सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पुरुषायितं सप्तदशं प्रकरणम् ।

९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४१

तत्रापवादमाह—

न त्वेवर्त्तौ न प्रसूतां न मृगीं न च गर्भिणीम् ।
न चातिव्यायतां नारीं योजयेत्पुरुषायिते ॥ ३२ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः ॥
आदितस्त्रयोदशः ।

न त्वेवेति । ऋतौ न योजयेद्, गर्भाग्रहणभयात्, पुनरावर्तने च गर्भग्रहणाद्दारकदारिके व्यस्तशीले स्यातां, न प्रसूतामचिरप्रसूताम् प्रदरकटिनिर्गमभयाद्, न मृगीं वृषाश्वयोरवपाटिकाभयाद्, न गर्भिणीं गर्भस्रावभयाद्, नातिव्यायतामतिस्थूलां व्यापारयितुमशक्यत्वात् ॥ ३२ ॥

पुरुषायितं सप्तदशं प्रकरणम् ।
तदन्तर्गतानि पुरुषोपसृप्तान्यष्टादशं प्रकरणम् ॥

इति श्रीवात्स्यानीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषायितं पुरुषोपसृप्तानि चाष्टमोऽध्यायः ।


नवमोऽध्यायः ॥

आलिङ्गनादिपुरुषायितान्तं चतसृषु नायिकासूक्तं, 'तृतीयाप्रकृतिः पञ्चमीत्येके' इत्युक्तं, तद्विषयमौपरिष्टकमुच्यते द्विविधेत्यादिना—

द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥ १ ॥

तृतीयाप्रकृतिः = नपुंसकं, स्त्रीरूपिणी = स्त्रीसंस्थाना स्तनादियोगात्, पुरुषसंस्थाना श्मश्रुलोमादियोगाद्, यद्वृत्तिमाश्रित्यौपरिष्टकमनयोस्तदुच्यते ॥ १ ॥

तत्र पूर्वमधिकृत्याह—

तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धतामसहिष्णुतां व्रीडां चानुकुर्वीत ॥ २ ॥

तत्रेति । तयोः सम्यक्स्त्रीत्वख्यापनार्थं तावत्स्त्रीधर्मानुकरणं, तत्र वेषः केशपरिधानादिविन्यासेन, आलापं = काकल्यनुगतं, लीलां = मन्थरादिगमनम्, भावं = हासादिकम्, मृदुत्वम् = अकार्कश्यम्, भीरुत्वं = भयशीलताम्, मुग्धताम् = ऋजुताम्, असहिष्णुतां = प्रहणनवातातपाद्यक्षमताम्, व्रीडां = लज्जाम्, अनुकुर्वीत ॥ २ ॥

१४२ सटीक कामसूत्रे [ २ अधिकरणे,

तस्या वदने जघनकर्म तदौपरिष्टकमाचक्षते ॥ ३ ॥

तस्या इति । स्त्रीधर्माननुकुर्वन्त्याः, वदने=मुखे, जघनकर्मेति । स्वरू-
पारूढानं, भगे लिङ्गेन यत्कर्म तन्मुखे क्रियमाणमौपरिष्टकम्, आचक्ष-
त इति । पूर्वाचार्यकृतेयं संज्ञा, उपरिष्टान्मुखे भवतीत्यण्- 'अव्ययानां-
भमात्रे टिलोपः' पश्चात् 'संज्ञायां कन्', 'अमेहकतसिन्नेभ्य एव' इति
परिगणनाद्यत्र भवति ॥ ३ ॥

फलमाह—

सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सैद् वेश्यावच्चरितं-
प्रकाशयेदिति स्त्रीरूपिणी ॥ ४ ॥

सा तत इति । औपरिष्टकाद्रतिं प्रीतिमाभिमानिकीं प्रागुक्तलक्ष-
णाम्, वृत्तिं=जीविकाम् भाटीलाभाद्, चरितमिति । वेश्याया वृत्तं वै-
शिके वक्ष्यति, तद्वेश्येव प्रकाशयन्ती गम्यैरभिगम्यमाना रतिं वृत्तिं च
प्राप्नोति ॥ ४ ॥

द्वितीयामधिकृत्याह—

पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभा-
वमुपजीवेत् ॥ ५ ॥

तुशब्दो विशेषणार्थः, रतिरौपरिष्टकं च तुल्यं; वृत्तं तु पृथगिति
यदाह-प्रच्छन्नकामेति । आभिमानिकी प्रीतिः कामः, स प्रच्छन्नो यस्याः
सा पुरुषरूपिणीत्वात्पुरुषेण सहसा न सम्प्रयुज्यत इति लब्धुमिच्छन्ती,
संवाहकभावमुपजीवेदिति । लोकेऽङ्गमर्दनकर्मणा जीवेदित्यर्थः ॥ ५ ॥

एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनाथर्माह—

संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृद्नीयात्, प्र-
सृतपरिचया चोरूमूलं सजघनमभिसंस्पृशेत् ॥ ६ ॥

संवाहने संविष्टस्य नायकस्योरू स्वगात्रैरुपवृत्तपरिचयत्वादुपगूह-
मानेव मृद्नीयाद्, एवं मृदन्ती प्रसृतपरिचया चेदूरूमूलमपि संस्पृशेत्,
सजघनमिवि । लिङ्गस्थानं त्यक्त्वा सह जघनस्य स्तोकेन भागेनो-
रूमूलमित्यर्थः ॥ ६ ॥

तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्थेन परिघट्टयेत्
चापलमन्य कुत्सयन्तीव हसेत् ॥ ७ ॥

स्थिरलिङ्गतामिति । सजघनभागोरूमूलसंस्पर्शात्स्तब्धलिङ्गताम्,
पाणिमन्थेनेति । आगोपालादिप्रतीतेन लिङ्गं घट्टयेद्, न यथा कथञ्चित्,