कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
२३२ सटीके कामसूत्रे [ ५ अधिकरणे,
२३२ सटीके कामसूत्रे [ ५ अधिकरणे,
स्वाभाविकमात्मनो भवनसंनिकर्षे, प्रायत्निकं मित्रज्ञातिमहामात्रवैद्यभवनसंनिकर्षे विवाहयज्ञोत्सवव्यसनोद्यानगमनादिषु ॥ ६॥
भवनसंनिकर्ष इति। गृहसमीपे क्व चिदागताया दर्शनं स्वाभाविकं न प्रयत्नकृतम्, मित्रादीनां यद् गृहं तत्समीपे यद्दर्शनं विवाहादिषु च तत्प्रायत्निकं, गमनप्रयत्नसाध्यत्वात् ॥ ६ ॥
तत्र च द्विविधे संदर्शने परिचयकारणं द्विविधं बाह्यमाभ्यन्तरं च तत्र पूर्वमधिकृत्याह—
दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुरणमाभरणप्रह्लादनमधरोष्ठविमर्दनं तास्ताश्च लीला वयस्यैः सह प्रेक्षमाणायास्तत्सम्बद्धाः परापदेशिन्यश्च कथाः, त्यागोपभोगप्रकाशनं, सख्युरुत्सङ्गनिषण्णस्य साङ्गभङ्गं जृम्भणम्, एकभ्रूक्षेपणं, मन्दवाच्यता, तद्वाक्यश्रवणं, तामुद्दिश्य बालेनान्यजनेन वा सहान्योपदिष्टा द्व्यर्था कथा, तस्यां स्वयं मनोरथावेदनमन्यापदेशेन, तामेवोद्दिश्य बालचुम्बनम्, आलिङ्गनं च, जिह्वया चास्य ताम्बूलदानं, प्रदेशिन्या हनुदेशघट्टनं, तत्तद्यथायोगं यथाऽवकाशं च प्रयोक्तव्यम् ॥ ७ ॥
साकारमिति। भावसूचकेन मुखनयनगतेनाकारेण सह सततं प्रेक्षणं कर्तव्यं, केशसंयमनं केशानवमुच्य बन्धनं, नखाच्छुरणं स्वाङ्गेष्वाच्छुरितकम्, आभरणस्य प्रह्लादनं शब्दनम्, अधरोष्ठविमर्दनमोष्ठसम्पुटेन परिघर्षणं, तास्ताश्चेति। गुणसंवर्णनप्रधानाः कथाः, वयस्यैः = मित्रैः, प्रेक्षमाणाया इति नायिकायाः पश्यन्त्याः, तत्सम्बद्धा इति। नायिकासम्बद्धाः, परापदेशिन्य इति। नायकापदेशिन्यः, त्यागोपभोगप्रकाशनमन्येन दातृत्वभोगित्वख्यापनार्थं, सख्युरिति । मित्रस्योत्सङ्गे निषण्णस्य, साङ्गभङ्गमिति । साङ्गस्फोटनं जृम्भणं विजृम्भिका स्यात्, एकभ्रूक्षेपणं निषण्णस्यैव, मन्दवाक्यता गद्गदवचनता किमु मां किञ्चिद्वक्तीति, तामिति, नायिकाम्, बालेनेति, तत्पार्श्ववर्तिनाऽप्रगल्भरूपेण, जनेन चान्येन, अन्योपदिष्टेति, तत्सुहृदा कृता न स्वयम्, द्व्यर्था कथेत्येको बालेन सम्बद्धोऽर्थो द्वितीयो नायिकया, तस्यामिति । कथायां क्रियमाणायां स्वयमात्मनो मनोरथावेदनम्, अन्यापदेशेनेत्यस्मन्मित्रस्य तस्यामतिदुर्घटो मनोरथः स किं भविष्यति न भविष्यतीति न जाने, तामेवेति, नायिकाम्, बालस्य चुम्बनमालि
२ अध्याये ] परिचयकारणप्रकरणम् । २३३
ङ्गनं संक्रान्तकं, जिह्वया च प्रसारिता, प्रदेशिन्या = तर्जन्या, हनुदेश-
घट्टनं = कपोलयोरधस्ताच्चालनं, तामुद्दिश्येति सर्वत्र योज्यं, तत्तदि-
ति। अन्यदप्येवंविधं, यथायोगमिति। यद्यस्य युज्यते स्पर्शनं ताडनं वा,
यथाऽवकाशमिति। यथाप्रदेशं कक्षयोरुरसि पृष्ठे वा बालस्य विधेयम्॥७॥
तस्याश्चाङ्कगतस्य बालस्य लालनं, बालक्रीडनकानां चास्य
दानं, ग्रहणं, तेन संनिकृष्टत्वात्कथायोजनं, तत्सम्भाषणक्षमेण ज-
नेन च प्रीतिमासाद्य कार्य, तदनुबन्धं च गमनागमनस्य योजनं,-
संश्रवे चास्यास्तामपश्यतो नाम कामसूत्रसङ्कथा ॥ ८ ॥
तस्याश्चेति। नायिकायाः, अङ्कगतस्य = क्रोडस्थस्य, लालनं मृदुना
वचसा, बालक्रीडनकानां = जातुषगुलिकाऽऽदीनां दानं, तेनेति। दानग्रह-
णसम्बन्धेन संनिकृष्टत्वात्कथायोजनं कार्यशरीरगर्भस्य वाक्यस्य योजन-
मित्यर्थः, तत्संभाषणक्षमेणेति । तया सह यत्संभाषणं तत्र क्षमो यो-
जनस्तत्प्रीतिमित्यर्थः, तेन सह प्रीतिमासाद्य संयोज्य कार्यं प्रयोक्तव्य-
मिति शेषः, तदनुबन्धं चेति । कार्यानुबन्धं गमनागमनस्य प्रयोजनं,
येन लोकोऽनेन कार्येणास्य गमनागमनं नान्येनेति मन्यते, संश्रवे चास्या-
इति। यत्र सा शृणोति तत्र कामसूत्रसङ्कथा विज्ञत्वख्यापनार्थं, तत्रापि
तामपश्यतो नामेति । न किलाहमेनां पश्यामीति, अन्यथा तां पश्यतः-
कथयतो दुर्विदग्धता स्यात् ॥ ८ ॥
आभ्यन्तरमधिकृत्याह—
प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् ॥९॥
प्रसूत इति । प्रसृते न तु सर्वथोत्पन्ने परिचये, न्यासाः संस्था-
प्याश्चिरकालग्राह्याः, निक्षेपं यदल्पकालग्राह्यम् ॥ ९ ॥
तत्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्णीयात् सौगन्धिकं पूग-
फलानि च ॥ १० ॥
तत्र प्रतिदिनं न्यासं, प्रतिक्षणं निक्षेपकं, तदुभयमेकदेशतः स्तो-
कस्तोकेन गृह्णीयात्, तदेव यथाक्रमं दर्शयति—सौगन्धिकं पूगफलानि
चेति। सौगन्धिकं = सुगन्धिद्रव्याणां समूहः, तद्वारेण प्रतिदिनं न्यासं-
निक्षेपं च, यदल्पकालग्राह्यं प्रतिक्षणं च दृश्यते ॥ १० ॥
तामात्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तासने च यो-
जयेद् विश्वासानार्थं च ॥ ११ ॥
विस्रम्भगोष्ठ्यां विविक्तासने चेति। तामुपनिमन्त्र्यास्माभिः प्रच्छन्ने
३० का० सू०
२३४ सटीके कामसूत्रे [ ५ अधिकरणे
समुपविश्य; पानगोष्ठी कर्तव्येत्यभिधाय; स्वदारैः सह तत्र विश्वासनाथं योजयेत् ॥ ११ ॥
नित्यदर्शनार्थं सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्जकादिषु च कर्मार्थिन्यां सहात्मनो वश्यैश्चैषां तत्सम्पादने स्वयं प्रयतेत ॥ १२ ॥
नित्यदर्शनार्थं चेति । प्रतिक्षणं दर्शनार्थं, स्वयं प्रयतेतेति, वक्ष्यमाणेन सम्बन्धः, वैकटिकः = रत्नानां परिशोधकः, नीलीरञ्जककुसुम्भरञ्जकौ प्रतीतौ, आदिशब्दात्त्वष्टृकांस्यकारादयः, तेषां कर्मार्थिन्यां सत्यामात्मवश्यैर्विधेयैः सुवर्णकारादिभिः, तत्सम्पादने = सुवर्णादिकर्मसम्पादने॥ १२॥
तदनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः ॥१३॥
तदनुष्ठाननिरतस्येति । सुवर्णादिकर्म स्वयमधिष्ठाय कारयतः संदर्शनयोगो न प्रच्छन्नयोगः स्याद्, अपि तु दीर्घकालं लोकस्य विदितः, अन्यथा लोकस्तं दृष्ट्वा सहसा विकल्पयति ॥ १३ ॥
तस्मिन्नान्येषामपि कर्मणामनुसन्धानं येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागममुपायं विज्ञानं चात्मायत्तं दर्शयेत् ॥ १४ ॥
तस्मिन्निति । कर्मण्यनुष्ठीयमानेऽसमाप्त एवान्येषां कर्मणामनुसन्धानं कर्तव्यं, मा भूद्दर्शनविच्छेद इति, येनेति । कर्मणा = दुष्करेण, द्रव्येण = दुष्प्रापेण, कौशलेन = दुरागमैन, तस्येति । यथोक्तस्य कर्मणः प्रयोगं यथा तत्प्रयुज्यते, द्रव्यस्योत्पत्तिं यथा तद् भवति, कौशलस्यागमं यथा तदागम्यते, उपायं विज्ञानं चेति । त्रयाणामपि यथासंभवमुपायं विज्ञानं चात्मायत्तं, सर्वमेतद् दर्शयेत् ॥ १४ ॥
पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः ॥ १५ ॥
पूर्वप्रवृत्तेष्विति । नेदानीं प्रवृत्तेषु तेषामनार्षत्वाद्, लोके प्रवृत्तेषु पुराणरामायणभारतोक्तेषु प्रसङ्गादुदीरितेषु, द्रव्याणां च गुणपरीक्षासु, तया नायिकयाऽन्यैस्तत्परिजनेैः सह विवादः कर्त्तव्यः, नैवमिदमेवमिति ॥ १५ ॥
तत्र निर्दिष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् ॥१६॥
तत्रेति । विवादे, निर्दिष्टानीति । यद्यन्यथा स्यादिदं देयमिति, तेषु च पणितेषु, एनां नायिकाम्, प्राश्निकत्वे नियोजयेद्, यद्यन्यैः सह