सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

६ अध्याये ] चित्ररतप्रकरणम् । १२५

६ अध्याये ] चित्ररतप्रकरणम् । १२५

वेश्यां विटाः, युवानं च स्त्रियः पूर्ववदनुरञ्जयेयुरित्यर्थः, बह्वीभिश्च गौयूथिकमित्येतत्स्वदारेषु नायकव्यापारमधिकृत्योक्तम् ॥ ४५ ॥

अधोरतं पायावपि दाक्षिणात्यानाम् ॥ ४६ ॥
इति चित्ररतानि ।

अधोरतमिति । अपानस्य जघनाधःस्थितत्वात्, तच्च स्त्रीपुंसविषयभेदेन द्विविधं, तदपि विमार्गमहेनाच्चित्रम्, औपरिष्टिकं तु तृतीयाप्रकृतिविषयत्वान्न चित्रं, स्त्रीपुंसयोश्च चित्रमेव, विमार्गमहेनाद्, दाक्षिणात्यानामिति । देशप्रवृत्तिं दर्शयति ॥ ४६ ॥

पुरुषोपसृप्तानि पुरुषायिते वक्ष्यामः ॥ ४७ ॥

पुरुषोपसृप्तानि तु संवेशनानन्तरत्वादवसरप्राप्तान्यपि पुरुषायिते वक्ष्यामः ॥ ४७ ॥

तत्राप्युपयोगित्वाच्चित्ररतस्य वर्धनमाह—
भवतश्चात्र श्लोकौ—

पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः ।
तैस्तैरुपायैश्चित्तज्ञो रतियोगान्विवर्धयेत् ॥ ४८ ॥

पशूनामिति । तत्राधोदशनाः पशवः, ऊर्ध्वाधोदशना मृगाः, पतङ्गाः= पक्षिणः, तैस्तैरिति । ये ये प्रत्यक्षत उपलब्धाः, विभ्रमैरिति । विचेष्टितैः स्वरकायगतैः, चित्तज्ञ इति । स्त्र्यभिप्रायं बुद्ध्वेत्यर्थः, रतियोगानिति । रत्यर्थान्योगाम्, विवर्धयेदपरानपरान्प्रयोजयेदित्यर्थः ॥ ४८ ॥

तद्विवर्धने किं फलमित्याह—

तत्सात्म्याद्देशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः ।
स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥ ४९ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः ।
आदित एकादशः ।

तत्सात्म्यादिति । नायिकायाः प्रकृतिसात्म्याद्, देशसात्म्यं प्रागुक्तं, तैस्तैरिति । पश्वादिविभ्रमैः, भावैरिति । भावहेतुत्वात्प्रयोजितैः, नायिकया प्रयोजितया तदभिप्रायेण हि नायकेन प्रयुज्यमानत्वाद्, भावैर्वा प्रयोजकैरिति योज्यं, स्नेहः=सक्तिः, रागस्तृप्तिः, बहुमानो गौरवं विदग्ध इति ॥ ४९ ॥

चित्ररतानि चतुर्दशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः ।

१२६ सटीके कामसूत्रे [ २ अधिकरणे,

सप्तमोऽध्यायः ।

एवं संविष्टाया यन्त्रयोगे प्राधान्येन प्रहणनमिति प्रहणनप्रयोगाः, प्रहणनोद्भवत्वाच्च सीत्कृतस्य तद्युक्ता एव सीत्कृतक्रमा इति प्रकरणद्वयमत्राध्याये, यथा प्रहणनस्य प्रयोग इति सूचनार्थं क्रमग्रहणम् ,

प्रहणनं द्वेषजननं कथं सुरतोपयोगीत्याह—

कलहरूपं सुरतमाचक्षते विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य ॥ १ ॥

कलहरूपमिति । कलहसदृशमित्यर्थः, कथमित्याह—विवादात्मकत्वादिति । स्त्रीपुंसयोः स्वार्थसिद्धये परस्पराभिभवेन संप्रयुज्यमानत्वाद्विवादात्मकं, वामशीलत्वाच्चेति । प्रतिकूलस्वभावत्वात्कामस्य, यत्सुकुमारक्रमलब्धजन्मनोऽपि मनोभवस्य सुरते निर्दयोपक्रमेणातिवाह्यमानत्वात्, तथा चोक्तं-किराताजुर्नीये ९।४९

'आदृता नखपदैः परिरम्भाश्चुम्बितानि नखदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥,

अत्रापिशब्दो भिन्नक्रमः सौकुमार्यगुणसम्भृतकीर्तिरपि सुरतेषु वामएवेति, तेन हेतुफलभावेनावस्थानात्कामस्य स्वभावद्वयम्, एकः संप्रयोगेच्छालक्षणः, अन्यो विसृष्टिलक्षण इति ॥ १ ॥

तस्य रागवशात्प्रहणनमङ्गं स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि ॥ २ ॥

तस्य=सुरतस्य, प्रहणनमङ्गमुपकरणं, स्थानानीति । प्रहणनस्य ॥२॥

तच्चतुर्विधमपहस्तकं प्रसृतकं मुष्टिः समतलकमिति ॥ ३ ॥

तदिति । प्रहणनं घातश्चतुर्विधम्, अपहस्तकादिप्रहणनस्य चतुर्विधत्वात्, प्रहण्यते वा स्थानमनेनेति प्रहणनमपहस्तकादीनि, करणे ल्युट्, तत्रापहस्तको हस्तपृष्ठं प्रसृताङ्गुलि, प्रसृतकं वक्ष्यति, मुष्टिः प्रसिद्धः, समतलकं=सुस्थिरहस्ततलं, यस्य मुस्तकेति प्रसिद्धिः॥३॥

द्वितीयं प्रकरणं प्रहणनान्तर्गतमिति दर्शयन्नाह—

तदुद्भवं च सीत्कृतं तस्यातिरूपत्वात् तदनेकविधम् ॥ ४ ॥

तदुद्भवं चेति । तदुद्भवं प्रहणनादुद्भवतीति, कुत एतदित्याह-तस्यातिरूपत्वादिति । सीत्कृतं हि पीडया जन्यमानत्वात्तद्रूपमित्युक्तं, यथा कलहे प्रहणनात्पीडया सीत्कृतं क्रियते तथेहापि पीडाद्योतनार्थं यच्छब्दितं तत्सीत्कृतमिव सीत्कृतं पूर्वाचार्यैः संज्ञितं, न तु सीत्करणमेव सीत्कृतं, यदाह-तदिति । सीत्कृतमनेकविधं, हिंकारादिभेदात् ॥ ४ ॥

६ अध्याये ] चित्ररतप्रकरणम् । १२७

विरुतानि चाष्टौ ॥ ५ ॥

विरुतानीति । तानि मूलवर्गेण संगृहीतानि सीत्कृतप्रकरण एव ध्वनित्वस्वभावत्वादुक्तानि, तेषां च रतिजन्यत्वात्प्रहरणे च मनोज्ञत्वात्प्र-योगः, सीत्कृतस्य तु प्रहरण एवेति विशेषः ॥ ५ ॥

हिंकारस्तनितकूजितरुदितसूत्कृतदूत्कृतफूत्कृतानि ॥ ६ ॥

तत्र हिंकारो यः सानुनासिकेन हिशब्देन क्रियते कण्ठनासिका-भ्यामूर्ध्वं गच्छन्मधुरो ध्वनिन्निष्पाद्यते, स्तनितं मेघस्येव यद्गम्भीरं ध्व-नितं, तच्च कण्ठाद्धृंशब्देन निष्पाद्यते, रुदितं प्रतीत ताच्च मनोहारि स्यात्, सूत्कृतं सूत्करणं च श्वसितापरनाम, कूजितदूत्कृतफूत्कृतानां लक्षणं वक्ष्यति, सप्तैतान्यव्यक्ताक्षराणि, अम्बाऽर्थादयो गण एको-व्यक्ताक्षरः ॥ ६ ॥

अम्बाऽर्थाः शब्दाः, वारणार्था मोक्षणार्थाश्चालमर्थास्ते ते चा-र्थयोगात् ॥ ७ ॥

अम्बाऽर्था इति । अम्ब मातरित्यादयः, वारणार्था मा तिष्ठेत्या-दयः, अलमर्था भवतु पर्याप्तमित्येवमादयः, मोक्षणार्थास्त्यज मुञ्चेत्या-दयः, ते ते चार्थयोगादिति । अन्येऽपि पीडार्थयुक्ता मृताऽस्मि परित्रा-यस्वेत्येवमादयः ॥ ७ ॥

पारावतपरभृतहारीतशुकमधुकरदात्यूहहंसकारण्डवलावकवि-रुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥ ८ ॥

पारावतादीनामिव विरुतानि पारावतविरुतान्यष्टौ, दात्यूहो यस्य ‘डाउक’ इति प्रसिद्धिः, सीत्कृतभूयिष्ठानीति । सीत्कृतबहुलानि, प्रहण-नकालेऽपि सीत्कृतस्य प्राधान्यादन्तरा प्रयुञ्जीतेत्यर्थः, सीत्कृते हि स्व-रान्तर्संश्लिष्टं मनोहारि स्याद्, विभाषाश्लिष्टगीतवत्, तत्रापि विक-ल्पशो विकल्पं विकल्पमेकैक मित्यर्थः ॥ ८ ॥

प्रहरणसीत्कृतयोर्यत्र देशेऽवस्थायां च प्रयोगस्तदुभयमाह—

उत्सङ्गोपविष्ठायाः पृष्ठे मुष्टिना प्रहारः ॥ ९ ॥

उत्सङ्गोपविष्ठाया इति । नायकस्योत्सङ्गे, पृष्ठे मुष्टिना प्रहारः, ना-न्यैरनुरूपत्वात् ॥ ९ ॥

तत्र सासूयाया इव स्तनितरुदितकूजितानि प्रतीघातश्च स्यात्॥१०॥

तत्रेति । मुष्टिना प्रहारे, सासूयाया इव प्रहारमक्षममाणाया इव प्रयोक्तव्यास्र्तद्योतकानि स्तनितकूजितरुदितानि स्युस्तत्प्रहारानु-रूपत्वात्, प्रतीघातश्चेति । मुष्टिनैव तत्पृष्ठे प्रतीघातः स्यात् ॥ १० ॥

१२८ सटीके कामसूत्रे [ २ अधिकरणे,

युक्तयन्त्रायाः स्तनान्तरेऽपहस्तकेन प्रहरेत् ॥ ११ ॥

युक्तयन्त्रायाः=उत्तानायाः, स्तनान्तरे=स्तनयोर्मध्ये, अपहस्तकेन प्रहरेद् नान्यैरननुरूपत्वात् ॥ ११ ॥

मन्दोपक्रमं वर्धमानरागमापरिसमाप्तेः ॥ १२ ॥

मन्दोपक्रमं वर्धमानरागमिति क्रियाविशेषणम्, आरम्भे मन्दया वृत्त्या प्रहारः, ततो यथा रागो वर्धते तथाऽधिक एवेत्यर्थः, आपरिसमाप्तेस्तृप्तिं यावत्, स्तनान्तरे हि रागास्पदस्य हृदयस्यावस्थानाद्, योषितो हि त्रीणि रागस्थानानि-शिरो जघनं हृदयं चेति, तेषु दश्यमानेषु चिरचण्डवेगाऽपि रागं मुञ्चति ॥ १२ ॥

तत्र हिंकारादीनामनियमेनाभ्यासेन विकल्पेन च तत्कालमेव प्रयोगः ॥ १३ ॥

तत्रेति । अपहस्तप्रहणने, हिंकारादीनां सप्तानाम्, अनियमेनेति । मृदुना हृदयस्य हन्यमानत्वात्सर्वेषामेवार्तिसूचकानां संभवः, विकल्पेन मृदुमध्यातिमात्रभेदेनाभ्यासेन च पौनःपुन्येन, तत्कालमेवेति । युगपदपहस्तप्रहणनकालमेव तस्य समाप्त्यवधिकः कालः ॥ १३ ॥

शिरसि किंचिदाकुञ्चिताङ्गुलिना करेण विवदन्त्याः फूत्कृत्य प्रहणनं तत्प्रसृतकम् ॥ १४ ॥

किंचिदाकुञ्चिताङ्गुलिना करेण फणाकारेणेत्यर्थः, विवदन्त्या इति । अपहस्तेनासुखायमाना यदि प्रहारान्तराकाङ्क्षया प्रत्यवतिष्ठेत, तदाऽस्याः प्रथमे रागास्पदे शिरसि तदनुरूपेण प्रसृतकेन प्रहणमपरं मन्दोपक्रमं वर्धमानरागमापरिसमाप्तेर्विधेयम्, फूत्कृत्येति । रागदीपनार्थम् ॥ १४ ॥

तत्रान्तर्मुखेन कूजिते फूत्कृतम् ॥ १५ ॥

तत्रेति । प्रसृतकाघाते, कूजितं फूत्कृतं च नायिकायाः स्यात्, कथमित्याह—अन्तर्मुखेनेति । मुखस्यान्तः स्थानमन्तर्मुखं, तत्र कूजितं, तत्संवृतेन कूजितमित्यनेनाव्यक्तं शब्दितं, यदा विवृतेन जिह्वामूलेन च तत्फूत्कृतं, तस्यानुकार्यं वक्ष्यति-बदरस्येवेति ॥ १५ ॥

रतान्ते च श्वसितरुदिते वेणोरिव स्फुटतः शब्दानुकरणं दूत्कृतम् ॥ १६ ॥

रतान्ते च श्वसितरुदिते, तदानीं धातुक्षयाच्छ्रमोत्पत्तेः, श्वसितं रुदितं च मधुरं काङ्ग्या प्रयोक्तव्यं, वेणोरिव पुरुषव्यापारेण ग्रन्थिस्थाने स्फुटतस्तच्च दूत्कृतम् ॥ १६ ॥

७ अध्याये ] सीत्कृतप्रकरणम् । १२९

अप्सु बदरस्येव निपततः फूत्कृतम् ॥ १७ ॥

तालवाग्रादुपरिभागस्य जिह्वाऽग्रे संश्लेषादुत्पद्यते, बदरस्येवेति वृत्तगुटिकोपलक्षणार्थं, निपततः, शब्दानुकरणमिति वर्तते, यस्येदं लक्षणं—

‘सलिले शर्करापातकाले निःस्तिमितध्वनिः’ इति ॥ १७ ॥

सर्वत्र चुम्बनादिषूपक्रान्तायाः ससीत्कृतं तेनैव प्रत्युत्तरम् ॥१८॥

चुम्बनादिष्वपक्रान्ताया इति। चुम्बननखदशनच्छेद्येषु पुरुषेणाभियुक्तायाः, ससीत्कृतं तेनैव प्रत्युत्तरं येनैव चुम्बनादीनामन्यतमेनोपक्रान्ता, तेनैव हिंकारादिसहायेन प्रत्युत्तरयेदित्यर्थः, अनेन ‘कृते प्रतिकृतं कुर्याद्’ इति स्मारयति ॥ १८ ॥

रागवशात्प्रहणनाभ्यासे वारणमोक्षणालमर्थानां शब्दानामम्बार्थानां च सतान्तश्वसितरुदितस्तनितपिश्रीकृतः प्रयोगो विरुतानां च रागावसानकाले जघनपार्श्वयोस्ताडनमित्यतित्वरया चापरिसमाप्तेः ॥ १९ ॥

रागवशात्प्रहणनाभ्यास इति। यदा रागस्योद्रेकान्नायकः पौनःपुन्येन प्रहरेत्तदा वारणार्थानां प्रयोगो युक्तः, किंरूप इत्याह—सतान्तेति। सह खिन्नाभ्यां श्वसितरुदिताभ्यां वर्तते यत्र स्तनितं तेन योजित इत्यर्थः, पारावतादिविरुतानां च प्रयोग एवंविध एव, रागावसानकाल इति। लिङ्गादासन्नवर्तिनी रतिरिति ज्ञात्वा जघने तृतीयरागास्पदे पार्श्वयोः कक्षाधस्ताडनं समतलेनेति पारिशेष्याद्, अन्ये ‘समतलकेनेति पठन्त्येव, अतित्वरयेति। विश्रब्धिकया हि ताडने मार्गासन्ना रतिर्निवर्तते ॥ १९ ॥

तत्र लावकहंसविकूजितं त्वरयैवते स्तननप्रहणनयोगाः ॥ २० ॥

तत्रेति। समतलकरताडने लावकहंसयोरिव कूजितं शब्दितं स्याद्, मृदुमधुरत्वात्, तच्च त्वरयैव, प्रहणनस्य त्वरितत्वात्, स्तननप्रहणनयोगा- इति। सीत्कृतविरुतात्मनः शब्दितस्य प्रहणनस्य च प्रयोगा उक्ताः ॥२०॥

स्त्रीपुंसयोः प्रहणनसीत्कृतेषु कस्य किं सहजं तेज इत्याह—

भवतश्चात्र श्लोकौ—

पारुष्यं रभसत्वं च पौरुषं तेज उच्यते ।
अशक्तिरार्तिर्व्यावृत्तिरबलत्वं च योषितः ॥ २१ ॥

१७ का० सू०

१३० सटीके कामसूत्रे [ २ अधिकरणे,

रागात्प्रयोगसात्म्याच्च व्यत्ययोऽपि क चिद्भवेत् ।
न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् ॥ २२ ॥

पारुष्यमिति । चेतसः शरीरस्य च कठोरता, रभसत्वमिति । अविमृश्यकारिता धाष्टर्यं च, एतदुभयं पुरुषस्येदं तेजो धर्म इत्यर्थः, तद्योगात्पुरुषः प्रहरति, अशक्तिर्हन्तुमसामर्थ्यं, हस्तसौकुमार्यादार्तिः पीडा, प्रत्य व्यावृत्तिः, पुरुषेण हन्तुं नियुक्तायाः स्त्रिया अबलत्वं निष्प्राणता, स्वयमोषदाहरणाद्, एते स्त्रैणा धर्मास्तद्युक्तत्वाद्, न प्रहरणं, सीत्कृतमेव तदुद्भवम्, अतः सीत्कृतप्रहरणे विषयप्रतिनिधते, क चिदिति । न सर्वत्र रते व्यत्ययोऽपि स्यात्, कारणमाह—राग्रप्रयोगसात्म्यादिति । रागस्य प्रकर्षेण योगाद्देशसात्म्याच्च स्त्री स्वधर्मंस्यक्त्व्वा; पौरुषं तेजोबिभ्रती प्रहन्ति, तदा पुरुषः स्त्रीप्रोत्साहनार्थं स्वधर्मं त्यक्त्वा; तद्धर्मीनालभ्य; सीत्कृतविरुतानि कुर्यात्, तत्रापि न चिरं कियतीमपि कालकलां व्यत्ययः स्यात् , ततः किं स्यादित्याह—तस्य चैवेति । तस्यैव व्यत्ययस्यान्ते प्रकृतेरेव योजनं स्याद् , यथा स्वतेजसा स्त्रीपुंसयोर्वर्तनमित्यर्थः, तदिमौ व्यत्ययप्रकृतियोजनाभ्यां प्रवर्त्तेयानामासमाप्तेः, रागप्रयोगसात्म्याभावे तु प्राक्तन एव विधिः, तत्र व्यत्ययाभावात् ॥ २१ ॥२२॥

प्रहरणं चतुर्विधमुक्तं यथा तदष्टधा दर्शयन्नाह—

कीलामुरसि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह प्रहरणमष्टविधमिति दाक्षिणात्यानां, तद्युवतीनामुरसि कीलानि च तत्कृतानि दृश्यन्ते, देशसात्म्यमेतत् ॥ २३ ॥

कीलामुरसीति । तत्र मुष्टिरेव तर्जनीमध्यमयोर्बहिःपृष्ठभागेन निष्क्रान्तयोरु पर्यंङ्गुष्ठयोजनात्कीला; तयाऽधोमुख्या ताडनं, कर्तरी द्विविधा - प्रसृतकुञ्चिताङ्गुलिभेदात् , तत्र प्रसृताङ्गुलिर्द्विविधा, हस्तेनैकेन मद्रकर्तरी, द्वाभ्यां संश्लिष्टाभ्यां यमलकर्तरी, या कुञ्चिताङ्गुल्यङ्गुष्ठाग्रोपरि न्यस्तकुञ्चिततर्जनीका सा शब्दकर्तरी प्रयुज्यमाना श्लथाङ्गुलित्वादमितशब्दवती भवति, कैश्चिदुत्पलपत्रिकेत्युच्यते, उभाभ्यामपि कनिष्ठिकाऽग्रभागेण शिरसि ताडनं, तर्जनीमध्यमयोर्मध्यमानामिकयोर्वा मध्येनाङ्गुष्ठं निष्कास्य बद्धा मुष्टिर्विद्धा तयाऽङ्गुष्ठकवदनया कपोलयोर्ग्रंथनमेव ताडनम् , मुष्टिरेव तर्जन्यङ्गुष्ठकाभ्यां तर्जनीमध्यमाभ्यां वा संदंशनात्संदंशिका, तया स्तनयोः पार्श्वयोश्च मलनपूर्वकं मांसस्याकर्षणमेव ताडनं, पूर्वैरित्यपहस्तादिभिः, अष्ट-

७ अध्याये ] सीत्कृतप्रकरणम् । १३१

विधमिति दाक्षिणात्यानाम्, आचार्याणां तु चतुर्विधमस्ति, एतत्प्रत्यक्षेण दर्शयन्नाह—कीलानि चेति । तद्युवतीनां दाक्षिणात्यतरुणीनाम्, उरसीत्युपलक्षणम्, उरसि कीलाकृतं शिरसि सीमन्तमुखे कर्तरीकृतं, कपोलयोर्विद्धाकृतं, देशसात्म्यमेतद्, यद्रागवशात्तत्कृतं-चिह्नं वैरूप्यकारणमपि श्लाघ्यते ॥ २३ ॥

तन्नान्यत्र प्रयोक्तव्यमित्याह —

कष्टमनार्यवृत्तमनादृत्यमिति वात्स्यायनः ॥ २४ ॥

कष्टमिति । दुःखावहं निर्दयकर्मत्वाद्, अनार्यवृत्तमसाधुचरितम्, अनादृत्यमित्यनादरणीयं, दोषावहत्वात् ॥ २४ ॥

तथाऽन्यदपि देशसात्म्यात्प्रयुक्तमत्र न प्रयुञ्जीत ॥ २५ ॥

तथाऽन्यदपि, प्रस्तराद्याहननं, देशसात्म्यत्प्रयुक्तं दाक्षिणात्यैः, अत्र नेति ॥ २५ ॥

आत्ययिकं तु तत्रापि परिहरेत् ॥ २६ ॥

आत्ययिकं विनाशाङ्गवैकल्यकरणं, तत्रापि परिहरेद्यत्रापि प्रयुक्तम् २६

तमेवात्ययं दर्शयन्नाह —

रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान ॥ २७॥

रतियोग इति । रत्यर्थे योगे यन्त्रसंप्रयोगे, चोलराजश्चोलविषये राजा, तेन हि चित्रसेना गणिका रतारम्भे दृढमालिङ्गिता सौकुमार्याच्छरीरपीडामभजत्, तथा प्रदर्शितावस्थामपि तां सुकुमारोपक्रमां रागान्ध्यादगणिततद्बलः कीलयोरसि प्रयुक्तया व्यापादितवान् ॥ २७ ॥

कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम्॥२८॥

कुन्तल इति । कुन्तलविषये जातत्वात्तत्समाख्यः, शातकर्णिः=शतकर्णस्यापत्यं, शातवाहन इति यस्य संज्ञा, स हि महादेवीं मलयवतीमचिरप्रतिविहितमान्द्यामजातबलामपि मदनोत्सवे गृहीतवेषां दृष्ट्वा, जातरागस्तामभिगच्छन्नरागाक्षिप्तचेताः शिरसि कर्तर्याऽतिबलप्रयुक्तया जघान ॥ २८ ॥

नरदेवः कुपाणिर्विद्धया दुष्प्रयुक्तया नटीं काणां चकार ॥ २९ ॥

नरदेवः=पाण्ड्यराजस्य सेनापतिः, कुपाणिः शस्त्रप्रहारात्किणहस्तः, स हि राजकुले नटीं चित्रलेखां नृत्यन्तीं दृष्ट्वा जातरागः सन् प्रयोगे रागान्धो विद्धया कुपाणित्वाद्, दुष्प्रयुक्तया कपोलतलमप्राप्याक्षिप्राप्तया काणां चकार, संदंशिका नोदाहृता, स्वभावतोऽनात्ययिकत्वात् ॥ २९ ॥

१३२ सटीककामसूत्रे [ २ अधिकरणे,

यद्वशादयुक्तं न परिहरन्ति तद् दर्शयन्नाह—
भवन्ति चात्र श्लोकाः—

नास्त्यत्र गणना का चिन्न च शास्त्रपरिग्रहः ।
प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥ ३० ॥

नास्तीति । द्विविधो हि कामी शास्त्रतत्त्वज्ञस्तद्विपरीतश्च, तत्राशा-
स्त्रतत्त्वज्ञस्यात्रास्मिन् प्रहणनविधौ न स्वभावतो गणनाऽस्ति का चिद्दु
आत्ययिकमिदमपेक्षयेत्यर्थः, न च शास्त्रपरिग्रहः शास्त्रविहिताननुष्ठा-
नात्, तस्मादस्य प्रवृत्ते रतिसंयोगे राग एवात्र प्रहणनविधौ प्रयोक्तव्ये
कारणं, नापरज्ञानं, शास्त्रतत्त्वज्ञस्य तु सत्यपि रागे प्रवृत्तिकारणे ज्ञा-
नमपरं कारणं, ततश्च विमृश्यकारिणो गणना शास्त्रपरिग्रहश्चोभयमेव
भवति, तस्मादुभयोरपि प्रवृत्तौ रागः कारणं, तत्रैकस्य ज्ञानपरिष्कृ-
तोऽन्यस्य तद्विकल इति विशेषः ॥ ३० ॥

यदा चानयोरतिप्रवृद्धो रागस्तदा तद्वशाददृष्टश्रुता अपि प्रयोगा-
भवन्तीति दर्शयन्नाह —

स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः ।
सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ॥ ३१ ॥

स्वप्नेष्वपीति । असंभाव्यवस्तुप्रकाशनयोग्येष्वपि, भावाः=अभि-
प्रायाः, विभ्रमाः = चेष्टितानि, सुरतव्यवहारेषु = परस्परचुम्बनाभिगमना-
दिव्यापारेषु, तत्क्षणकल्पिताः = तत्कालनिर्मिताः, न शास्त्रत इत्यर्थः ॥३१॥

तत्रैकस्य ज्ञानपरिष्कृतत्वादतिजनन एवोच्यन्ते, अन्यस्य ज्ञानवै-
कल्यादत्ययावहा अपीति, तस्मादयं ज्ञानविकलोऽतिप्रवृद्धाद्रागात्प्रव-
र्तमानोऽत्ययं न पश्यतीति दृष्टान्तेन दर्शयन्नाह—

यथा हि पञ्चमीं धारामास्थाय तुरगः पथि ।
स्थाणुं श्वभ्रं दरीं वाऽपि वेगान्धो न समीक्षते ॥ ३२ ॥
एवं सुरतसंमर्दे रागान्धौ कामिनावपि ।
चण्डवेगौ प्रवर्तेते समीक्षेते न चात्ययम् ॥ ३३ ॥

यथा हीति । यथाऽश्वस्य विक्रमो वलितमुपकण्ठमुपजवो जवश्चेति,
पञ्चधारागतयस्तुरगशिक्षायामुक्ताः, तत्र पञ्चमीं जवाख्यां प्रकृष्ट्रामास्थाय
स्थित्वेत्यर्थः, तत्रस्थो हि वायुगतिर्भवत्यश्वः, श्वभ्रं=पौरुषं गर्तं, दरीं=
देवर्निमिताम्, एवमिति । दार्ष्टान्तिकयोजनं, सुरतसङ्कुले, कामि-
नौ स्त्रीपुंसौ, 'पुमान्स्त्रिया' इत्येकशेषः ॥ ३२ ॥ ३३ ॥