सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९१

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९१


अयं तु विशेषः-यदेषां प्राक्संयोगात्=प्राग्यन्त्रयोगात्, यन्त्रयोगे प्राधान्येन बाहुल्येन रागाभ्यासाद्वा प्रबोधनार्थं प्रयोगो नायकाभ्यां यन्त्रयोगे प्राधान्येनेत्यर्थोक्तम्, प्रहणनसीत्कृतयोस्तु संप्रयोगे यन्त्रयोगे प्राधान्येन प्रयोग इत्येव, तदा हि प्रवृद्धरागयोः प्राधान्येन घातसहत्वम्, प्रहणनबाहुल्ये च तदुद्भवस्य सीत्कृतस्यापि बाहुल्यं, प्रागप्राधान्येनेत्यर्थोक्तम् ॥ २ ॥

एकीयमतमेतदुत्तरपक्षदर्शनाद्, यदाह—

सर्वं सर्वत्र रागस्यानपेक्षितत्वादिति वात्स्यायनः ॥ ३ ॥

सत्र सर्वत्रेति । चुम्बनादिपञ्चकं प्राक्प्रयोगे च प्राधान्येन प्रयोक्तव्यम्, रागस्यानपेक्षितत्वादिति चण्डवेगो हि न प्राधान्येनाप्राधान्येन वा प्रयोगमपेक्षते, मन्दमध्यवेगयोस्तु पूर्व एव पक्षः ॥ ३ ॥

अयं तु विशेषः पक्षद्वयेऽपि तुल्य इत्याह—

तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत तथाभूतत्वाद्रागस्य ॥ ४ ॥

तानि चुम्बनादीनि पञ्च, प्रथमरत इति । रतस्यारम्भे, नातिव्यक्तानि नातिस्फुटानि, यथालक्षणस्यासमापनाद्, नातित्वरितेन विश्रब्धिकायां विकल्पेन चेति, इदं वेदं वेत्येकमेव प्रयुञ्जीत न समुच्चयेन, तद्यथा—चुम्बनं वा नखच्छेदं वा, चुम्बनं वा दशनच्छेदं वा, चुम्बनं वा प्रहणनं वा, चुम्बनं वा सीत्कृतं वे, ति चतुर्धा, नखच्छेदं त्रि(१)धा, दशनच्छेदं द्विधा(२), प्रहणनमे(३)कमेवेत्यनुलोमा दश, तावन्त एव प्रतिलो(४)माः, एक(५)त्र विंशतिः प्रयोगाः; तथाभूतत्वादिति । आरम्भकाले हि मन्दो रागः, ततश्च मध्यस्थचित्तता नातिसहिष्णुता चेति तदनुरूप एव प्रयोगः ॥ ४ ॥

ततः परमातित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम् ॥ ५ ॥


(१) नखच्छेदं वा दशनच्छेदं वा, नखच्छेदं वा प्रहणनं वा, नखच्छेदं वा सीत्कृतं वा।
(२) दशनच्छेदं वा प्रहणनं वा, दशनच्छेदं वा सीत्कृतं वा,
(३) प्रहणनं वा सीत्कृतं वा ।
(४) दशसंख्याकाः, ते यथा—नखच्छेदं वा चुम्बनं वा, दशनच्छेदं वा चुम्बनं वा, प्रहणनं वा चुम्बनं वा, सीत्कृतं वा चुम्बनं वा । दशनच्छेदं वा नखच्छेदं वा, प्रहणनं वा नखच्छेदं वा, सङ्कृतं वा नखच्छेदं वा । प्रहणनं वा दशनच्छेदं वा, सीत्कृतं वा दशनच्छेदं वा, । सीत्कृतं वा प्रहणनं वा ।
(५) अनुलोमप्रतिलोमसङ्कलने ।

९४ सटीक कामसूत्रे [ २ अधिकरणे,

अङ्गुलिसंपुटेनेति । तर्जन्यङ्गुष्ठसंपुटेन, पिण्डीकृत्य गृहीत्वा, ततो निर्दशनं दशनव्यापारं विनोष्ठपुटेनावपीडयेद्, अत्र पीडनेऽपि बहिः पिण्डिताकर्षणं विशेषः, एवञ्च तदाकृष्टचुम्बननाम ग्रहणम् ॥१४॥

एवं कर्मभेदादष्टविधमधरचुम्बनमुक्तं त्रीणि कन्याचुम्बनानि पञ्च ग्रहणचुम्बनानीति, तत्र कर्षणचुम्बनभेदमशेषं समाप्यैवमवसरप्राप्तत्वादधरचुम्बने द्यूतमाह —

द्यूतं चात्र प्रवर्त्तयेत् ॥ १५ ॥

द्यूतं चेति । अत्रेत्यस्मिन्नधरचुम्बने, नान्यस्थाने चुम्बने, विशोभत्वाद् द्यूतमनुरागवर्धनार्थं स्यात् ॥ १५ ॥

तत्र जयपराजयफलत्वाद् द्यूतस्य लक्षणमाह—

पूर्वमधरसंपादनेन जितमिदं स्यात् ॥ १६ ॥

पूर्वमिति । आवयोः परस्परं चुम्बतोर्येन पूर्वं प्रथमतॊऽधरस्य ग्रहणविधिना संपादनं कृतं तस्मिन्सति तेन जितम्, किं तदित्याह—इदमिति । अनेन द्वयोरभिमतपणं सूचयति, द्यूतं च कपटेनाकपटेन वा स्यात्, तत्र यल्लौकिकेनैव चुम्बनेन द्वावेव परस्परस्याधरं चुम्बतस्तदकपटं च वक्ष्यति, तत्र तस्मिन्नकपटे द्यूते प्रवृत्ते नायकेन पूर्वमन्यतमेन ग्रहणम्, चुम्बनेन गृहीताधरत्वाज्जिता, अकपटद्यूते नायिकाया अबलत्वात्सैव जिता शोभते, कपटद्यूते चास्यास्तदनुरूपत्वाज्जयं वक्ष्यति, नायकेन तु कपटद्यूते न जेतव्या, तस्या अननुरूपत्वात् ॥ १६ ॥

तत्रान्यतरस्य जयेऽपरस्य कलहोऽवश्यं भावी; द्यूतस्य कलहास्पदत्वादिति कलहयोजनं रागोद्दीपनार्थमाह—

तत्र जिता सार्धरुदितं करं विधुनुयात्प्रणुदेद्धस्तोत्परिवर्त्तयेद्धलादाहृता विवदेत पुनरप्यस्तु पण इति ब्रूयात्, तत्रापि जिता द्विगुणमायस्येत् ॥ १७ ॥

सार्धरुदितमिति । क्रियाविशेषणं चैतत्, अधरपीडोपख्यापनार्थं सहार्धरुदितेन कृतकेन करं विधुनुयात्कम्पयेत्, प्रणुदेत्तर्जयेद् भङ्गिवैलक्ष्यान्नायकं क्षिपेद्, दंशोच्छ्लेषमधरग्रहणं बद्ध्वा दन्तैः खण्डयेत्, परिवर्त्तेत मुखेनाशक्ता चेत्कायेनाधरमोक्षार्थम्, विवदेत “नैव जिताऽस्मि मयैव जितमि”ति कलहायेत, पुनरस्त्वपरः पण इति । “पुनः क्रीडामः, पूर्वस्मात्पणादयमपरः पण” इति ब्रूयात्, तत्रापीति । द्वितीयेऽपि पणे, द्विगुणमायस्येदिति । करधूननाद्यधिक्येन कुर्यादित्यर्थः ॥१७॥

३ अध्याये ] चुम्बनविकल्पप्रकरणम्। ९५

कपटद्यूतमाह—

विश्रब्धस्य प्रमत्तस्य वाऽधरमवगृह्य दशनान्तर्गतमनिर्गमं कृ-
त्वा हसेदुत्क्रोशेत्तर्जयेद्गलोद्वाहयेन्नृत्येतप्रनर्तितभ्रूणा च विचल-
नयनेन मुखेन विहसन्ती तानि तानि च ब्रूयादिति चुम्बनद्यूत-
कलहः ॥ १८ ॥

विश्रब्धस्येति । तस्मिन्नेव मुखचुम्बनद्यूतेऽन्तरा विश्रब्धिकथा नायिका विश्रम्भयेत्, ततो विश्रब्धस्य प्रमत्तस्याप्रमत्तस्य वाऽकस्माद-न्यत्र गतचेतसोऽधरमवगृह्यौष्ठसंपुटेन ततो दशनान्तर्गतमनिर्गमं कृत्वा यथा तदन्तर्गतमपि प्रमादान्न निर्गच्छति सापराधत्वात् पश्चाद् गृहीता-धरा मुक्ताधरा वा यथासंभवमुत्तरं व्यापारमनुतिष्ठेद्, इतरत्रापि क-पटद्यूते स्खलितप्रमादापेक्षयैव जयो दृष्टः, इत्येवं कपटेन जित्वा हसेत्, सशब्दमितरं वाऽत्यन्तपरितोषणाद्, उत्क्रोशेन्मया जितमिति फूत्कु-र्याद्, यथाऽस्य मित्राणि शृण्वन्ति स्वसख्यो वा, तर्जयेत् “लब्धोऽसी-दानीं खण्डयामि तेऽधरमि'ति, बलाद् हन्तुं सविलासं गात्राणि विक्षि-पेद्, आह्वयेत्सखेदन्तमेवोपसृत्य “आगच्छ दर्शयतां स्वपौरुषमि"ति, नृ-त्येत्तत्परितुष्ट्या, प्रनर्त्तितभ्रूणा चेति । एकोद्धारक्रमेण समुन्नमितभ्रूणा मुखेनेति विहसितसंस्कारः, विहसन्ती कलहावसानत्वात्, तानि ता-नीति । यानि यथार्थयुक्तानि रागदीपनानि मन्यते, चुम्बनद्यूतकलह इति। अकपटे कपटे च चुम्बनद्यूते कलह उक्तः, यदि नायकोऽपि जेता जितो-वा तथा चेष्टेत यथा कथं चित् कलहः स्यात्, तद्यथा—दृढमधर-मवपीडयन् ससीत्कृतं च शिरो विधुनुयाद्, नुदन्तीमुपसर्पेत् । दश-न्तीं प्रतिदशेत्, परिवर्तमानां प्रतिनिवर्तयेत्, विवदमानां प्रतिविवदेत, तिष्ठत्वयमपरः पण इति पूर्वकमेव तावत्प्रयच्छेति च ब्रूयात्, तत्रापि जेता द्विगुणमायस्येदिति पणद्वयसाधनार्थं साधयेत्, जितोऽपि वैलक्ष्या-द्विहसेत्, जितं जितं मयेत्युत्क्रोशन्त्यां मिथ्या मिथ्येति प्रत्युत्क्रोशेत्, तर्जयन्तीं प्रतितर्जयेद् । वल्गन्तीं तद्गात्रसंयमनेन प्रतिवल्गयेद्, आह्वय-न्तीं प्रत्याह्वयेत्, नृत्यन्तीं करतालिकया प्रतिनर्तयेत्, विहसन्तीं तानि तानि ब्रुवन्तीं तद्वचननिषेधार्थं प्रतिब्रूयादिति । यथा चोक्तम्—

'जितो वा यदि वा जेता चुम्बनद्यूतकर्मणि।
तस्या एव विचेष्टाभिः कलहं प्रतियोजयेद्' इति ॥ १८ ॥

एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः ॥ १९ ॥

एतेनेति । चुम्बनद्यूतेन कपटेनाकपटेन च, तत्राप्ययमेव विधिः, त·

९६ सटीके कामसूत्रे [ २ अधिकरणे,

यथा—पूर्वं नखच्छेद्यादिसंपादिते जितमिदं स्यादित्यादि, अत्र च द्यूत-प्रवर्तनं नखदशनहस्तानां प्रहणनस्थानेष्वेव मोहनेन स्यात्, सीत्कृतद्यूतकल्हस्तु पृथग् न संभवति, प्रहणनकलहे द्वयव्यस्तदुद्भवत्वात्, तत्र जेता ससीत्कृतं प्रहण्यात्, जीयमानश्च ससीत्कृतं प्रहणनं प्रतीच्छेत् ॥१९

चण्डवेगयोरेव त्वेषां प्रयोगः तत्सात्म्यात् ॥ २० ॥

एषामिति। कलहानाम्, तत्सात्म्यादिति । ईदृशैरेव चेष्टितैश्चण्डवेगयोः सात्म्यम्, न मन्दवेगयोः, तद्विमर्दाक्षमत्वात् ॥ २० ॥

तत उत्तरोष्ठविधिमाह—

तस्यां चुम्बन्त्यामयमप्युत्तरं गृह्णीयादित्युत्तरचुम्बितम् ॥२१॥

तस्यामिति । समग्रहेणेन नायकाधरं चुम्बन्त्यां नायिकायामयमपि नायकः सङ्गादस्या उत्तरोष्ठं समग्रहेण गृह्णीयाद्, उत्तरचुम्बितमुक्तरोष्ठग्रहणेन, प्रासङ्गिकमिदम्, केवलं तु न प्रयोक्तव्यं ग्राम्यत्वान्नासिकापुटपानवत्, प्रासङ्गिके च तिर्यग्ग्रहणादीनामसंभवाद्, एवमुत्तरचुम्बितमेकविधमेव ॥ २१ ॥

समग्रहणेनास्या नायिकाऽपि प्रयोक्त्री, यदि पुरुषो न जातव्यञ्जनस्तदा द्वयोरपि युगपद्विधिमाह—

ओष्ठसंदंशेनावगृह्यौष्ठद्वयमपि चुम्बेदिति संपुटकं स्त्रियाः, पुंसो वाऽजातव्यञ्जनस्य ॥ २२ ॥

ओष्ठसंदंशेनेति । उभाभ्यां ग्रहणं संदंशः, तेनौष्ठद्वयमवगृह्य वक्त्रान्तः प्रवेश्याभिचुम्बेदिति, सफूत्कारं स्वमोष्ठपुटं संकोचयेदित्यर्थः, सर्वत्र चुम्बनविधावायाते शब्दोच्चारणं कार्यम्, संपुटकमोष्ठद्वयग्रहणाद्, एतच्चतुर्विधम्—समं तिर्यग्दृष्टान्तमवपीडितं च, आकृष्टं न योज्यमशोभित्वात्, स्त्रिया इति। पुंसा प्रयोक्तव्यम्, तदौष्ठयोर्निर्लोमत्वात्, स्त्रियाऽपि पुंसश्चाजातव्यञ्जनस्याप्ररूढश्मश्र्रोः इतरथा लोमभिर्वक्त्रपूरणमसुखावहं स्यात् ॥ २२ ॥

एवमोष्ठचुम्बनं त्रिविध मुक्त्वा संपुटान्तर्गतत्वादन्तर्मुखचुम्बनविकल्पानाह—

तस्मिन्नितरोऽपि जिह्वयाऽस्या दशनानि घट्टयेत्तालु जिह्वांचेति जिह्वायुद्धम् ॥ २३ ॥

तस्मिन्निति । संपुटचुम्बने, इतरो नायको नायिका वा यस्य संपुटकं प्रयोक्तुमिच्छति, प्रयोक्तुर्विवृतास्यत्वादुपुर्यधश्च दशनानि जिह्वया घट्टयेत् संमार्जयेदित्यर्थः, तालु जिह्वयोर्ध्वप्रसारितया, जिह्वां-

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९७

वा ऋजुप्रसारतया घटयेद्, जिह्वायुद्धं च कुर्यादिति शेषः, परस्पर-
प्रेरणेन, एतच्चतुर्विधम्--अन्तर्मुखचुम्बनं दशनचुम्बनं जिह्वाचुम्बनं-
तालुचुम्बनं चेति ॥ २३ ॥

एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ॥ २४ ॥

एतेनेति । जिह्वायुद्धेन, वदनरदनग्रहणमिति । हठाद्वदनेन
वदनस्य दशनैर्दशनानां ग्रहणे परस्परस्य युद्धमिति ग्रहणपूर्वकं ददन-
युद्धं रदनयुद्धं च व्याख्यातं, दानं चेति । एकश्चुम्बयितुं हठाद्वदनं-
ददाति ग्राहयितुं वा दशनान्यन्यो गृह्णातीत्युभयोर्ग्रहणदानपूर्वकं वद-
नयुद्धं चेति ॥ २४ ॥

समं पीडितमञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगादि-
ति चुम्बनविशेषाः ॥ २५ ॥

शेषाङ्गेष्विति । ओष्ठान्तर्मुखेभ्योऽन्येषु ललाटादिस्थानेषु कर्मभेदा-
त्समचुम्बनं पीडितचुम्बनमञ्चितचुम्बनं मृदुचुम्बनं चेति चतुर्विधं,-
स्थानविशेषयोगादिति । यद्यत्र प्रयुज्यते तत्तत्र स्यादित्यर्थः, तत्रोरुसं-
धिकक्षावक्षःसु समं न पीडितं नातिमृदु, स्तनकपोलनाभिमूलेषु पीडि-
तं, कुचयोः कक्षापर्यन्ते चुम्बनमञ्चितं, ललाटे नयनयोर्मृदु स्पर्श-
मात्रकरणमिति, एवमेते कर्मभेदाच्चुम्बनभेदा उक्ताः ॥ २५ ॥
त एवावस्थाभेदान्नामान्तरं प्रतिपद्यन्त इत्याह—

सुप्तस्य मुखमवलोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागदीपनम् ॥ २६ ॥

सुप्तस्येति । मुखमालोकयन्त्या इत्याहितभावत्वं दर्शयति, स्वाभिप्रा-
येणेति । यथा स्वयं धृतिं लभते तथा चुम्बतीत्यर्थः, एवं च सति तस्या
एव रागसंधुक्षणाद्रागदीपनं, नायकस्य च तथा चुम्ब्यमानस्य प्रतिबो-
धाद् जाग्रतोऽप्येतत्सम्भवति, तत्र तदवस्थकं सांप्रयोगिकमेव स्यात् ॥२६॥

प्रमत्तस्य विवदमानस्य वाऽन्यतोऽभिमुखस्य सुप्ताभिमुखस्य
वा निद्राव्याघातार्थं चलितकम् ॥ २७ ॥

निद्राव्याघातार्थमित्युपलक्षणमेतत्, प्रमत्तस्य गीतालेख्यादिषु प्र-
सक्तस्य प्रमादव्याघातार्थं, विवदमानस्य तया सह कलहव्याघातार्थम्,
अन्यतोऽभिमुखस्यान्यतो दृष्टिव्याघातार्थं, सुप्ताभिमुखस्य सुषुप्सतो-
निद्राव्याघातार्थं चलितकमिति, प्रमादादिना नायकस्य चलनं चलि-
तं, तत्करोति-’ इति णिच्, तदन्ताच्चलयतीत्यच्, ततः संज्ञायां कन्,
चलितकम्, अत्र नायिकैव प्रयोक्त्री शोभते ॥ २७ ॥

१३ का० सू०

९८ सटीक कामसूत्रे [ २ अधिकरणे,

चिररात्रावागतस्य शयनसुप्तायाः स्वाभिप्रायचुम्बनं प्रातिबोधिकम् ॥ २८ ॥

चिररात्राविति। असञ्चारवेलायामागतस्य प्रयोक्तुः सम्बन्धलक्षणा षष्ठी, शयनसुप्तायाः प्र योज्यायाः “नागतश्चपल” इति प्रातिबोधिकं प्रतिबोधप्रयोजनम्, मुखावलोकनं स्वाभिप्रायाभावाद्भागदीपनान्न विद्यते, तत्र विस्रब्धिकायां रागदीपनम् ॥ २८ ॥

साऽपि तु भावजिज्ञासाऽर्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन सुप्ता स्यात् ॥ २९ ॥

साऽपि त्विति। भावजिज्ञासार्थिनी "किं चित्पश्यामि मय्यनुरागोऽस्ति न” इति सम्मानाशिंनी नायकादेव वैलक्ष्यसुप्ता स्यादिति व्याजेन कृतकनिद्रया शयितेत्यर्थः, यदि मयि भावितस्तदा प्रातिबोधिकं विदध्यान्मानयिता वा, “कुपिते” ति मानेन पादपतनादिना संभाव्योत्थापयेद्, एतत्त्रिविधमावस्थिकम् ॥ २९ ॥

समागतयोराह—

आदर्श कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकारप्रदर्शनार्थमेव कार्यम् ॥ ३० ॥

आदर्श इति। कुड्ये दीपाद्यालोकयुक्ते, प्रयोज्याया इत्युपलक्षणार्थत्वाच्चायकस्यापि प्रयोज्यस्य, विशेषाभावात्, छायाचुम्बनमिति । दर्पणादिषु प्रयोज्यप्रतिबिम्बस्य समीपे लौकिकमिव चुम्बनं वैहासिकं कार्यम्, आकारप्रदर्शनार्थमिति । भावसूचकमाकारं प्रदर्शयितुमित्यर्थः, यतस्तदवस्थां दृष्ट्वेत्तरो मन्यते मय्यनुरक्तो यदेवमाकारयतीति, कुड्ये तु न वैहासिकं, किं तु च्छायावदने वदनं विदध्यादेवमित्याकारप्रदर्शनार्थम् ॥ ३०॥

बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्बनं संक्रान्तकमालिङ्गनं च ॥ ३१ ॥

बालस्येति। स्वाङ्कगतस्य लाडीकस्य चित्रकर्मण आलेख्यस्य प्रतिमायां मृच्छिलाकाष्ठादिमय्याः प्रयोज्यास समक्षं चुम्बनं संक्रान्तकं, तदध्यारोपादा लिङ्गनं च संक्रान्तकं, यथासंभवं चुम्बनाधिकारे प्रसङ्गादुक्तं, तत्र च्छायाचुम्बनं संक्रान्तकं चोभयमावस्थिकं, स्पर्शानोचरातीतयोरनभिवृत्त संभाषणयोरसमागतयोर्द्रष्टव्यम् ॥ ३१ ॥

तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपगतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाऽङ्गुलिचुम्बनम् ॥३२॥

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९९

तथेति आकारप्रदर्शनार्थं, निशि रात्रौ प्रेक्षणके वा नटादिदर्शने वा स्वजनसमाजे वा ज्ञातिसंबन्धिषु संभूय स्थितेषु प्रयोज्यायाः समीपो-पविष्टस्य प्रयोक्तुरुपलक्षणार्थत्वात्प्रयोज्यस्य वा समीपोपविष्टायाः प्रयोज्यायाः, हस्ताङ्गुलिचुम्बनमिति । तदा हस्तस्य सुलभत्वात्, त-मन्यापदेशेनाकृष्य तदङ्गुलिचुम्बनं, संविष्टस्येति । नायिकासमीपे शयितस्य चशब्दाद्धस्ताङ्गुलिचुम्बनं च तदानीमुभयोरपि सुलभत्वात्, तत्र हस्ताङ्गुलिचुम्बनस्य द्वावपि प्रयोक्तारौ, पादाङ्गुलिचुम्बनस्य नायि-कैव, न नरो गर्हितत्वात् ॥ ३२ ॥

संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशादकामाया-इव तस्योर्वोर्वदनस्य निधानमूरुचुम्बनं पादाङ्गुष्ठचुम्बनं चेत्याभि-योगिकानि ॥ ३३ ॥

संवाहिकायास्त्विति । नायकं संवाहयति या काचित्संवाहनद्वा-रेण नायकमभियुङ्क्ते, आकारयन्त्या भावसूचकमाकारं ग्राहयन्त्याः, अकामाया इवेति । चुम्बितुमनिच्छन्त्या इव, नायकाकारस्यागृहीत-त्वाद्, अतः कृतकनिद्रया सा नायकस्योर्वोश्चुम्बितुं वदनं निधत्ते, पादाङ्गुष्ठचुम्बनं तु पादावाकृष्य संवाहयन्त्या बुद्धिकारितमपि न दोषाय, मुखाङ्गुष्ठयोस्तदानीं परस्पराश्लेषसंभवाद्, एतान्यङ्गुलिचुम्बनादीनि स्पृष्टकादिना सोढगात्रस्पर्शापोरनतिप्रवृत्तसं भाषणयोरसमागतयोः, आ-भियोगिकानीति । अभियोगप्रयोजनानि च्छायाचुम्बनादीनि तदानीं-प्रयोगांन्तानि च लौकिकचुम्बनवत्प्रयोक्तव्यानि कर्मभेदासम्भवात् ॥३३॥

सांप्रयोगाभियोगकालयोः सामान्यविधिमाह—

कृते प्रतिकृतं कुर्यात्ताडिते प्रतिताडितम् ।
करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ॥ ३४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः ।
आदितोऽष्टमः ।

कृत इति । सांप्रयोगिक आभियोगिके वा प्रयोक्तृकृते प्रयोज्या प्रति-कृतं कुर्यात्, तदेवोदाहरणार्थमाह—ताडिते चुम्बित इति । अन्यतरः संप्रयोगे स्तम्भमिवैनं मन्यमानां निर्विद्यते ततश्च निकृष्टः संप्रयोगः स्याद्, आभियोगिके च कारितोऽपि नावध्यत इति पशुमिव परिभवेत् ततश्च न समागमोऽर्थः सिध्येत्, तत्रापि करणेन च, तेनवेति । येनैव