सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

३२८ सटीकेकामसूत्रे [ ६ अधिकरणे,

३२८ सटीकेकामसूत्रे [ ६ अधिकरणे,

प्रकाशविनष्टा या जीवति मृते वा पत्यौ संग्रहधर्मेण गृहीता कामचारं प्रवर्तते, एताः षड् रूपाजीवायामेवान्तर्भवन्तीति वेश्याविशेषा इति वेशेन सम्पठ्यन्ते ॥ ५४ ॥

सर्वासां चानुरूप्येण गम्याः सहायास्तदुपरांजनमर्थागमोपाया निष्कासनं पुनःसन्धानं लाभविशेषानुबन्धा अर्थानर्थानुबन्धसंशयविचाराश्चेति वैशिकम् ॥ ५५ ॥

सर्वासामिति । आनुरूप्येणेति । आत्मनो हीनमध्यमोत्तमापेक्षयेत्यर्थः, तदुपरांजनमिति । कान्ताऽनुवृत्तम्, पुनःसन्धानमिति । विशीर्णप्रतिसन्धानं, वैशिकमिति । वेशो वेश्याजनोचितं वृत्तं दत्तकाचार्यदर्शनेन षड्विधं सहायग्रहणं गम्यपरीक्षणमनुरंजनमर्थादानं निष्कासनं विशीर्णप्रतिसन्धानं चेति, बाभ्रव्यमतेन दर्शनेनाष्टविधं शेषाभ्यां सह तत् प्रयोजनमस्येति वैशिकम् ॥ ५५ ॥

ननु च शतायुः पुरुषो विभज्य कालं त्रिवर्गं सेवेतेत्युक्तं, ततश्च तस्यैवात्र शास्त्रोपदेशो युक्तो न योषित इत्याह—

भवतश्चात्र श्लोकौ—

रत्यर्थाः पुरुषा येन रत्यर्थाश्चैव योषितः ।
शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम् ॥ ५६ ॥

रत्येति । रतिरर्थः प्रयोजनं तुल्यं शास्त्रस्यार्थप्रधानत्वात्, तेनोपदिश्यत इति कृत्वा योगोऽत्र योषितामधिकार इत्यर्थः ॥ ५६ ॥

सन्ति रागपरा नार्यः सन्ति चार्थपरा अपि ।
प्राक्तत्र वर्णितो रागो वेश्यायोगाश्च वैशिके ॥ ५७ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः ।

**ताश्च द्विविधाः—**रागपरा अर्थपराश्च, तत्र पूर्वासां प्रणीतो रागः— कन्यासांप्रयुक्तकभार्याऽधिकारिकपारदारिकैस्त्रिभिरधिकरणैस्तासां रागपरत्वात् तदनुरूपमेव वृत्तमुक्तं, वेश्यायोगाश्चेति । वेश्यानां सत्यपि रत्यर्थेऽर्थपरत्वाद् वैशिकेऽधिकारः, तासां हि पुरुषाधिगमे रतिर्वृत्तिश्च सर्गादिति ॥ ५७ ॥

इत्यर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्चाष्टापञ्चाशत्तमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणेऽर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः ।

समाप्तं चेदं वैशिकं नाम षष्ठमधिकरणम् ।

औपनिषदिकं नाम सप्तममधिकरणम् ।

प्रथमोऽध्यायः ।

शास्त्रकार एवाधिकरणसम्बन्धमाह —

व्याख्यातं कामसूत्रम् ॥ १ ॥

व्याख्यातमिति। कामसूत्रमिति। तन्त्रावापात्मकं, साधारणं तु तदङ्गत्वोदुभयात्मकम् ॥ १ ॥

तदुक्तैस्तु विधिभिरभिप्रेतमर्थमनधिगच्छन्नौपनिषदिकमाचरेत् ॥२॥

तदुक्तैरिति। तदुक्तैः = तन्त्रावापोक्तैः, अभिप्रेतमनधिगच्छन्निति। ईप्सितमप्राप्नुवन्, औपनिषदिकमित्यभिधाकमात्मनो विधेयमिति ॥२॥

सुभगङ्करणमुच्यते —

रूपं गुणो वयस्त्याग इति सुभगङ्करणम् ॥ ३ ॥

रूपमिति। रूपं वर्णसंस्थानं सहजम्, इतरदनित्यं नित्यस्नानं द्वितीयमुत्सादनमित्यादि संस्कारवशाच्चेतोहारि भवति, गुणा ये नायकस्योक्तास्ते विरूपमपि सुभगङ्कुर्वन्ति, अतस्तेषु यत्नः कार्यः, वय इति। यौवनं सर्वकार्यसमर्थं तत् पुनस्तन्मतेन स्थिरं कार्यं वार्धक्ये हि पलितइति; अनादरो विशेषतः स्त्रीणां तदपि केशरजन्नादिसंस्कारापाते वैमुख्यं नोत्पादयति, त्याग इति। दानन्तत्सर्वं बाधते यतो विरूपो निर्गुणो वृद्धो वा दाता सर्वैरेवाभिगम्यते ॥ ३ ॥

यत्र रूपादयो न सन्ति तत्र विधिमाह —

तगरकुष्ठतालीशपत्रकानुलेपनं सुभगङ्करणम् ॥ ४ ॥

तगरेति। तगरन्तु कन्दमौत्तरापथिकं न नेपालभवं, कुष्ठं यच्छ्वेतं,- तालीशपत्रकम्प्रतीतम्, एतैरनुलेपनं शरीरस्य ॥ ४ ॥

एतैरेव सुपिष्टैर्वर्तिमालिप्याक्षतैलेन नरकपाले साधितमञ्जनं च ॥५॥

एतैरेवेति। वर्तिमालिप्य दुकूलमयीम्, अक्षतैलेन = बिभीतकतैलेन, साधितमिति। नरकपाले पातितमित्याम्नायः, कज्जलं तेन स्नेहेन योज्यं, सुभगङ्करणमिति सर्वत्र योजनीयम् ॥ ५ ॥

पुनर्नवासहदेवीसारिवाकुरण्टकोत्पलपत्रैश्च सिद्धं तैलमभ्यञ्जनम् ॥ ६ ॥

४२ का० सू०

३१० सटीक कामसूत्रे [ ७ अधिकरणे,

पुनर्नवेति । पुनर्नवा, सहदेवी = दण्डोत्पलकं, सारिवेति उत्पलशा-
रिखा ग्राह्या, कुरण्टकः प्रतीतः, उत्पलपत्रमिति, यदाभ्यन्तरं न बाह्यं,
शेषाणां मूलं, सिद्धमिति । तैलविधानेन पक्वम्, एतैरेव कषायं कल्कं च
कृत्वा, तैलमिति । तिलानाम्, अभ्यञ्जनं सुभगङ्करणम् ॥ ६ ॥

तद्युक्ता एव स्रजश्च ॥ ७ ॥

तद्युक्ता इति । पुनर्नवादिचूर्णयुक्ताः स्रजो धारिताः सुभगङ्करणम् ॥७॥

पद्मोत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्यामवलिह्य सुभगो भवति ॥ ८ ॥

पद्मोत्पलेति । नाग इति नागकेसरः, पद्मादीनाङ्केसराण्येकीकृत्य संचू-
र्ण्य, अवलिह्येति । वमनविरेचनं कृत्वा तत्रापि न तदैव सुभगो मासा-
दूर्ध्वं दृष्टशक्तिः ॥ ८ ॥

तान्येव तगरताळीसतमालपत्रयुक्तान्यनुलिप्य ॥ ९ ॥

तान्येवेति । पद्मादिकेसराणि तगरादियुक्तानि, अनुलिप्येति । अनु-
लेपनं कृत्वा शरीरस्य, सुभगो भवति ॥ ६ ॥

मयूरस्याक्षि तरक्षोर्वा सुवर्णेनावलिप्य दक्षिणहस्तेन धारये-
दिति सुभगङ्करणम् ॥ १० ॥

मयूरस्येति । यो न विशीर्णबर्हः, तरक्षोर्वेति । यो मत्तः स हि ग्रीष्मे
माद्यति, अश्नीति । दक्षिणं वामं च ग्राहन्द्वयोरेव सामर्थ्यमित्याम्नायः,
सुवर्णेनावलिप्येति । शुद्धसुवर्णपत्रेण पुष्ययोगेन वेष्टयित्वा ॥ १० ॥

बादरमणिं शङ्खमणिं च तथैव तेषु चाथर्वणान् योगान् ग-
मयेत् ॥ ११ ॥

बादरमणिमिति । बदरस्य बदरीवृक्षस्योत्तरशिफाघटितां वृत्तगुलि-
कां, शङ्खमणिमिति । दक्षिणावर्तशङ्खनाभिघटितां, तथैवेति । सुवर्णेनाव-
लिप्य हस्तेन धारयेत्, तेषु चेति । धारणाद्योगेषु, आथर्वणानीति । अथ-
र्ववेदे बहवो धारणाद्योगा उक्ताः ॥ ११ ॥

विद्यातन्त्राच्च विद्यायोगात् प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रमन्यतो वारयेत् ततो वारितां बालां वामत्वालूलाल-
सीभूतेषु गम्येषु योऽस्यै संघर्षेण बहु दद्यात्तस्मै विसृजेदिति सौ-
भाग्यवर्द्धनम् ॥ १२ ॥

विद्यातन्त्रेति । मन्त्रवादात्तत्रापि भूर्जपत्रलिखितविद्याधारणयोगाः,

१ अध्याये ] सुभगंकरणप्रकरणम् । ३३१

अनुष्ठानविशेषोऽपि क्व वित्तसौभाग्यनिबन्धनमित्याह-प्राप्तयौवनामिति । या बाह्य इवानन्यपूर्वा स्वामिनं परिचरति तां तरुणीमन्यतो वारयेद्रक्षयेद्, यथान्यैर्नाभिगम्येत स्वयन्त्वभिगच्छेदित्यर्थोक्तं, तत इति । तस्यावारितत्वाद्, वामत्वादिति । रक्षणयोगात् कामिनो वारिताः कौतूहलात्प्रतिकूला भवन्ति, ततश्च तेषु लालसीभूतेषु = अत्यन्तं गृध्नुषु, योऽस्यै परिचारिकायै, संधर्षेणेति । स्पर्द्धया, बहु द्रव्यं दद्याद् दुर्लभं हि प्रियमन्वितं च भवतीति प्रायोवादः, विसृजेदिति । अभिगन्तुन्दद्याद्, विशेषतो वेश्यापाणिग्रहणेऽपि विधिः सौभाग्यनिबन्धनं,पाणिग्रहश्च द्विविधः, यथोक्तं—

'दैवमानवभेदेन वेश्याविवहनं द्विधा ।
दैवं मन्मथकाण्डेन गम्येनाप्यपरं भवेद्' इति ॥ १२ ॥

तत्र मानुषमधिकृत्य विधिमाह—

गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदमिदं च दद्यात्स पाणिंगृह्णीयादिति संभाष्य रक्षयेदिति ॥ १३ ॥

गणिकेति । प्राप्तयौवनां रक्षयेदिति सम्बन्धः, तस्या इति । स्वदुहितुः, यादृशं रूपादि तदानुरूप्येणेति तत्सदृशः, तानिति । दुहितुर्ये गम्याः, अभिनिमन्त्र्य सारेणेति । विभवेन स्वेनाभिमुख्येन स्वगृहे निमन्त्र्य योऽस्यै दुहित्रे, इदमिदञ्चेति । ईप्सितमाह, संभाव्येति । सम्भावयेदित्युक्त्वा, रक्षयेत् पण्यधर्मत्वात् ॥ १३ ॥

सा च मातुरविदिता नाम नागरिकपुत्रैर्धनिभिरत्यर्थं प्रीयेत ॥१४॥

सा चेति । दुहिता, अविदिता नामेति । यथैते जानन्त्यस्मास्वनुरक्तेयं-येन रक्ष्यमाणाऽपि मातुरविदितवागच्छतीति, धनिभिर्नान्यैर्निरर्थकत्वाद्, प्रीयेत = प्रीतिं कुर्यात् ॥ १४ ॥

प्रीतिश्च दर्शनपूर्विका दर्शनं च विशिष्टे देशे काले चेत्याह—

तेषां कलाग्रहणे गान्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ॥ १५ ॥

तेषामिति । कलाग्रहणकाले, गान्धर्वशालायामिति । यत्राचार्यो नृत्यगीतं शिक्षयति, भिक्षुकीभवन इति । भिक्षुक्यादिः कलाविदग्धोपगम्यते, तत्र तत्र चेति । सरस्वतीभवनोद्यानादिषु ॥ १५ ॥

तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ॥ १६ ॥

तेषामिति । प्रीत्यनुबद्धानामिति, यथोक्तदायिनामिति । मात्रा यत्सं-

३३२ सटीके कामसूत्रे [ ७ अधिकरणे,

भाषितं तद्दायिनां, पाणिं ग्राहयेदिति । देशप्रवृत्तिरनुसर्तव्या ॥ १६ ॥

तावदर्थमलभमाना तु स्वेनाप्येकदेशेन दुहित्र एतद्दत्तमेनेति ख्यापयेत् ॥ १७ ॥

तावदिति । यावत्प्रमाणं संभाषितमलभमाना पाणिग्रहणादूर्ध्वं, स्वेनापीति । आत्मीयेन, एकदेशेनेति । सम्भाषितार्थपादमात्रक्रमेन दत्तं तावतैकदेशेन संयोज्य ख्यापयेत् सौभाग्यख्यापनार्थम् ॥ १७ ॥

ऊढाया वा कन्याभावं विमोचयेत् ॥ १८ ॥

ऊढाया वेति । दैवेन विवाहेन योजिताया इत्यर्थः, कन्याभावं विमोचयेदिति । पूर्वेणैव प्रकारेण कौमारं हारयेदित्यर्थः, तेन प्राप्तयौवनामूढां स्वदुहितरमित्यादि सर्वं योज्यं, विशेषोऽत्र स पाणिं गृह्णीयादित्यस्य स्थाने स कौमारकं हरेदिति, यथोक्तदायिनं ग्राहयेदित्यस्य स्थाने कौमारकं हारयेदिति ॥ १८ ॥

प्रच्छन्नं वा तैः संयोज्य स्वयमजानती भूत्वा ततो विदितेष्वेतं धर्मस्थेषु निवेदयेत् ॥ १९ ॥

प्रच्छन्नं वेति । योऽभिप्रेतः कन्याभावं विमोचयेत्, तेन प्रच्छन्नं संयोज्य, अजानती भूत्वेति । न मयाऽनुज्ञातमिति दर्शनार्थम्, एवं च सति तत उत्तरकालं विदितेषु धर्मस्थेष्वेतं निवेदयेद्, अभिसम्भाषितमर्थं येन दद्यादित्यभिप्रायः, तावदलभमाना तु स्वेनाप्येकदेशेनेति, तत्रापि योज्यम् ॥ १९ ॥

यस्यास्तु न कश्चित् कन्याभावं मोचयति, तत्र विधिमाह—

सख्यैव तु दास्या वा मोचितकन्याभावां सुगृहीतकामसूत्रामाभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरमवसृजन्ति गणिका इति प्राच्योपचाराः ॥ २० ॥

सख्यैव त्विति । दास्या वा कुशलया, मोचितकन्याभावामिति । अङ्गुलिकर्मणा हारितकौमारविधिं, कथमेवं सौभाग्यमिति चेदत्राह—सुगृहीतकामसूत्रामिति । आभ्यासिकेषु बाडवकादिषु प्रतिष्ठितां शिक्षितां वयसि तारुण्ये प्रतिष्ठितां यदा रूपयौवनवती विदग्धैरभिपतन्ति नागरिकाः, तदा सौभाग्ये प्रतिष्ठितेत्यवसृजन्ति व्यवहारे प्रवर्तयन्ति, प्राच्योपचारा इति । व्यवहारात् पूर्वकालिको विधिर्यत् कन्याभावमोचनम् ॥ २० ॥

पाणिग्रहश्च संवत्सरमव्यभिचार्यस्ततो यथा कामिनी स्यात्॥२१॥

१ अध्याये ] वशीकरणप्रकरणम् । १३३

पाणिग्रह इति । यः पाणिं गृहीतवान्, गृह्णातीति ग्रहः पाणेग्रह इति समासः, अव्यभिचार्य इति । संवत्सरं तेनैव सह वसेत्, तत इति । संवत्सरादूर्ध्वं, यथा कामिनीति । यथेप्सिता कामयते, वेश्याधर्मस्थितत्वात् ॥ २१ ॥

ऊर्ध्वमपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभमप्युत्सृज्य तां रात्रिं तस्यागच्छेदिति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च ॥ २२ ॥

ऊर्ध्वमिति परिणीतेनेति । गृहीतपाणिना, निमन्त्र्यमाणेति । अद्य रात्रौ मया सह शयितव्यमिति, लाभमुत्सृज्य; अन्यस्मादु भवन्तमपि, सौभाग्यवर्द्धनं चेति । एवं च कृत्वा पुनरभियातव्यमिति वैशिकेनोक्तम् ॥२२॥

एतेन रङ्गोपजीविनां कन्या व्याख्याताः ॥ २३ ॥

रङ्गोपजीविनामिति । नटादीनाम् ॥ २३ ॥

विशेषमाह—

तस्मै तु तां दद्युर्य एषां तूर्ये विशिष्टमुपकुर्यात् ॥ २४ ॥
इति सुभगङ्करणम् ।

तूर्य इति । नृत्यविधौ विशिष्टमुपराजयेद् नृत्यगीतादिभिः ॥२४॥

इति सुभगङ्करणमेकोनषष्टितमं प्रकरणम् ।

एवं लोकप्रियतामात्मनो विहितवतोऽभिप्रेतसिद्धयर्थं वशीकरणमुच्यते—

धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य सम्प्रयोगो वशीकरणम् ॥ २५ ॥

धत्तूरकेति । धत्तूरकबीजानि, चूर्णैरिति । समीकृतानाम्, मधुमिश्रैरिति । माक्षिकमधुमिश्रैः, यथा न च प्रयोज्या जानाति लिप्तलिङ्गोमामभिगच्छतीति ॥ २५ ॥

वातोद्ध्रान्तपत्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् ॥ २६ ॥

वातोद्ध्रान्तपत्रं वामहस्तेन ग्रहीतव्यं, मृतकनिर्माल्यं यत्तदुरसि स्थितं, मयूरास्थि जीवजीवकास्थि न केकिसम्बन्धि ग्राह्यमेषां चूर्णेनावचूर्णनं स्त्रीणां शिरसि पुरुषाणां पादयोः ॥ २६ ॥

स्वयं मृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् ॥ २७ ॥

३३४ सटीके कामसूत्रे [ ७ अधिकरणे,

स्वयं मृताया इति । तस्या एव कार्यकारणाद्, मण्डलकारिकायाः = गृध्र्याः, मण्डलकारिकाया इति, या मण्डलेन पानीये सङ्घशो- भ्रमन्ति ॥ २७ ॥

वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषा- णचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्त- लिङ्गस्य सम्प्रयोगो वशीकरणम् ॥ २८ ॥

वज्रस्नुहीति । या सान्निः, गण्डकानि खण्डश इति । खण्डं खण्डं कृतानि, सप्तकृत्व इति । सप्तवारान् ॥ २८ ॥

एतेनैव रात्रौ धूमं कृत्वा तद्धूमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति ॥ २९ ॥

एतेनैवेति । चूर्णेन सौवर्णं दर्शयति विस्मापनमेतत्प्रासङ्गिकम् ॥ २९ ॥

एतैरेव चूर्णितैर्वानरपुरीषमिश्रितैर्यां कन्यामवकिरेत्साऽन्य- स्मै न दीयते ॥ ३० ॥

एतैरेवेति । वज्रस्नुह्यादिचूर्णैः, वानरपुरीषमिश्रितैरिति । जातमुख- रागो यो वानरः, तस्य पुरीषेणेत्याम्नायः ॥ ३० ॥

वचागण्डकानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धमुत्कीर्य षण्मासं निदध्यात् ततः षड्भिर्मासैरपनीतानि देवकान्तमनुलेपनं वशीकरणं चेत्याचक्षते ॥ ३१ ॥

वचेति । वचागण्डकानि श्वेताया वचायाः, वृक्षस्कन्धमिति । यतः- शाखा निःसृता, देवकान्तं = देवप्रियं, वशीकरणं चेति । स्वहृदयान्मूल- मुत्पाद्य योजितमित्याम्नायः, केवलं त्वात्मनोऽनुलेपनं सुभगङ्करणं न वशीकरणम् ॥ ३१ ॥

तथा खादिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य ष- ण्मासं निदध्यात्तत्पुष्पगन्धानि भवन्ति गन्धर्वकान्तमनुलेपनं वशी- करणं चेत्याचक्षते ॥ ३२ ॥

तथेति । सहकारतैललितानीति वर्त्तते, यं वृक्षमिति । सुरभिकुसु- ममुत्कीर्य, स्कन्धदेश इत्युत्तरत्रापि योज्यम् ॥ ३२ ॥

प्रियङ्गवस्तगरमिश्राः सहकारतैलदिग्धा नागवृक्षमुत्कीर्य ष- ण्मासं निहिता नागकान्तमनुलेपनं वशीकरणमित्याचक्षते ॥ ३३॥

प्रियङ्गव इति । प्रियङ्गुकुसुमानि, तगरमिश्रा इति । कौरण्टकेन तुल्यभा-