कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
५ अध्याये ] लाभविशेषप्रकरणम् । ३१३
५ अध्याये ] लाभविशेषप्रकरणम् । ३१३
तस्मिन्प्रधानेऽर्थे साध्ये यद्व्ययं सहते धनं तस्य परिग्रहणमयं प्रकृष्टो-
लाभातिशयः, उत्तमगणिकानामिति । रूपादिभिर्नायिकागुणैः, काला-
दिभिश्चान्विता उत्तमगणिकाः, गुणानां च पादार्धाभ्यां शून्या मध्य-
माधमाः ॥ २५ ॥
सर्वाङ्गिकोऽलंकारयोगः, गृहस्योदारस्य करणं, महार्हभाण्डैः-
परिचारकैश्च गृहपरिच्छदस्योज्ज्वलतेति, रूपाजीवानां लाभाति-
शयः ॥ २६ ॥
सर्वाङ्गिक इति । सर्वेष्वङ्गेषु यो भवति, उदारस्येति । संस्थानतः-
संस्कारतश्चेति, महार्हरिति । लोहताम्ररजतैः, परिचारकैरिति । यथा-
स्वं कर्मणा परिचरन्ति ये, गृहपरिच्छदस्येति । गृहसंविधानकस्योज्ज्व-
लतेत्ययं प्रधानार्थः, तद्व्ययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते, अयं
प्रकृष्टो लाभातिशयः, रूपाजीवानामिति । उत्तमानां, सत्स्वपि गुणेषु रूप-
मेवाजीवो यासां, रूपस्य प्रधानत्वात् कलास्तु न सन्ति, तत्र रूपस्य
गुणानां पादार्धहान्या मध्यमाधमाः, अत्र यः प्रधानार्थः स गणिका-
नामस्त्येव ॥ २६ ॥
नित्यं शुक्लमाच्छादनमपक्षुधमन्नपानं नित्यं सौगन्धिकेन ताम्बू-
लेन च योगः सहिरण्यभागमलंकरणमिति कुम्भदासीनां लाभा-
तिशयः ॥ २७ ॥
नित्यमिति । आच्छादनमिति । परिधानीयं प्रावरणीयं च सदैव शु-
क्लम्, अपक्षुधमिति । अकदर्षितत्वात्क्षुधमपनयति, सौगन्धिकेन सुग-
न्धिसमूहेन चतुःसमकादिना ताम्बूलेन च नित्यं योगः, एतत्सर्वं गणि-
कानां रूपाजीवानां चास्त्येव, विशेषमाह—सहिरण्यभागमिति । सुव-
र्णलेशेन युक्तमित्यर्थः, अयं स्वप्रधानार्थं, तद्व्ययसहिष्णोर्धनस्य परि-
ग्रहणमिति वर्तते, अयं च कर्मोपलक्षणार्थं, कर्मकरीणामित्यर्थः, आसां-
चोत्तममध्यमाधमकर्मापेक्षयैव तथाविधत्वं द्रष्टव्यम् ॥ २७ ॥
एतेन प्रदेशेन मध्यमाधमानामपि लाभातिशयान्सर्वासामेव
योजयेदित्याचार्याः ॥ २८ ॥
एतेनेति । प्रदेशेनेति । उत्तमानां लाभातिशयमार्गेण, मध्यमाधमाना-
मपीति । गणिकारूपाजीवाकुम्भदासीनां, लाभातिशयानिति । प्रकृष्टा-
पेक्षं मध्यमाधमान्योजयेत्, तथा चोक्तम्—
'यन्त्रिंशाऽर्धाजितं द्रव्यं प्रधानार्थस्य साधकम् ।
द्रव्यस्थानं हि वेश्यानां सलाभस्तूत्तमो मतः' इति ॥ २८ ॥
४० का० सू०
३१४ सटीक कामसूत्रे [ ६ अधिकरणे,
देशकालविभवसामर्थ्यानुरागलोकप्रवृत्तिवशादनियतलाभादियमवृत्तिरिति वात्स्यायनः ॥ २९ ॥
देशेति । देशस्य सुसंपन्नस्यासंपन्नस्य वा, कालस्य सुभिक्षस्य दुर्भिक्षस्य वा, विभवस्यात्मीयस्य महतोऽल्पस्य वा, सामर्थ्यस्याविपन्नशक्तेर्महत्या इतरस्या वा, गम्यानुरागस्य महतोऽल्पस्य वा, लोकप्रवृत्तेर्व्यवस्थायाः, वशादनियतो लाभस्तासां, ततश्च नेयं वृत्तिरियताऽप्रधानाऽर्थद्वारेण या निर्दिष्टा, कदा चित्ततो न्यूनाऽधिका वा सम्भवति ॥ २९ ॥
एवं च कार्यनिरपेक्षया कश्चित्स्वल्पोऽपि लाभो गृह्यते कश्चिन्नैव कश्चित्तदात्वे गृह्यते कश्चिदायत्यां यदाह—
गम्यमन्यतो निवारयितुकामा, सक्तमन्यस्यामपहर्तुकामा वा, अन्यां वा लाभतो वियुयुक्षमाणा, गम्यसंसर्गादात्मनः स्थानं वृद्धिमायतिमभिगम्यतां च मन्यमाना, अनर्थप्रतीकारे वा साहाय्यमेनं कारयितुकामा, सक्तस्य चाऽन्यस्य व्यलीकार्थिनी पूर्वोपकारमकृतमिव पश्यन्ती, केवलप्रीत्यर्थिनी वा, कल्याणबुद्धिः, अल्पमपि लाभं प्रतिगृह्णीयात् ॥ ३० ॥
गम्यमिति । अन्यत इति । अन्यस्या नायिकातो निवारयितुकामा माऽन्यत्र यासीदिति, अपहर्तुकामा मद्वेषिण्यां सक्तं त्यक्ष्यामीति, लाभत इति । गम्यसम्बन्धिनो लाभाद्, वियुयुक्षमाणा वियोक्तुमिच्छन्ती, गम्यसंसर्गादिति । येन गम्येन सह संसर्गस्तस्मात् स्थानं जनसंसदि विशिष्टदेशावस्थानं मन्यमाना वृद्धिं प्रकृष्टाख्यां लाभातिशयमायतिं प्रभावमभिगम्यतामन्येषां नायकानामभिगमनीयत्वम्, अनर्थप्रतीकारे वेति । अनर्थं प्रतिकर्तुं सहायमेनं कर्तुकामा, सक्तस्य वेति । यस्तस्यां सक्तोऽन्यत्र वर्तमानस्तेन यः पूर्वमुपकारः कृतस्तं स्वल्पत्वादकृतमिव पश्यन्ती, तस्यातीतस्य व्यलीकार्थिनी, अपराधं कर्तुकामाऽल्पमपि गृह्णीयाद् येनायमपराध्धमनयेति सक्तस्त्यजति, केवलप्रीत्यर्थिनी वेति । प्रीत्यैव केवलमर्थिनी नार्थैः, कल्याणबुद्धिरिति । अविसंवादिका ॥ ३० ॥
यदाऽऽयतिमनर्थप्रतीकारे चेत्युभयमुक्तम्, अत्र विशेषमाह—
आयत्यर्थिनी तु तमाश्रिताऽनर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात् ॥ ३१ ॥
आयेति । यदाऽऽयतिर्महती स्यादनर्थश्च न महान्प्रातकर्तव्यस्तदा नैव प्रतिगृह्णीयात् ॥ ३१ ॥
५ अध्याये ] लाभविशेषप्रकरणम् । ३१५
त्यक्ष्याम्येनमन्यतः प्रतिसन्धास्यामि, गमिष्यति दारैर्योक्ष्यते,
नाशयिष्यत्यनर्थान्, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी
पिता वा, स्थानभ्रंशो वाऽस्य भविष्यति, चलचित्तश्चेति मन्यमाना
तदात्वे तस्माल्लाभमिच्छेत् ॥ ३२ ॥
त्यक्ष्याम्येनं तदात्वे ततो लाभं गृहीत्वाऽन्यतः प्रतिसन्धास्यामि तस्याधिकत्वाद्, गमिष्यति दारैर्योक्ष्यते, गतः कृतदारपरिग्रहो वा कथं दास्यति तस्य परवशप्रायत्वाद्, नाशयिष्यत्यर्थानर्थात्स्वकीयान्, अस्येति । गम्यस्य कर्मणि स्वामी पिता वाऽङ्कुशभूत इति दमयिता, उत्तराध्यक्षः = उपरिकर्त्ता, आगमिष्यति तदाऽयमस्वतन्त्रः कथं दास्यतीति, स्थानभ्रंशो वेति । यस्मिन्स्थानेऽस्याधिपत्यं तस्माद्धिच्युतिः, चलचित्तो वा प्रतिज्ञायापि न दास्यति, तदात्व इति । तदानीम् ॥ ३२ ॥
प्रतिज्ञातमीश्वरेण प्रतिग्रहं लप्स्यते, अधिकरणं स्थानं वा
प्राप्स्यति, वृत्तिकालोऽस्य वाऽऽसन्नः, वाहनमस्यागमिष्यति,
सस्यमस्य पक्ष्यते, कृतमस्मिन्न नश्यति, नित्यमविसंवादको वेत्या-
यत्यामिच्छेत् परिग्रहत्वं चास्याचरेत् ॥ ३३ ॥
प्रतिग्रहं लप्स्यत इति । स ह्यक्लेशेनोपलब्धार्थो दास्यति, अधिकरणमक्षपटलादिकं स्थानं यत्राधिपत्यं करिष्यति, वृत्तिकालो वेति । सेवकत्वाज्जीवनकालोऽस्यासन्ना राजकुले ग्रामविलग्नस्य वर्तमानत्वाद्, वाहनं यानपात्रमागमिष्यति वाणिज्यधर्मं स्थितत्वात्, स्वराष्ट्रादिसस्यमस्य पक्ष्यत इति, कृषिवृत्तित्वात्, ततश्च पक्वं सस्यं दास्यति, कृतमस्मिन् न नश्यति, अभिगमनं न निष्फलं, कृतज्ञत्वाद्, नित्यमविसंवादको वा, प्रतिज्ञायावश्यं दास्यति, आयत्यामिति । अनागतकाले, परिग्रहत्वं चास्याचरेत् तत्रार्थस्य लिप्स्यमानत्वात् ॥ ३३ ॥
भवन्ति चात्र श्लोकाः—
कृच्छ्राधिगतवित्तांश्च राजवल्लभनिष्ठुरान् ।
आयत्यां च तदात्वे च दूरादेव विवर्जयेत् ॥ ३४ ॥
कृच्छ्राधिगतवित्तांश्चेति । कृशेनाजितधनान्, राजवल्लभनिष्ठुरानिति । ये राज्ञ इष्टा निष्ठुराः क्रूरा येषां नाकरणीयमस्ति, आयत्याञ्च तदात्वे चासत्यपि लोभप्रतिग्रहङ्गेकारणे दूरादेव विवर्जयेद्, न तद्दर्शनं सम्भाषणं च कुर्यादित्यर्थः, प्रायशस्तेभ्योऽनर्थसंभवात् ॥ ३४ ॥