कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३५
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३५
र्थं, स्तनाभ्यामुरो नायकस्य, पीडयन्तीति। स्तनोपगूहनमेतत्, पुनः-पुनः शिरो नमयन्ती लज्जया, सर्वमेतत्तैक्ष्ण्येन तेजसा चेष्टितमुक्तम्, पौंस्नेनाह-या इति। चेष्टायाश्चुम्बनादिव्यापारात् पूर्वमसौ दर्शितवान् पारुष्यरभसत्वाभ्यां ता एव प्रतीपं कुर्वीत, तदेव स्फुटयन्नाह—पातितेति। यथाऽहं त्वया निर्दयरतेन क्लेशिता तथाऽहं त्वामपि प्रतीपं पातयामीति ब्रूयादिति संबन्धः, तत्रापि परिहारेऽन्यत्रापि प्रयुक्त हसन्ती, राभसिकतया तर्जयन्ती तर्जन्या, प्रतिघ्नती चात्यर्थमपहस्तादिना, तदुभयं पारुष्यं दर्शयति, ततश्चासौ स्त्रैणतेजः प्रख्यापनार्थमव्रीडिताऽपि व्रीडाम्, अश्रान्ताऽपि श्रमं, रन्तुमिच्छन्त्यपि विरामाभोप्सामुपेल्य दर्शयेत्, पुरुषवदाचरितं हि योषितः पुरुषायितं, ततश्च पुरुषस्य योषिति यदुपसर्पणमुपसृप्तं तद्वद्याचरन्त्या पुरुषायितं, प्रायश्च पुरुषोपसृप्तान्नान्यत्पुरुषायितमिति नियमयन्नाह-पुरुषोपसृप्तेरेवोपसर्पेदिति ॥ ३ ॥
इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणमिति दर्शयति –
तानि च वक्ष्यामः ॥ ४ ॥
तानि द्विविधानि, बाह्यान्याभ्यन्तराणि च ॥ ४ ॥
तत्र बाह्यान्त्याह–
पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत्, तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत्, स्थिरलिङ्गश्च तत्र तत्रैनां परिस्पृशेत्, प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनं, कन्यायाश्च तथा स्तनयोः संहतयोर्हस्तयोः-कक्षयोरंसयोर्ग्रीवायामिति च, स्वैरिण्यां यथासात्म्यं यथायोगं-च, अलके चुम्बनार्थमेनां निर्दयमवलम्बेत हनुदेशे चाङ्गुलि-संपुटेन, तन्नेतरस्या व्रीडा निमीलनं च प्रथमसमागमे कन्यायाश्च ॥ ५ ॥
यदा पुरुषः प्रयोक्ता तदा पुरुषोपसृप्तकं, स्त्री चेत्पुरुषायितमिति दर्शनार्थं पुरुषग्रहणम्, एवं च पुरुषायितेन सहास्यं वचनं, शयनस्थाया इति। शयनात्प्रागतारम्भं प्रकरणं वक्ष्यति, तद्वचनव्याक्षिप्तचित्ताया इवेति। नायकोक्तिभिरन्यचित्ताया नायिकायाः, लज्जाख्यापनार्थं-दर्शनीयेति वाऽर्थः, नीवी=निवसनबन्धनं, तत्रेति। विश्लेषणे विवद्मानां कर्तुमददतीं कपोलचुम्बनेन समन्तादाकुलं यद् यथा नीवी सुखेन
१३६ सटीक कामसूत्रे [ २ अधिकरणे,
शंसते, स्थिरलिङ्गश्चेति । जातरागत्वात्स्तब्धलिङ्गः, तस्यां च जात-रागायां सिद्धं कार्यं, न चेद्वाह—तत्र तत्रेति । कक्षोरुस्तनादिष्वेनां नायिकां रागजननार्थं हस्तेन, परिस्पृशेदिति । एतदसकृन्नायकेन संगता-यामतिविश्रब्धायामुक्तं, यदि प्रथमसंगता तदाऽस्या नीवीशंसनस्प-र्शनं नास्त्येव, लज्जया संहतयोश्चोर्वोरन्तरे च संधौ हस्तेन घट्टनं चल-नं, यथा विवृतौ स्यातां, कन्यायाश्चेति । कन्याविश्रम्भणेन विश्र-ब्धाया अप्यस्या लज्जया संहतयोरन्तरे घट्टनं नीवीशंसनं स्पर्शनं च, अस्या अधिकमाह—स्तनयोः संहतयोर्भुजमय्या सूच्या हस्तयोः पर-स्पराश्लिष्टयोः प्रत्येकं वा बद्धमुष्टयोः, कक्षयोः प्रत्येकं कृतसंकोचयोः, अंसयोर्हस्तयोजनाद् ग्रीवाबाहुशिखरयोजनाद्वा संहतयोः, ग्रीवायां ह-स्तपाशसंश्लेषात्संहतायां, घट्टनमित्येव, स्वैरिण्यामिति । या नायिका रूढविश्रम्भत्वात्सुरते निस्त्रपं यथेष्टचारिणी सा स्वैरिणी=अभियोक्त्रीत्य-र्थः, तस्याः, यथासात्म्यं यथायोगं चेति । यद्येन सात्म्यं यच्च यत्र युज्य-ते तत्तस्य स्पर्शनमित्यर्थः, चुम्बनार्थमेनामिति । कृतक्षान्तिं पूर्वोक्तां स्वै-रिणीं वाऽङ्के निर्दयमवलम्बेत, हस्तेन दृढं गृह्णीयाद्, यथा तद्वदनमाकृष्य चुम्बेत, हनुदेशे वाऽङ्गुलिसम्पुटेन तर्जन्यङ्गुष्ठकल्पितेन चुम्बनार्थन्निर्द-यमवलम्बेतेत्येव, तत्रेत्यवलम्बने, इतरस्या इति । नायिकायाः, विधिमा-ह—या प्रथमसंगता कन्या च तस्या व्रीडा लज्जा निमीलनं चाक्ष्णोः स्याद्, न तदतिविश्रब्धायाः स्वैरिण्याश्चेत्येवं नीवीविस्रंसनस्पर्शनघट्टनावलम्बनैश्चतुर्भिर्बाह्यैरुपसृप्तैः शयनस्थां विश्वास्य सांप्रयोगिकांश्चुम्बनादीन्प्रयुञ्जीत ॥ ५ ॥
आभ्यन्तराण्यभिधातुमाह—
रतिसंयोगे चैषा कथमनुरज्यत इति प्रवृत्त्या परीक्षेत ॥ ६ ॥
रतिसंयोगे चेति । रत्यर्थे यन्त्रसंयोगे सत्येनामिति, बाह्यैरुपसृप्तां प्रवृत्त्या चेष्टया परीक्ष्य यथा कथं चिदाभ्यन्तरैरुपसर्पेदित्यर्थः ॥ ६ ॥
तत्र प्रवृत्तिमाह—
युक्तयन्त्रेणोपसृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेदेतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥ ७ ॥
युक्तयन्त्रेनेति । यत इति । यत्र संबाधस्यान्तरं भागं लक्षीकृत्य साधनेनोपसृप्यमाणा तत्स्पर्शसुखाद्, दृष्टिमावर्तयेद्=दृष्टिमण्डल भ्रमयेत, तत एवेति । तामाश्रित्य पीडयेत्, तस्मिन्नेव साधनेनात्यर्थमुपसर्पेत्,
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३७
तत्र हि पीडनाद् द्रुतं रतिमधिगच्छति, एतद्रहस्यं स्त्रीभिरप्रकाश्या-
त्वात्, तथा हि रतिप्राप्त्यर्थमन्यैः प्रकारान्तरमुक्तं शास्त्रकृतः सुवर्णना-
भमतमभिमतमप्रतिषिद्धत्वाद्, अत्र च रतिवर्धनमेको बहव इति केषां-
चित्प्रदेशविवादः, तत्रोपसृप्यमाणा यस्मिन्नेकस्मिन्म्रियते वा देशे स्पृष्टा
दृष्टिमावर्तयेत्तस्मिन्नेव पीडयेदित्येकः प्रकारः, बहुषु वा यस्मिन् य-
स्मिन्नुपसृप्यमाणा दृष्टिमावर्तयेत्तस्मिंस्तस्मिन्नेव पीडयेदिति द्वितीयः,
तत्रापि यस्मिन्नत्यर्थं दृष्टिमावर्तयेत्तस्मिन्नत्यर्थमेव पीडयेदिति बोद्ध-
व्यम्, एतेन नाडीप्रदेशा अप्यन्यतन्त्रोक्ता व्याख्याताः, तेषामनेनैव प्र-
कारेण जायमानत्वात् ॥ ७ ॥
उपसृप्यमाणाया भावस्य तिस्रोऽवस्थाः—प्राप्तः, प्रत्यासन्नः, संधु-
क्ष्यमाणश्चेति त्रयाणां लक्षणमाह—
गात्राणां संसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रति-
योजनेति स्त्रीणां भावल्लक्षणम् ॥ ८ ॥
तत्र गात्रावसादो नेत्रनिमीलनं च प्राप्तस्य लिङ्गं, व्रीडानाशो ल-
ज्जानिवृत्तिः, रतियोजनेति। रत्यर्थे योजना यन्त्रयोजनेत्यर्थः, सा स्वजघन-
स्य नायकजघनेनात्यन्तलग्नात्, समधिकेति, प्रत्यासन्नभावलक्षणमिति,
प्राप्तप्रत्यासन्नस्येत्यर्थः ॥ ८ ॥
संधुक्ष्यमाणस्याह—
हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाह-
न्ति रतावसाने च पुरुषातिवर्तिनी ॥ ९ ॥
हस्ताविति । विधुनोति कम्पयति, उत्थातुं न ददाति यन्त्रयोगात्,
पुरुषातिवर्तिनीति । पुरुषस्य रतिप्राप्तौ तमतिक्रम्य; स्वजघनव्यापारेण
वर्तत इत्यर्थः ॥ ९ ॥
तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेदामृदुभा-
वात् ततो यन्त्रयोजनम् ॥ १० ॥
तस्याश्चेष्टितमीदृशं बुद्ध्वा यन्त्रयोगात्प्राग् न तु स्वयं रतमधि-
गम्य; पश्चात्तदानीमस्या रतं विच्छिन्नरसं स्यात्, सम्बाधो भागतश्चतु-
र्विधः, यथोक्तम्—
‘अन्तः पद्मदलस्पर्शं गुटिकावच्च योषितः ।
वलिभं च वराङ्गं स्याद्गोजिह्वाकर्कशं तथा’ इति ॥
तत्राद्यं त्यक्त्वा शेषं कण्डूतिबहुलत्वात्करेण क्षोभयेद्, आमृदु-
भावादिति। यावन्मृदुतां गतं, ततो यन्त्रयोजनम्, मृदुभूते हि तस्मि-
१८ का० सू०
१३८ सटीके कामसूत्रे [ २ अधिकरणे,
न्युपसृप्यमाणा द्रुतं रतिमधिगच्छति, गज इवेति। करौपम्यार्थं, गजाकारेणेत्यर्थः, तथा चोक्तम्—
'अनामिकाप्रदेशिन्यौ श्लिष्टाग्रे ज्येष्ठया सह।
गजहस्ताग्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम्' इति ॥
एवं च करग्रहणं कृत्रिमसाधनोपलक्षणार्थं, तेन कृत्रिमेणाभ्यन्तरान्युपसृप्तानि द्रष्टव्यानि ॥ १० ॥
तान्याह—
उपसृप्तकं मन्थनं हुलोऽवमर्दनं पीडितकं निर्घातो वराहघातो-वृषाघातश्चटकविलसितं संपुट इति पुरुषोपसृप्तानि ॥ ११ ॥
लिङ्गेन सम्बाधस्य मिश्रणात्सर्वमेवोपसृप्तकम् ॥ ११ ॥
न्याय्यमृजु संमिश्रणमुपसृप्तकम् ॥ १२ ॥
तत्र यदृजु प्रगुणं न्याय्यमागौपालाङ्गनाप्रसिद्धं मिश्रणं तद्, उपसृप्तकमिति। तत्र कन्प्रत्ययेन विशेषसंज्ञां दर्शयति ॥ १२ ॥
हस्तेन लिङ्गं सर्वतो भ्रमयेदिति मन्थनम् ॥ १३ ॥
हस्तेन लिङ्गं गृहीत्वा सम्बाधाभ्यन्तरे सर्वतो मथन्निव भ्रमयेत् ॥ १३ ॥
नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति हुलः ॥ १४ ॥
नीचीकृत्य जघनामिति। स्वकटिमधः कृत्वा, उपरिष्टादिति। अभ्यन्तरस्योर्ध्वभागे भगं बहुलेनैव लिङ्गेनावघट्टयेत् ॥ १४ ॥
तदेव विपरीतं सरभसमवमर्दनम् ॥ १५ ॥
तदेवेति। घट्टनं, विपरीतमुच्चीकृत्य जघनमधस्तादिति, विशेषश्चापरो यः, सरभसमिति। रभसेन मृद्नीयादित्यर्थः, अधोभागस्य कण्डूतिबहुलत्वात् ॥ १५ ॥
लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेतेति पीडितकम् ॥ १६ ॥
लिङ्गेनेति। वेगादामूलं प्रवेश्यमानेन समाहत्य पीडयन्भगमवतिष्ठेत, चिरमिति। यावन्तं कालं लिङ्गोन्नमनावनमनानि कर्तुं समर्थः ॥ १६ ॥
सुदूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति निर्घातः ॥ १७ ॥
सुदूरमिति। प्रवेशितं लिङ्गमाबन्धमाकृष्य वेगेन जघन एव निर्घातवत्क्षिपेत् ॥ १७ ॥
एकत एव भूयिष्ठमवलिखेदिति वराहघातः ॥ १८ ॥
८ अध्याये ] पुरुषायितप्रकरणम्। १३५
एकत एवेति । एकस्मिन्नेव पार्श्वे भूयिष्ठं बहून्वारान् वराहवद्दंष्ट्रयाऽवलिखेत् ॥ १८ ॥
स एवोभयतः पर्यायेण वृषाघातः ॥ १९ ॥
स एवेति । वराहस्य घातः, उभयत इति । उभयपार्श्वयोः परिपाट्या वृषभवच्छृङ्गाभ्यामवलिखेत् ॥ १९ ॥
सकृन्मिश्रितमनिष्क्रमय्य द्वित्रिश्चतुरिति घट्टयेदिति चटकविलसितं रागावसानिकम् ॥ २० ॥
सकृन्मिश्रितमिति । एकवारं प्रवेशितं लिङ्गमनिष्क्रमय्यानिष्कास्य बहिरभ्यन्तरमेव किं चिदाकृष्याकृष्य चटकवत्तत्र लिङ्गं संघट्टयेद्, द्वित्रिर्वा प्रघर्षणं, चतुरिति । रागावसानिकमेतद्, विसृष्ट्यवस्थायामेवंस्वभावत्वात् ॥ २० ॥
व्याख्यातं करणं संपुटमिति ॥ २१ ॥
व्याख्यातमिति । करणं संपुटं, तच्च व्याख्यातम्—‘ऋजुप्रसारितावुभयोश्चरणौ’ इति तत्र लिङ्गमनिष्क्रमय्य जघनेन जघनमवगृह्य यत्संमिश्रणं तदपि संपुटमित्युक्तम् ॥ २१ ॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥ २२ ॥
तेषामिति । उपसृप्तकादीनां, स्त्रीसात्म्यादिति । येन यस्याः सात्म्यं तेन तस्यां प्रयोगः, विकल्पेन मृदुमध्यातिमात्रभेदेन, तत्र पुरुषोपसृप्तेषु यद्बाह्यं नीवीविश्लेषणादिकं तद् द्वितीये मार्गे नायककक्षाबन्धविश्लेषणादिबाह्यं पुरुषायितं, यच्चाभ्यन्तरमुपसृप्तं तन्मार्गद्वयेऽप्याभ्यन्तरं पुरुषायितं द्रष्टव्यम् ॥ २२ ॥
पुरुषोपसृप्तं प्रकरणमुक्त्वा विशेषाभिधित्सया पुनः पुरुषायितमाह—
पुरुषायिते तु संदंशो भ्रमरकः प्रेङ्खोलितमित्यधिकानि ॥२३॥
पुरुषायिते त्विति । आभ्यन्तरे पुरुषायिते प्रवर्तमानायास्त्रीण्यधिकानि ॥ २३ ॥
वाडवेन लिङ्गमवगृह्य निष्कर्षन्त्या पीडयन्त्या वा चिराय स्थानं संदंशः ॥ २४ ॥
बाडवेनेति । वशद्यौष्ठसंदंशेन लिङ्गमवगृह्य, निष्कर्षन्त्या अन्तः समाकर्षन्त्याः स्थानमवस्थितिः ॥ २४ ॥
युक्तयन्त्रा चक्रवद् भ्रमेदिति भ्रमरक आभ्यासिकः ॥ २५ ॥
१४० सटीके कामसूत्रे [ २ अधिकरणे,
युक्तयन्त्रेति । भगप्रवेशितलिङ्गा कुलालचक्रवत्कुञ्चितचरणा नायकाङ्गे हस्ताभ्यां शरीरावष्टम्भं कृत्वा भ्रमेद्, अयमभ्यासाद्भवति ॥ २५ ॥
तत्रैतरः स्वजघनमुत्क्षिपेत् ॥ २६ ॥
तत्रेति । भ्रमरके, इतरो नायको यन्त्राविश्लेषार्थं भ्रमरसौकर्यार्थं च स्वजघनमूर्ध्वं क्षिपेत् ॥ २६ ॥
जघनमेव दोलायमानं सर्वतो भ्रमयेदिति प्रेङ्खोलितम् ॥ २७ ॥
दोलायमानमिति। पृष्ठतो नीत्वाऽग्रतो नयेद्, एकं पार्श्वं नीत्वा द्वितीयमित्येवं, तत्प्रेङ्खोलितकम्, मण्डलेन तु भ्रमितं मन्थनान्तर्भूतं, तेषां पुरुषसाम्याद्विकल्पेन च प्रयोग इत्यत्रापि योज्यम् ॥ २७ ॥
युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत् ॥ २८ ॥
युक्तयन्त्रैव विश्राम्येद् न विश्लिष्टयन्त्रा रागस्यानुपशान्तत्वाद्, ललाटे ललाटं निधायेति । श्रमापनयनकारणम् ॥ २८ ॥
विश्रान्तायां च पुरुषस्य पुनरावर्तनमिति पुरुषायितानि ॥ २९ ॥
पुनरावर्तनं=पुनरुपरि गमनमित्यर्थः, रत्यधिगमात्तु परिश्रान्तायां पुनरावर्तनमित्यर्थोक्तं, यथा रतपरिश्रान्तेन साहायकार्थं पुरुषायितेऽनुमन्यते, तथा तत्स्वभावप्रतिपत्त्यर्थमिति ॥ २९ ॥
तत्र नियोज्येति दर्शयन्नाह—
भवन्ति चात्र श्लोकाः—
प्रच्छादितस्वभावाऽपि गूढाकाराऽपि कामिनी ।
विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥ ३० ॥
प्रच्छादितस्वभावाऽपीति । लज्जया प्रच्छादितोऽभिप्रायो यया, कथमित्याह—गूढाकारेति । अभिप्रायसूचकस्याकारस्य गोपितत्वात्, साऽप्युपरिवर्तिनी कामिनी कामयमाना स्वभावमात्मीयमभिप्रायं रागात्प्रकाशयति न गूहितं शक्नोत्यतो नियोज्या ॥ ३० ॥
तदेव स्फुटयन्नाह—
यथाशीला भवेन्नारी यथा च रतिलालसा ।
तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ॥ ३१ ॥
यथाशीलेति । यादृशः स्वभावो यस्याः, यथा च रतिलालसा, येन प्रकारेण रतौ जाततृष्णा, तस्या उपरिवर्तिन्या विचेष्टाभिस्तत्प्रकाराभिः, तत्सर्वमिति । शीलं रतिप्रकारं च सर्वमुपलक्षयेद्, येनोत्तरकाले तथैव सुरते समुपक्रमेत ॥ ३१ ॥