सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

प्रहणनप्रयोगाः पञ्चदशं प्रकरणम् ।

८ अध्याये ] पुरूषायितप्रकरणम् १३३

यस्माज्ज्ञानवैकल्याद्युक्तं दृश्यते, तस्माज्ज्ञानप्रधानेन भवितव्यमि-
ति दर्शयन्नाह—

तस्मान्मृदुत्वं चण्डत्वं युक्त्या बलमेव च ।
आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥ ३४ ॥

तस्मादिति । मृदुत्वं चण्डत्वमिति । मन्दवेगतां चण्डवेगतां चे-
त्यर्थः, बलं=प्राणः, आत्मनश्च मृदुत्वचण्डत्वे इति योज्यं, तथेति ।
मृद्वादिप्रकारेण, प्रयुञ्जीत प्रयोगान् शास्त्रवित्, अन्यथा शास्त्रज्ञेतरयोः
को भेदः स्याद्, वक्ष्यति च—
‘अस्य शास्त्रस्य तत्त्वज्ञो न स रागात्प्रवर्तते’ इति ॥ ३४ ॥

मृद्वादिभेदेन प्रयोगयोजने सर्वे सर्वदा सर्वासु स्त्रीषु स्युरिति चेदाह—

न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः ।
स्थाने देशे च काले च योग एषां विधीयते ॥ ३५ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
प्रहणनप्रयोगास्तद्युक्ताश्च सीत्कृतक्रमाः सप्तमोऽध्यायः ।
आदितो द्वादशः ।

न सर्वदेति । तत्र स्थाने प्रयोगो यथा—अपहस्तस्य स्तनान्तरे, प्रसृ-
तस्य शिरसीत्यादि, देश इति । प्रयोगविषय इत्यर्थः, यथा-मालव्यां
प्रहणनस्याभीर्यामौपरिष्टकस्येत्यादि, युक्तयन्त्रायामपहस्तस्योत्सङ्गोप-
विष्टायां मुष्टिरित्यादि कालप्रयोग इति ॥ ३५ ॥

प्रहणनप्रयोगाः पञ्चदशं प्रकरणम् ।
तद्युक्ताश्च तदन्तर्गताः सीत्कृतक्रमाः षोडशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके
द्वितीयेऽधिकरणे प्रहणनयोगाः सीत्कृतक्रमाश्च सप्तमोऽध्यायः ।

अष्टमोऽध्यायः ।

एवं प्रहणनादिव्यापारेण परिश्रान्ते नायके नायिका पुरुषवदाचरे-
दिति पुरुषायितं, तदुपयोगित्वाच्च तदन्तर्गतानि पुरुषोपसृप्तानीति प्रक-
रणद्वयमत्राध्याये ।

तत्र कारणान्याह—

नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपश-
मम्, अनुमता तेन तमधोऽवपात्य पुरुषायितेन साहाय्यं दद्यात्

१३४ । सटीक कामसूत्रे । [ २ अधिकरणे,

स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी नायककुतूहलाद्वा ॥ १ ॥

नायकस्येति । संतताभ्यासादिति । रतस्य पौनःपुन्येनानुष्ठानात्, परिश्रमं सर्वाङ्गिकं समं, रागस्य चानुपशममशान्तिमुपलभ्य; तत्राप्यनुमता, तेनेति । नायकेन, अनुज्ञाता हि योषिद्विसदृशमाचरन्ती नित्रपैव स्यात्, तमधोऽवपात्य=नायकमधस्तात्कृत्वा, एवं हि पुरुषवदाचरितं, तेन साहाय्यं सहायकर्म प्रतिपद्येत कार्यस्यानिवृत्तत्वात्, स्वाभिप्रायाद्वेति । अननुमताऽपि तेन जातविश्रम्भा विकल्पं पुरुषायितभेदं योजयितुमर्थिनी तच्छीलत्वाद्, नायककुतूहलाद्वेति । नायकस्यात्र कौतुकमस्तीति ज्ञात्वा वा तेनाननुमताऽपरिश्रान्तस्यापि दद्यादित्येव ॥ १ ॥

तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तमवपातयेदेवं च रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्यादित्येकोऽयं मार्गः, पुनरारम्भेणादित एवोपक्रमेदिति द्वितीयः ॥ २ ॥

तत्रेति । पुरुषायिते द्विविधः क्रमः, तत्रायं प्रथमो यद् युक्तयन्त्रेणैवापत्यिकशल्यसंयोगेनैवेतरेण नायकेन त्र्यस्त्रस्थितेनासीनेन चोत्थाप्यमाना बाहुपाशसंदानिता सत्युपरि क्रियमाणा, तं नायकमवपातयेदिति । एवं सति रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्याद्, यन्त्रं हि विश्लेष्य पुनः संधाने रतमपूर्वमेव स्याद्, न पूर्वप्रकारप्रवृत्तं यथा प्रवृत्तञ्चात्र रागो विच्छिद्येत, तस्य चाकस्माद्विच्छेदे न सौमनस्यमित्यत्र कामिनः प्रमाणम्, अयं मार्गः श्रमवृद्धौ रागस्यानुपशमे द्रष्टव्यः, स्वाभिप्रायादिषु, पुनरारम्भेणेति । यदा रतस्य पुनरारम्भस्तदा तेनारम्भेण पुरुषवदादावेवोपक्रमेत प्रवर्त्तेत द्वितीयो मार्गः, नापरस्तृतीयो यदन्तरा यन्त्रं विश्लेष्य प्रयोक्तव्यम् ॥ २ ॥

पुरुषायितं द्विविधम्, बाह्यमाभ्यन्तरं च, तत्र प्रथममधिकृत्याह—

सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नमयन्ती यांश्चेष्टाः पूर्वमसौ दर्शितवांस्ता एव प्रतिकुर्वीत पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात् पुनश्च व्रीडां दर्शयेच्छ्रपंविरामाभीप्सां च, पुरुषोपसृप्तैरेवोपसर्पेत् ॥ ३ ॥

सेति । स्वशिरसः प्रकीर्यमाणानि केशकुसुमानि चेष्टमानया ययेति विग्रहः, श्वासेन विच्छिन्नो यो हासः सोऽस्ति यस्याः, असदृशव्यापारेण जातश्रमत्वाद्, वक्रसंसर्गार्थं लज्जया न तु चुम्बनदशनच्छेद्या-