम् ; यष्टीष्टकाऽऽदियुद्धानि तु न कार्याणि यथा पौण्ड्राणां
युद्धं क्व चित् क्व चिद् दृश्यते, तास्ताश्चेति । या या लोके प्रवृत्तपूर्वाः,
माहिमान्य इति । महिमा महत्त्वं तद्विद्यते यासामिति ‘संज्ञायां मन्म-
भ्याम् ।५।२।१३७। इतीनिप्रत्ययः, सर्वदेशव्यापिन्य इत्यर्थः, देशे भवा-
देश्याः प्रादेशिन्य इत्यर्थः, जनेभ्यो विशिष्टमिति । घटाऽऽदयो नागर-
काणामेव, समस्यास्तु साधारण्यः; तत्र जना नागरकाश्च क्रीडन्ति, त-
स्मात्तेभ्यो विशिष्टमाचरेयुः, नागरत्वद्योतनार्थम्, संभूय क्रीडा इति ।
आसु नागरकाणां द्रष्टव्यमपहाय संभूय क्रीडनात् ॥ ४२ ॥
एकचारिणश्च विभ्रमसामर्थ्याद्; गणिकाया नायिकायाश्च स-
खीभिर्नागरकैश्च सह चरितमेतेन व्याख्यातम् ॥ ४३ ॥
(१) वृक्षोद्ग्राहक्कीडा ।
(२) ‘होली’ इति तद्देशप्रसिद्धं नाम ।
(३) पुत्तलिकाविवाहः ।
(४) चैत्रसितचतुर्दश्याम् ।
(५) चैत्रसितद्वादश्याम् ।
(६) चैत्रसिताष्टम्याम् । रचनेत्युपलक्षणमशोककलिकाऽऽस्वादस्यापि ।
७ का० सू०
५० सटीक कामसूत्रे [ १ अधिकरणे,
नागरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव चरति तस्य स्वविभवानुरूपेण परिचारकैः सह यक्षरात्र्यादयः समस्ता एव स्युः, एतेनेति। स्थानगृहव्यास नित्यनैमित्तिकविधिना यथासंभवं गणिकायानायिकायाश्च चरितं व्याख्यातम्, तत्र नागरकाणां स्थाने सख्यः, सखीनां स्थाने नागरका इति ॥ ४३ ॥
उपनागरकाणां लक्षणद्वारेण वृत्तमाह—
अविभवस्तु शरीरमात्रो मल्लिकाफेनकषायमात्रपरिच्छदः पूज्याद्देशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानमिति पीठमर्दः ॥ ४४ ॥
तुशब्दो विशेषणार्थः, यस्तु निष्किञ्चनो यथोक्तं नागरकवृत्तं वर्तितुमयोग्यः शरीरमात्रः पुत्रकलत्राद्यभावात् परिचारकद्वितीयो यथोत्पादितवित्ताभावाद्देशहिण्डनकः, मल्लिका दण्डासनिका, शरीरधारणात्पूर्वं नागरकाचार्यैः संकेतिता 'मल मल्ल धारणे' इति धातुपाठात् सा तस्य पृष्ठत एवासनार्थं भ्राम्यते, प्रवृत्तविषयेच्छत्वाच्च जङ्घाघर्षणार्थंफेनकषायाविति, तन्मात्रं परिच्छदो विभवो यस्येति, पीठिकाऽऽद्यासनं तु नार्हति, पूज्याद्देशाच्छास्त्रकलाविदध्युषितात्, तत्रत्य एव देशदिदृक्षयाऽऽगतः, कलासु कुशलः स्वदेश एव गीतादिचतुःषष्टिं पाञ्चालकीं चाधीतवान्, तदुपदेशेन=कलोपदेशेन, गोष्ठ्यां नागरकाणाम्, वेशोचिते=वेश्याजनोचिते वृत्ते, साधयेदात्मानमिति। आचार्यमात्मानन्निष्पादयेदित्यर्थः, स पीठमर्द उपदेशदानेऽधिकृतत्वान्मल्लिकाऽऽख्यं पीठं मृद्नातीति कृत्वा, एतेनाचार्यवृत्तमस्य वृत्तम् ॥ ४४ ॥
भुक्तविभवस्तु गुणवान् सकलत्रो वेशे गोष्ठ्यां च बहुमतस्तदुपजीवी च विटः ॥ ४५ ॥
यस्तु यौवने नागरकवृत्त्या परिभुक्तसर्वस्वोऽप्यनुपरतो विषयेभ्यः, सविभवस्तु नागरक एव स्यात्, तत्रत्यो नान्यस्माद्देशादागतः, भुक्तविभवस्त्वागन्तुकः, पीठमर्दात् स एव गुणवान्नायकगुणयुक्तः, प्राकस्य नागरकत्वात्, सकलत्रः सानुबन्धत्वान्न स्वदेशत्यागी, बहुमत इति। बहु मतं यस्यः विशेषपरिज्ञानात्, तदुपजीवी=वेश्यागोष्ठ्युपजीवी, वृत्तिमन्यामनिच्छन् वेश्याजनं नागरकजनं चोपजीवति, तदुपजीवितया तयोः सन्देशं परस्परं विटतीति विटः, 'विट शब्दे' इति धातुपाठात्, वक्ष्यति च-'विटः पुरोगं प्रीतिं कुर्याद्' इति, तेन तदुपजीविवृत्तमेवास्य वृत्तम्॥४५॥
एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषको वैहासिको वा ॥४६॥
४ अध्याये ] नागरकवृत्तप्रकरणम् । ५१
यस्तु गीतादीनां प्रदेशज्ञः सोऽविभवो भुक्तविभवो वा शरीरमात्रः सकलत्रस्तत्रत्य आगन्तुको वा, पूर्ववृत्तसम्भावात्, क्रीडनको विश्वास्यश्च भवति, वेशे गोष्ठ्यां च विश्वास्यतामुपगम्य परिहासशीलवृत्त्या वर्तत इत्यर्थः, स च वेश्यां नागरकं वा क्व चित्प्रमाद्यन्तं लब्धप्रणयत्वादपवदत इति विदूषकः, क्रीडनकत्वाच्च वेशे गोष्ठ्यां च विविधेन हासेन चरतीति वैहासिकः, इत्युपनायका ॥ ४६ ॥
एते वेश्यानां नागरकाणां च मन्त्रिणः सन्धिविग्रहनियुक्ताः ॥ ४७ ॥
एते नागरकाणां पार्श्ववर्तित्वादुपनागरका मन्त्रिण, सन्धिविग्रहनियुक्ता इति । सामान्यवृत्ते सन्धिविग्रहयोज्ञाने मन्त्रिणः कर्मणि सान्धिविग्रहिकाः, तथा हि—देशकालकार्यापेक्षया सन्धिविग्रहौ प्रधानगुणौ ज्ञानेनावधार्य; तत्कर्मसु प्रवर्तन्त इति ज्ञानकर्मरूपी सन्धिविग्रहौ ॥ ४७ ॥
तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः ॥ ४८ ॥
तैरिति । उभयात्मकैः, भिक्षुक्यः=भिक्षुकस्य भार्याः, मुण्डाः=मुण्डगुणयुक्ताः, वृषल्यः=बन्धक्यः, 'कलाविदग्धा' इति सर्वत्र योज्यम्, ताअपि सन्धिविग्रहयोज्ञाने कर्मणि च नियोक्तव्याः, ताश्च सन्धिविग्रहार्थकुट्टनाच्चालनात् कुट्टन्य इत्युच्यन्ते ॥ ४८ ॥
यात्रावशाद्ग्रामवासिनो वृत्तमाह—
ग्रामवासी च सजातानिवचक्षणान्कौतूहलिकान्प्रोत्साह्य; नागरकजनस्य वृत्तं वर्णयञ्छ्रद्धां च जनयंस्तदेवाऽनुकुर्वीत, गोष्ठीश्च प्रवर्तयेत्, सङ्गत्या जनमनुरञ्जयेत्, कर्मसु च साहाय्येन चानुगृह्णीयाद्, उपकारयेच्चेति नागरकवृत्तम् ॥ ४९ ॥
ग्रामवासी चेति । सजातान्=समानजातीयान्, तत्रापि विचक्षणान्=प्राज्ञान्, कौतूहलिकान्=कौतुकवतः, प्रोत्साह्य कथमित्याह—वृत्तं वर्णयन्नगर इत्थं गोत्रपुत्राणां लोकमनोहारि चेष्टितं श्रूयते, भवतामपि युक्तं वैचक्षण्यानुरूपं जीवितफलं तदनुकर्तुमिति श्रद्धां च जनयन्; यात्रामपि तद्दर्शनेन गोष्ठीश्च प्रवर्तयेत्, तैः सह सङ्गत्या जनमनुरञ्जयेत्, सङ्गतिर्मैत्रीभ्यामित्यर्थः; साहाय्येनानुगृह्णीयात्, यात्रोत्सवादिषु प्रवर्तमानमुपचारयंश्च परस्परमुपचरेत् ॥ ४९ ॥
तत्र चैषां काव्यसमस्याः कलासमस्याश्चेत्युक्तम्, तत्रविशेषमाह—
भवन्ति चात्र श्लोकाः—
नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
५२ सटीके कामसूत्रे [ १ अधिकरणे,
कथां गोष्ठीषु कथयँल्लोके बहुमतो भवेत् ॥ ५० ॥
नात्यन्तमिति । कश्चिदेव संस्कृतं वेत्ति देशभाषां च, कथां काव्यकलाविषयां चर्चाम् ॥ ५० ॥
या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी ।
परहिंसाऽऽत्मिका या च न तामवतरेद् बुधः ॥ ५१ ॥
या गोष्ठीति । यदा स्वयं गोष्ठीं न प्रवर्तयेत्तदाऽन्यप्रवर्तितां यायात्, तत्रापि या लोकविद्विष्टा=लोकस्यासंमता स्वैरविसर्पिणी=स्वातन्त्र्येण प्रवृत्ता निरङ्कुशेत्यर्थः परहिंसाऽऽत्मिका=परदूषणपरा, न तत्रावतरेद् बुधः, तत्र ह्यवतरणमबुधस्य दृश्यते ॥ ५१ ॥
लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया ।
गोष्ठ्या सह चरन्विद्वाँल्लोके सिद्धिं नियच्छति ॥ ५२ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः ।
कया सह विवरेदित्याह—लोकचित्तेति । लोकचित्तानुरञ्जनं क्रीडा च फलं गोष्ठ्याः, सिद्धिं नियच्छति प्राप्नोति, लोकसिद्धो भवति, किंपुनः स्त्रीष्वित्यर्थः, स्वयं गोष्ठीप्रवर्तनेऽप्ययमेव विधिः ॥ ५२ ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
गार्हस्थ्यमधिगम्येति ससहायस्योपक्रमा इति दूतानां संप्रेषणमित्युक्तम्, तत्र को नायकः ? कया नायिकया गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तेत ? कैश्च सहायैः? किं च दूतस्य कर्मेति ? तेषां विमर्शो निरूपणमिति नायकसहायदूतककर्मविमर्श उच्यते. नायक इति 'पुमान्स्त्रिया' ।१।२।६८। इत्येकशेषनिर्देशान्नायकयोरित्यर्थः, दूतकर्मेति । दूत्या दूतस्य चेत्यर्थः, तत्र बहु वक्तव्यत्वात्प्राङ् नायिका फलतोऽन्यकारणतश्च विमृश्यते-
कामश्चतुर्षु वर्णेषु सवर्णतः शास्त्रतश्चानन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति ॥ १ ॥
कामश्चतुर्ष्विति । सवर्णत इति । यथा ब्राह्मणेन ब्राह्मण्याम्, यथा च शूद्रेण शूद्रायाम्, शास्त्रत इति । शास्त्रोक्तेन वरणादिना विवाहविधानेन, अनन्यपूर्वायां=भार्यात्वेनाधिगतायाम्, प्रयुज्यमानः=प्रवर्त्यमानः, पुत्री-
५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५३
यः=औरसस्य पुत्रस्य निमित्तम् , 'पुत्राच्छ च' ।५।१।४०। इति छप्रत्ययः, यथोक्तम्—
'स्वक्षेत्रे संस्कृतायां तु सुतमुत्पादयेद् द्विजः ।
तमौरसं विजानीयात् पुत्रं प्रथमकल्पिकम्' ॥ इति ॥
तत्र स्वक्षेत्रं सवर्णः, यशस्यः=यशोनिमित्तम्, गोद्यचः-'।५।१।३६। इत्यादिना यत्, अत्र च यद्यपि कामो न संयोगस्तथाऽपि स्त्रीपुंसयोर्योगे कामशब्द उपचरितः, तत्पूर्वकत्वात्कामस्येति भवति तत्पर्यायः, लौकिकश्च लोके विदितः, तद्बाह्य इत्यर्थः ॥ १ ॥
तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च प्रतिषिद्धः ॥२॥
उत्तमवर्णास्विति । क्षत्रियेण ब्राह्मण्याम् , वैश्येन ब्राह्मणीक्षत्रिययोः, शूद्रेण ब्राह्मणीक्षत्रियावैश्यास्वनन्यपूर्वास्वपि प्रयुज्यमानः परपरिगृहीतासु चान्योढासु सवर्णास्वपि कामो विपरीत:, न पुत्रीयः, न यशस्यः, न लौकिकश्च, एवंविधः प्रतिषिद्धः सुखार्थोऽपि न परपरिगृहीतासु, एकान्तेन धर्मविरोधित्वात् ॥ २ ॥
अवरवर्णास्वनिरवसितासु वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः सुखार्थत्वात् ॥ ३ ॥
अवरवर्णास्विति । ब्राह्मणस्यावरवर्णाः क्षत्रियावैश्याशूद्राः, क्षत्रियस्य वैश्याशूद्रे, वैश्यस्य शूद्रा, शूद्र एकजातिः, तस्य स्वजात्यपेक्षयाऽवरवर्णाः, तत्रापि यद्यनिरवसिताः पात्राद्बहिष्कृता इत्यर्थः, सन्त्येव हि काश्चित्क्षत्रियादयो याभिर्भुक्तं पात्रं न संस्कारमात्रेण शुद्ध्यति ता एवंविधा बाह्याः, तथा चोक्तम्—
'शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञश्च ताश्च स्वां चाग्रजन्मनः' ॥ इति ।
तासु च बाह्यास्वपि, पुनर्भूष्विति । या अन्यपूर्वाः क्षतयोनयो विधवाइन्द्रियदौर्बल्यादन्यस्य पुनर्भर्वन्ति तासु स्त्रीकृतासु, वेश्यासु च सामान्यस्त्रीषु प्रयुज्यमानो न शिष्टो न विहितः, तत्र सवर्णामपरिगृह्य, तत्परिग्रहस्यानभिहितत्वात् , परिगृह्यापि न प्रतिषिद्धः, सुखार्थत्वात् , तदानीं सुखार्थैव प्रवृत्तिः, न पुत्रार्था, तत्रावरवर्णासूढासु ये पुत्रा- न तेषामौरसत्वम् , पुत्रकार्याकरणात् , पुनर्भूषु वेश्यासु च पुत्रा नैव नास्तीति द्विविधं फलम् ॥ ३ ॥
तत्र नायिकास्तिस्रः कन्या पुनर्भूवेश्या च ॥ ४ ॥
तत्र=तस्मिन् फलविभागे, तिस्रो नायिकाः—कन्या, पुनर्भूः, वेश्या चेति । तत्र कन्या द्विविधा—पुत्रफला, सुखफला चेति, पूर्वा सवर्णा
५४ सटीक कामसूत्रे [ १ अधिकरणे,
श्रेष्ठा, द्वितीयाऽधमवर्णा न्यूना, तस्या अपि न्यूना पुनर्भूः, स्वीकारेऽप्यन्यपूर्वत्वात्, अस्या वृत्तं भार्याऽधिकारिके वक्ष्यति, या त्वक्षतयोनिः पुनरुह्यते सा कन्या एव, यथोक्तम् —
'पुनरक्षतयोनित्वादुह्यते या यथाविधि ।
सा पुनर्भूसूतस्तस्यां पौनर्भव उदाहृतः' ।
ततोऽपि वेश्या न्यूना सामान्यत्वात् ॥ ४ ॥
अन्यस्मात्कारणाद्विमर्शमाह —
अन्यकारणवशात्परपरिगृहीताऽपि पाक्षिकी चतुर्थीति गोणिकापुत्रः ॥ ५ ॥
अन्यकारणवशादिति । पुत्रात्सुखाच्च यदन्यत्कारणं तद्वशात् , पाक्षिकीति । यदा कारणान्तरं तदा तस्मिन्पक्षे भवतीति पाक्षिकी, अन्यदा तु नैवेति बाभ्रव्यमतमनुसृत्याह—गोणिकापुत्रोऽपि पारदारिकं पृथक् कामसूत्रं प्रोवाचेत्युक्तम् ॥ ५ ॥
तत्र विषयशुद्ध्यर्थमाह—
स यदा मन्यते स्वैरिणीयमन्यतोऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायामिव गमनमुत्तमवर्णिन्यामपि न धर्मपीडां करिष्यति ॥ ६ ॥
स इति । नायकः, मन्यतेऽधिगच्छेदित्स्वैरिणीयम् , स्वैरिणी=स्वतन्त्रा, तदेव दर्शयति—अन्यतोऽपीति । यथा मामभियुञ्जाना शीलं खण्डयति, तथाऽन्येष्वपि बहून् वारान् , व्यवसितचारित्रा=खण्डितशीला, ततश्च वेश्यातुल्या, वेश्यायामिव, 'पुनर्भूषामिव' इत्याम्नायः पाठः, यत एकस्माद् द्वितीयं प्राप्ता पुनर्भूः, सा च न बहुशः खण्डितचारित्रेति न समानो दृष्टान्तः, उत्तमवर्णिन्यामिति । किमसवर्णाधमवर्णयोरेवं वर्ण्यते ? तत्रापि न दोषः, यथोक्तम्—
'जीवकार्मुकवस्त्रावीन् दद्यादात्मविशुद्धये ।
चतुर्णामपि वर्णानां नारीर्हत्वाऽव्यवस्थिताः ॥' इति ।
अस्यार्थः—ब्राह्मणीं स्वच्छन्दवृत्तिं हत्वा जीवञ्चर्मपुटं ब्राह्मणाय दद्यात्, क्षत्रियां कार्मुकम्, वैश्यां वस्त्रम्, शूद्रामविमिति, यत्र हिंसाऽपि परिफल्गुदोषा तत्राभिगमनं न कस्यापि धर्मोपघाति स्यादित्याह—गमनमपि कारणवशात् क्रियमाणं न धर्मपीडां करिष्यति, अधर्मस्याभावात् ॥ ६ ॥
पुनर्भूरियं कथमित्याह—
पुनर्भूरियमन्यपूर्वाऽवरुद्धा नात्र शङ्काऽस्ति ॥ ७ ॥