सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

६ अध्याये ] संवेशनप्रकरणम् । ११९

६ अध्याये ] संवेशनप्रकरणम् । ११९


यकस्य कटिरुपधानिकायां तिष्ठेद्, नायिकायाश्च शयनीये, अन्यथा शयनीयस्थयोर्द्वयोः कटिभागयोर्विश्लेषाद्यन्त्रं कदा चिद्विघटेत, कात्यायनस्तु संपुटकमन्यथा प्राह—

'कुञ्चितस्तननार्यूरूसंक्रान्तनृकटिः पुरः ।
त्र्यस्रस्थनरयोगात्तु संमुखः संपुटः स्मृतः' ॥ इति,

अत्रासंहतोरुत्वज्जघनावह्वासो न संभवति, अतो न नीचरते हस्तिन्याः, समरते तु स्याद्, यथास्थितोरुकतयाऽस्य लौकिकत्वात् ॥ १६ ॥

पार्श्वेन तु शयानो दक्षिणेन नारीमधिशयीतेति सार्वत्रिकमेतत् ॥ १७ ॥

पार्श्वेन तु शयान इति । निद्रां गन्तुं, दक्षिणेन नारीमिति । एनपा योगे द्वितीया, नार्या दक्षिणे भाग आत्मनो वामेन पार्श्वेनासनपरिणता शयनीमधिशयीतेत्यर्थः, सार्वत्रिकमिति । सर्वास्वेव मृग्यादिनायिकास्वयं निद्राकाले भवत्यविरोधाद्, रतकाले तु तद्विपरीतो हस्तिन्या एव संकोचहेतुत्वाद्, वामहस्तेन तत्र गुह्यस्पर्शनादौ शिष्टानुज्ञातत्वात् ॥ १७ ॥

संपुटकप्रयुक्तयन्त्रैव दृढमूरू पीडयेदिति पीडितकम् ॥ १८ ॥

संपुटकप्रयुक्तयन्त्रैवेति । उत्तानसंपुटे पार्श्वसंपुटे वा, तत्प्रयुक्तयन्त्रा नायिका दृढं द्वावूरू परस्परं पीडयेत्ततोऽतिपीडनात्सं mudटकमेव पीडितकमिति संवृताकारं भवतीति ॥ १८ ॥

ऊरू व्यत्यस्येदिति वेष्टितकम् ॥ १९ ॥

संपुटकप्रयुक्तयन्त्रैवेत्यर्थः । तत्राप्युत्तानसंपुटके वामं दक्षिणतो नयेद् दक्षिणं वामत इति, तदेवं परस्परोरुवेष्टनाजघनं पूर्वस्मात्संवृततरं भवति, तत्र स्वभावेन सिद्धत्वात् ॥ १९ ॥

बडवेव निष्ठुरमवगृह्णीयादिति बाडवकमाभ्यासिकम् ॥ २० ॥

निष्ठुरं=निश्चलम्, अवगृह्णीयात् संबाधौष्ठपुटेन साधनमित्यर्थः, बाडवकं=बडवाया इदं कर्म, आभ्यासिकं, सहसा सम्प्रयोगे प्रयोक्तुमशक्यत्वात् ॥ २० ॥

तदान्ध्रीषु प्रायेणेति संवेशनप्रकारा बाभ्रवीयाः ॥ २१ ॥

आन्ध्रीषु प्रायेण दृश्यते, तासां यत्नपरत्वात्, तस्याभ्यासोपायश्च संप्रदायनिरूप्यः, ततोऽभ्यासात्तन्निरपेक्षग्रहणमिति, बाभ्रवीयाः=बाभ्रव्येण प्रोक्ताः, सप्तैव संवेशनप्रकाराः ॥ २१ ॥

अनेन विकल्पवर्गस्य न्यूनतामाह—

सौवर्णनाभास्तूभावप्यूर ऊर्ध्वाविति तदुद्यकम् ॥ २२ ॥

१२० सटीक कामसूत्रे [ २ अधिकरणे,

सौवर्णनाभास्तु । हस्तिन्या इति वर्तते, सुवर्णनामेन प्रोक्ताः, अनेन द्वैविध्यमाह, उत्ताना नायिका द्वावप्यूरू संश्लिष्टावूर्ध्वावेवावस्थापयेद्, नायकोऽपि जान्वन्तरेण दोर्भ्यां तावाश्लिष्योपसर्पेत्, तद् भुग्नकमिति, ऊर्वोरूर्ध्वं निःसृतत्वात् ॥ २२ ॥

चरणानूर्ध्वं नायकोऽस्या धारयेदिति जृम्भितकम् ॥ २३ ॥

चरणानूर्ध्वमिति । नायिकाजानुसंधी स्कन्धयोर्विन्यस्य, चरणानू- र्ध्वं नायकेन धारितौ भवत इति जृम्भितकम् ॥ २३ ॥

तत्कुञ्चितावुपपीडितकम् ॥ २४ ॥

तत्कुञ्चितौ । धारयेदित्येव, नायकोरसि चरणौ निदध्याद् , नाय- कोऽपि बाहुपाशेन नायिकाया ग्रीवामावेष्ट्योपसर्पेद्, एवं चरणानूर्ध्वं- संकुचितावधस्तादुरसा धारितौ स्यातां, द्वयोरुरसि पीडनादु- ष्पीडितकम् ॥ २४ ॥

तदेकस्मिन्प्रसारितेऽर्धपीडितकम् ॥ २५ ॥

तदिति । पीडितकम्, एकस्मिंश्चरणे प्रसारिते व्यत्यासेनेति द्विती- यमप्यर्धपीडितकम् अर्धपीडनात् ॥ २५ ॥

नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्य- त्यासेन वेणुदारितकम् ॥ २६ ॥

नायकस्यांसे स्कन्धे वामश्चरणः स्थितः, क्षणादनु तदधस्तात्प्रसा- रित इत्येकम्, पुनर्व्यत्यासेन दक्षिणस्कन्धे वामः प्रसारित इति द्विती- यं, वेणुदारितकमिति । वंशस्येव दारणां पाटनम् ॥ २६ ॥

एकः शिरस उपरि गच्छेद्वितीयः प्रसारित इति शूलाचित- कमाभ्यासिकम् ॥ २७ ॥

एक इति । वामो दक्षिणो वा चरणः, शिरस इति । नायिकायाः, द्वि- तीय इति । दक्षिणो वामो वाऽधः, एवं द्विविधं शूलाचितकं, शूल इवा- रोपणाच्छूलभिन्नवत्तच्छरीरस्य लक्ष्यमाणत्वाद्, आभ्यासिकम्, अन्यथा कथमुपरितनजङ्घाकाण्डः स्थगितकः स्यात् ॥ २७ ॥

संकुचितौ स्वस्वस्तिदेशे निदध्यादिति कार्कट कम् ॥ २८ ॥

संकुचितौ नायिकाचरणौ जानुसंकोचात्स्वस्वस्तिदेशे स्वनाभिमूले निदध्यान्नायकः, कार्कटकमिति । कर्कटस्येदं कर्म, यदग्रचरणौ तथा तिष्ठतः ॥ २८ ॥

ऊर्ध्वावूरू व्यत्यस्येदिति पीडितकम् ॥ २६ ॥

६ अध्याये ] संवेशनप्रकरणम्। १२१

ऊर्ध्वावूरू व्यत्यस्येदिति। उत्तानं वामं दक्षिणतो नयेद्, दक्षिणं वामतः, पीडितकं जघनपीडनात् ॥ २९ ॥

जङ्घाव्यत्यासेन पद्मासनवत् ॥ ३० ॥

जङ्घाव्यत्यासेनेति। उत्ताना नायिका दक्षिणपादं वामे स्वोरुमूले विदध्याद्, वामं च दक्षिणे, पद्मासनमिति प्रतीतम् ॥ ३० ॥

पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकमाभ्यासिकम् ॥३१॥

पृष्ठमिति। यन्त्रमविश्लिष्य; पूर्वकायेन परावृत्तस्य नायकस्य पृष्ठमुपगूहमानायाः परावृत्तकम्, पराङ्मुखेन नायकेन संप्रयोगाद्, उपलक्षणं चैतत्, पृष्ठमुपगूहमानस्य पराङ्मुख्या परावृत्तकम्, आभ्यासिकं, सहसा कर्तुमशक्यत्वाद्, उभयकायं परिवृत्य; संविष्टायाः पृष्ठमुपगूहमानस्य पराङ्मुख्या परावृत्तकमाभ्यासिकमर्थोक्तम् ॥ ३१ ॥

एते संवेशनप्रकारा न चित्राः, लोके हि स्थले पृष्ठतः पार्श्वतो वा शयनं प्रतीतंत, ततोऽन्यच्चित्रं, तदेतैरुपलक्षयेदिति दर्शयन्नाह—

जलं च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगांस्तुनुपलक्षयेत् तथा सुकरत्वादिति सुवर्णनाभः ॥ ३२ ॥

जले चेति। चकारात्स्थले च, तत्राप्सु क्रीडायां कूले शिरो निधाय; संविष्टयोः संवेशनात्मकोडपि यः स्थलाभावाच्चित्रयोगस्तं संपुटेन परावृत्तकेन चोपलक्षयेद्, उपविष्टस्य नायकस्योपवेशनात्मकैस्तैः सर्वैरेव प्रकारैः, ऊर्ध्वस्थितायाः स्थितात्मकः स्थले शयनाभावाद्, चित्रो योगस्तं शूलाचितके, तथा सुकरत्वादितिः तैः प्रकारैः संयोगस्याप्सु सौकर्यात्॥३२॥

वार्तं तु तत् शिष्टैरपस्मृतत्वादिति वात्स्यायनः ॥ ३३ ॥

वार्तं त्विति। तथा सुकरत्वादिति सत्यं वार्तं तु तद्, असारमित्यर्थः। शिष्टैरपस्मृतत्वादिति। स्मृतिकारैर्निषिद्धत्वादित्यर्थः, तथा च गौतमीयवचनम्—‘अप्सु मिथुनसंयोगे नरक, इति, प्रायश्चित्तविधाने भार्गववचनम्—

‘रेतः सिक्त्वा जले चैव कृच्छ्रं चान्द्रायणं चरेद्’ इति,
तस्मात्स्थलप्रयोज्यमेव चरेत् ॥ ३३ ॥

संवेशनप्रकारास्त्रयोदशं प्रकरणम् ॥
प्रकरणसम्बन्धमाह—

अथ चित्ररतानि ॥ ३४ ॥

अथेति। संवेशनप्रस्तावे तद्विशेषत्वात्स्थलप्रयोज्यानीत्युच्यन्ते॥३४॥
१६ का० सू०

१२२ | सटीके कामसूत्रे | [ २ अधिकरणे,

तत्रोर्ध्वमधिकृत्याह—

ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भापाश्रितयोर्वा स्थितरतम् ॥ ३५ ॥

परस्परापाश्रययोरिति । आश्रयान्तराभावाद्बाहुपाशेनान्योन्योपलब्धयोः, कुड्यस्तम्भापाश्रितयोरिति । नायिकायां कुड्ये स्तम्भे वाऽपाश्रितायां द्वितीयोऽपि तदाश्रयादाश्रित इत्युक्तं, स्थितरतं च द्वयोरूर्ध्वस्थितत्वात्, करणत्रयमत्रान्तर्भूतं, यथोक्तम्—

'उत्क्षिप्तप्रमदापादमेकेन नरपाणिना ।
प्रसारणविशेषेण व्यायतं संमुखं स्मृतम् ॥
नारीपादतलन्‍यासान्नरहस्ततले तु यत् ।
कुञ्चितप्रमदाजानुद्वयं द्वितलसंज्ञितम् ॥
नरकूर्परविन्यस्तस्त्रीनिकुञ्चितजानुकम् ।
जानूकूर्परमुद्दिष्टमिति शुद्धो विधिः स्मृतः' इति ॥ ३५ ॥

कुड्यापाश्रितस्य कण्ठावसक्तबाहुपाशायास्तद्धस्तपञ्जरोपविष्ठाया ऊरुपाशेन जघनमभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्याऽवलम्बितकं रतम् ॥ ३६ ॥

कुड्यापाश्रितस्येत्युपलक्षणार्थत्वात्स्तम्भापाश्रितस्य नायकस्य कण्ठेऽवसक्तोऽवलग्नो बाहुपाशो यस्या इति विग्रहः, तद्धस्तपञ्जरेति । नायकस्य हस्ताभ्यां वेणीबन्धेन घटितपञ्जरे समुपविष्ठाया ऊरुपाशेन जघनं नायकस्य वेष्टयन्त्याः, चरणक्रमेण वलन्त्या इति । कुड्ये स्तम्भे वा पुनः पुनश्चरणविक्षेपेण कटिं प्रेङ्खयन्त्याः, अवलम्बितकं, नायककण्ठान्नायिकाया अवलम्बनाद्, एतदुभयं वहायसिकत्वाच्चित्रम् ॥ ३६ ॥

भूमौ वा चतुष्पदवदास्थिताया वृषलीलयाऽवस्कन्दनं धैनुकम् ॥ ३७ ॥

चतुष्पदवदिति । सामान्यनिर्देशो वक्ष्यमाणापेक्षस्तत्र धेनुकावच्चतुर्भिर्गात्रैरधोमुखमवस्थितायाः, वृषलीलयेति । वृषचेष्टया नायकस्यावस्कन्दनं कटिभागेऽभिपतनं, धैनुकमिति । धेनुकाया इदम् , एतच्च मनुष्यधर्माचरणाच्चित्रम् ॥ ३७ ॥

तत्र पृष्ठमुरःकर्माणि लभते ॥ ३८ ॥

तत्रेति । धैनुके, पृष्ठमुरःकर्माणि लभत इति । यानि नायिकोरसि प्रहणनश्लेषोपगूहनादीनि तानि पृष्ठे प्रयुञ्जीतेत्यर्थः ॥ ३८ ॥

एतेनैव योगेन शौनमैणेयं छागलं गर्दभाक्रान्तं मार्जारलालि-

६ अध्याये ] चित्ररतप्रकरणम्। १२३

तर्कं व्याघ्रावस्कन्दनं गजोपमर्दितं वराहधृष्टकं तुरगाधिरूढकमिति
यत्र यत्र विशेषो योगोऽपूर्वस्तत्तदुपलक्षयेत् ॥ ३९ ॥

एतेनेति । धैनुकयोगेन शौनादिकमुपलक्षयेदित्यर्थः, श्वादीनां चतुष्पदत्वात्तद्गतमेनेन व्याख्यातमित्यवगच्छेदित्यर्थः, विशेषप्रतिपत्तौ तु कारणमाह-यत्र यत्रेति । यस्मिन्यस्मिन् येन येन विशेषेण स्वरगतेन च कायगतेन योगोऽपूर्वो दृश्यते तत्तदुपलक्षयेत्, तत्र शुनीवदवस्थिता श्वलीलया नायकस्यावस्कन्दनम्, एवं छगलीवच्छगललीलया च्छागलम्, एणीवदेणलीलयैणेयम्, 'एण्या ढञ्' ।५।२।१६। व्यापारस्यापि विकारत्वाद्, गर्दभीवद् गर्दभलीलयाऽऽक्रमणं गर्दभाक्रान्तकम्, मार्जारीवन्मार्जारीलीलया च ललितकं मार्जारललितकं, व्याघ्रीवद्व्याघ्रलीलयाऽवस्कन्दितं व्याघ्रावस्कन्दनं, गजवद्गजलीलयोपमर्दनं गजोपमर्दितं, तुरगीवत्तुरगलीलयाऽधिरोहणं तुरगाधिरूढकम्, अत्र श्वादीनां स्वरकायगतं चेष्टितं प्रत्यक्षतोऽवगन्तव्यम्, अप्रत्यक्षीकृतस्य प्रयोक्तुमशक्यत्वात् ॥ ३९ ॥

मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघातकं रतम् ॥ ४० ॥

मिश्रीकृतसद्भावाभ्यामिति । दंपत्योर्हि रतं, द्वाभ्यां तु परस्परोपजनितविश्वासाभ्यां नायिकाभ्यां सहैकस्य नायकस्य रतं चि संघातकाख्यम्, एकशयने स्त्रीयुग्मस्य युगपत्संप्रयुज्यमानत्वाद्, यदच हि पुरुषोपसृप्तेरेकस्यां रागापनयनं तदैवापरस्याश्चुम्बनादिना रागजननं, ततोऽस्या रागापनयनं प्रशान्तरागायाश्च रागजननमिति ॥ ४० ॥

बह्वीभिश्च सह गौयूथिकम् ॥ ४१ ॥

बह्वीभिश्च=मिश्रीकृतसद्भावाभिः, सहैकस्य चित्ररतं गौयूथिकं,- वृषस्येव गोयूथे स्त्रीसमूहे वर्तनात् ॥ ४१ ॥

वारीक्रीडितकं छागलमैणेयमिति तत्कर्मानुकृतियोगात् ॥ ४२ ॥

वारीक्रीडितकमिति । वार्यां गजस्येव करिणीभिः स्त्रीभिः सह रमणात्, तथा छगलवदेणवच्च स्त्रीभिः सह छागलमैणेयमिति, तत्कर्मानुकृतियोगादिति । वृषादीनां गवादिषु यत्स्वरगतं कायगतं च कर्म तदनुकृतियोगात्तथा व्यपदिश्यत इत्यर्थः, यथैकस्य द्वाभ्यां बह्वीभिश्च तथा द्वाभ्यां नायकाभ्यां बहुभिश्चैकस्या रतं सम्भवति, तत्र नायकसंघाटकेनेकस्या वक्ष्यमाणयोगेन काम्यमानत्वात्संघाटकं रतं, द्वयोर्वा संविष्टयोः पुरुषायितेन काम्यमानत्वाद्, यथोक्तम्-

'ऊरुव्यत्याससंविष्टपरिवर्तितदेहयोः।
वृषयोरुन्नतं चिह्नं हस्तिन्याः पुरुषायिते ॥'

१२४ सटीक कामसूत्रे [ २ अधिकरणे,

बहुभिश्च गौयूथिकं, वृषगोयूथस्येवैकस्यां गवि स्त्रियां नायकयूथस्य प्रवर्तनात्, तथा वारीक्रीडितकमित्यादि तत्कर्मानुकृतियोगात्-देव गौयूथिकादिरतम् ॥ ४२ ॥
देशप्रवृत्तिं दर्शयन्नाह—

ग्रामनारीविषये स्त्रीराज्ये च बाह्लीके बहवो युवानोऽन्तःपुर-सधर्माण एकैकस्याः परिग्रहभूताः , तेषामेकैकशो युगपच्च यथा-सात्म्यं यथायोगं च रञ्जयेयुः ॥ ४३ ॥

ग्रामनारीविषय इति । स्त्रीराज्यसमीप एव परतो ग्रामनारीविषयः, युवानो व्यवायक्षमाः, अन्तःपुरसधर्माणो रक्षणयोगादस्वतन्त्राः, एकस्या योषितः परिग्रहं गताः, खरवेगत्वात्नैकेन तृप्तिरिति, ते तां कथं-रञ्जयेयुरित्याह—एकैकशो युगपच्चेति । एकैकेन कर्मणा यौगपद्येन चेत्यर्थः, यथासात्म्यं यथायोगं चेति । येन यस्या उपचारेण सात्म्यं यत्र यस्य च युज्यते प्रयोगस्तेन तामनुरञ्जयेयुः, तस्यास्तृप्तिं जनयेयुरित्यर्थः ॥ ४३ ॥
तदेवैकैकं कर्म यौगपद्यं च दर्शयन्नाह—

एको धारयेदेनामन्यो निषेवेतान्यो जघनं मुखमन्यो मध्य-मन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः ॥ ४४ ॥

एको धारयेदिति । यस्याङ्कमपाश्रित्य संविष्टा, मुखमन्यो निषेवेत चुम्बनदशननखक्षतैः, जघनमन्थ उपसृप्तकैः, मध्यं मुखजघनयोश्चुम्ब-ननखदशनच्छेदग्रहणनैरन्य इत्येकैकेन कर्मणा, युगपच्चेति । तत्रापि पुन-र्विधानान्तरमाह—वारं वारेणानुतिष्ठेयुरिति । वारं नियोगं वारेण परि-पाट्या, तत्र यो जघनं निषेवितवान्, स निवृत्तरागत्वाद्द्वारेण वा-रमनुतिष्ठेद् , वारेण वारिको मुखवारं तद्वारिको मध्यवारं तद्वारिकश्च जघनवारमिति, व्यतिकरेण चेति । द्वितीयकर्मसंयोजनेन च, तद्यथा—जघनसेवको जघनं मध्यं च निषेवेत, मध्यसेवको मध्यं मुखं च, तत्से-वकश्च मुखं मध्यं च, वारिको धारयेन्मुखं च निषेवेतेति, अनेन विधि-ना तावदनुतिष्ठेयुर्यावत्सर्व एव जघनवारमनुप्राप्ताः ॥ ४४ ॥

एतया गोष्ठीपरिग्रहा वेश्या राजयोषापरिग्रहाश्च व्याख्याताः ॥४५॥

एतयेति । यथोक्तया स्त्रिया, अन्यत्रापि देशे सम्भवत्येतदतिदेशेन दर्शयति—गोष्ठीपरिग्रहा इति । विटैः सम्भूय परिगृह्यते या वेश्या, गोष्ठी येषां परिग्रह इति योषिच्छब्दसमानार्थो योषाशब्दः, संह-त्यान्तःपुरिकाभिर्योषिन्द्रियैं परिगृह्यन्ते परपुरुषाः, वक्ष्यति च—

‘संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानाम्’ इति,