सामग्री पर जाएँ
सर्वकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 201, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 201

१९४ सटीक कामसूत्रे [ ३ आधिकरण,

गुणेति । यथोक्तगुणानां साम्ये, एको वरयिता वर इति । व्रियन्त-
इति वराः सर्व एवाभियोक्तारः, तेषां वर एको वरयिता वरणे साधुः,
‘वर ईप्सायां’ साधुकारिणि तृन्, तस्मिन्नभियोक्तरि वरयितृत्ववि-
शिष्टे, श्रेष्ठता तस्यानुरागात्मकत्वात् ॥ ५९ ॥
इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं-
प्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगः, प्रयोज्योपावर्तनमभियोगतश्च
कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ।


पञ्चमोऽध्यायः ।

एवमनुरञ्जितां स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेद्, विपरीतामा-
सुरादिभिरिति विवाहयोगा उच्यन्ते-तत्र गान्धर्वेण या प्रायशो विविक्ता-
दृश्यन्ते, तस्या बहुसिद्ध्याः सुकरमभिप्रेतदेशनयनं, या तु न प्रायश-
स्तस्यास्तावत्सहायसाध्यविधिमाह—

प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रिय-
हिताभ्यामुपगृह्योपसर्पेत् ॥ १ ॥

प्राचुर्येणेति । धात्रेयिकां पुरुषप्रवृत्तामत्यर्थाद् , उपगृह्य प्रियहिता-
भ्यामुपसर्पेत् , तस्याः समीपे निसृष्टार्थां प्रेषयेत् ॥१॥

सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्ज-
येत् ॥ २ ॥

सा चेति । सा = उपसर्पिता, अविदिता नाम, नायकस्याविदितेव
भूत्वा; कृतकप्रयोगपरिहारार्थं, तद्गुणैरिति । तस्य नायकस्य गुणैः॥२॥

तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठमुपवर्णयेत् ॥ ३ ॥

तस्याश्चेति । रुच्यानभीष्टान् ॥ ३ ॥

अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेद् माता-
पित्रोश्च गुणानभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ॥४॥

अभिप्रायविरुद्धानिति । यथा नेच्छति तानियं तथेत्यर्थः, गुणानभि-
ज्ञतां लुब्धतां चेति । ‘अगुणज्ञौ तव पितरौ लुब्धौ च, येन गुणवन्तमप-
हायान्यं धनिनं निर्गुणं गवेषयतः’ इति प्रतिपादयेत् ॥ ४ ॥