कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
३ अध्याये ] विरक्तप्रतिपत्तिप्रकरणम् । २९५
३ अध्याये ] विरक्तप्रतिपत्तिप्रकरणम् । २९५
अविस्मरणमिति । विस्मरणे हि तवेदं मयोपहृतमिति यदि तेना-
भिहिता किं ब्रूयाद्, अनुकीर्तनं च तत्समक्षं येनोपकृतमन्न न नश्यतीति,
पुनः प्रयच्छति ॥ २१ ॥
प्रणिधिभिः प्रतिगणिकानां लाभातिशयं श्रावयेत् ॥ २२ ॥
प्रणिधिभिः = चारैः, प्रतिगणिकानामात्मना तुल्यदानमनर्हाणां, ला-
भातिशयश्रावणं नायकसमक्षं, भवदावासाद्द्विष्णुमित्रया लब्धमिदमधि-
कमित्यादि ॥ २२ ॥
तासु नायकसमक्षमात्मनोऽभ्यधिकं लाभं भूतमभूतं वा व्री-
डिता नाम वर्णयेत् ॥ २३ ॥
तास्विति । प्रतिगणिकासु, यो लाभस्तस्मादप्यधिकमिति योज्यम्,
भूतं वा नायकेन दत्तम्, अभूतमदत्तम्, व्रीडिता नामेति । लज्जितेव
वर्णयेद्, येन सोऽपि लज्जितः प्रयच्छेत् ॥ २३ ॥
पूर्वयोगिनां च लाभातिशयेन पुनः संधाने यतमानानामावि-
ष्कृतः प्रतिषेधः ॥ २४ ॥
पूर्वयोगिनामिति। पूर्वसंसृष्टानां विशीर्णानां, लाभातिशयेनाधिकेन
लाभेन, पुनः सन्धाने यतमानानां यत्नं कुर्वताम्, आविष्कृतः = प्रकटः,
प्रतिषेधः कर्तव्यः, यथाऽसौ श्रुत्वा मय्यनुरक्तेति प्रयच्छति ॥ २४ ॥
तत्स्पर्धिनां च त्यागयोगितानिदर्शनम् ॥ २५ ॥
तत्स्पर्धिनां चेति । नायकस्पर्धिनां त्यागयोगितानिदर्शनं प्रणिधि-
भिस्त्यागयोगित्वख्यापनार्थमित्यर्थः, येनायं श्रुत्वाऽवतार एषां मा
भूदिति प्रयच्छति ॥ २५ ॥
न पुनरेष्यतीति बालयाचितकमित्यर्थागमोपायाः ॥ २६ ॥
न पुनरेष्यतीति । न पुनर्गृहमेनेनागन्तव्यमिति, बालेन प्रयुक्तेन
याचितकं कार्यमिदं मे देहीति, बालवद्वा लज्जां त्यक्त्वा याचितव्यमि-
त्यर्थः, एतेऽर्थागमोपाया देशकालावस्थाऽपेक्षया प्रयोक्तव्याः ॥ २६ ॥
इत्यर्थागमोपायास्त्रिपञ्चाशत्तमं प्रकरणम् ॥
सक्ताद्वित्तादानमुपायैरुक्तं, विरक्ते तु किं प्रतिपद्येतेति, विरक्तप्रति-
पत्तिरुच्यते, तत्र विरक्तस्य लक्षणमाह—
विरक्तं च नित्यमेव प्रकृतिविक्रियातो विद्याद् मुखवर्णाच्च॥२७॥
विरक्तं चेति । नित्यमेवेति । सर्वत्र क्रियासु वर्तमानम्, प्रकृतिविक्रि-
यात इति । स्वभावान्यथात्वेनेत्यर्थः, अनेनेङ्गितमन्यथावृत्तिलक्षणं दर्श-
२९६ सटीककामसूत्रे [ ६ अधिकरणे,
यति, मुखवर्णाच्च विद्यादित्येव, मुखरागादित्यर्थः, कश्चिदेव मुखरागे विरागं सूचयति, तेनेङ्गिताकाराभ्यां रक्तवद्विरक्तमपि विद्यादित्युकम्॥२७॥
तामन्यथावृत्तिमाह—
ऊनमतिरिक्तं वा ददाति ॥ २८ ॥
ऊनमिति । अतिरिक्तं वा यथादीयमानात् ॥ २८ ॥
प्रतिलोमैः सम्बध्यते ॥ २९ ॥
प्रतिलोमैः संबध्यते, नायिकाया विपक्षैः सह प्रीतिं करोति ॥ २९ ॥
व्यपदिश्यान्यत्करोति ॥ ३० ॥
व्यपदिश्य 'स्नातव्यम्' इति, अन्यत्करोति, सज्जीकृतेऽपि स्नानोपकरणे भुङ्क्ते ॥ ३० ॥
उचितमाच्छिनत्ति ॥ ३१ ॥
उचितमाच्छिनत्ति, प्रत्यहं दीयमानं न ददाति ॥ ३१ ॥
प्रतिज्ञातं विस्मरत्यन्यथा वा योजयति ॥ ३२ ॥
प्रतिज्ञातमिदं मया देयमिति विस्मरति, न प्रतिज्ञातमिति, अन्यथा योजयति न त्विदमिति ॥ ३२ ॥
स्वपक्षैः संज्ञया भाषते ॥ ३३ ॥
स्वपक्षैरिति। मित्रादिभिः सह, संज्ञया भाषते न वचसा मा श्रौषीदियमिति ॥ ३३ ॥
मित्रकार्यमपदिश्यान्यत्र शेते ॥ ३४ ॥
मित्रकार्यमपदिश्य, मयाऽद्य कर्तव्यमित्यन्यत्र शेते, नायिकाऽन्तरगृहे ॥ ३४ ॥
पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ॥ ३५ ॥
पूर्वसंसृष्टायाश्च नायिकायाः परिचारकेण सह, मिथः = रहसि, कथयति यत्पूर्ववृत्तं वर्तमाननायिकागतं वा ॥ ३५ ॥
तस्मिन्विरक्त इति ज्ञातेऽनुष्ठानमाह—
तस्य सारद्रव्याणि प्रागवबोधादन्यापदेशेन हस्ते कुर्वीत ॥ ३६॥
तस्येति। विरक्तस्य, सारद्रव्याणि = सुवर्णरजतादीनि, हस्ते कुर्वीत, प्रागवबोधादिति। यावदसौ न जानाति, ज्ञातोऽहमनया विरक्त इति, अन्यथा प्रतिविधानान्तरं चिन्तयेत्, तत्राप्यन्यापदेशेन यत्किंचिद्व्याजं कृत्वेत्यर्थः ॥ ३६ ॥
तानि चास्या हस्तादुत्तमर्णः प्रसह्य गृह्णीयात् ॥ ३७ ॥