सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २७

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २७

क्रतुषु प्रयुञ्जते, तद्यथा—'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेद्' इति प्रकृतिप्रयोगः, 'सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम' इति विकृतिप्रयोगः, अत्र सूर्यमुद्दिश्योहो, निर्वपेदिति लिङ्गात्, सौर्यं चरुं निर्वपेदाग्नेयवदिति ॥ ८ ॥

अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते ॥ ९ ॥

पुण्याहेष्विति । अस्ति ज्यौतिषमित्यज्यौतिषिका अपि कुतश्चिदुपलभ्य शस्तदिनेषु कर्म कुर्वते, तत्र शास्त्रमेव हेतुः ॥ ९ ॥

तथाऽश्वारोहा गजारोहाश्चाश्वान्गजांश्चानाधिगतशास्त्रा अपि विनयन्ते ॥ १० ॥

तथेति । अनधिगतशास्त्रा इति । हस्त्यश्ववैद्यकाद् हस्त्यादिशिक्षाऽऽद्यधीत्याप्ताम्नायात्, पोषणदमनादिकं कर्म कुर्वत इत्येव, तत्रापि शास्त्रमेव हेतुः ॥ १० ॥

न शास्त्र एवार्थं न्यायो यद् दूरस्थमपि हेतुः, किं तु लोकेऽपीत्याह—

तथाऽस्ति राजेति दूरस्था अपि जनपदा न मर्यादामतिवर्तन्ते, तद्वदेतत् ॥ ११ ॥

अस्ति राजेति । दूरस्था अदृष्टराजकाः, "अस्ति व्यवस्थापको यत इयं व्यवस्थे"ति तद्भयान्न मर्यादामतिक्रामन्ति, तद्वदेतदिति दार्ष्टान्तिके योजनीयम् ॥ ११ ॥

अथ वाऽस्त्येव शास्त्रग्रहणं कासां चिदित्याह—

सन्त्यपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश्च ॥ १२ ॥

सन्त्यपीति । शास्त्रेण प्रहता खिन्ना बुद्धिर्यांसामिति । महामात्रेति । महती मात्रा येषामिति सामन्ता महासामन्ता वा, हस्तिशिक्षायां वा तल्लक्षणमनुसर्तव्यम् ॥ १२ ॥

तस्माद्वैश्वासिकाज्जनाद्रहसि प्रयोगाञ्छास्त्रमेकदेशं वा स्त्री गृह्णीयात् ॥ १३ ॥

तस्मादिति । यस्मात्प्रयोगग्रहणं शास्त्रग्रहणं चोभयं तस्माद्, वैश्वासिकाद्विश्वासार्हात्, लज्जानिवृत्त्यर्थम्, प्रयोगान्; ये शास्त्रग्रहणासमर्था दुर्मेधसः, शास्त्रं तद्ग्रहणसमर्था मेधाविनी, शास्त्रैकदेशं वा संप्रयोगाङ्गं या मध्यममेधाविनी सा गृह्णीयात् ॥ १३ ॥

२८सटीके कामसूत्रे[ १ अधिकरणे,

अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येका-
किन्यभ्यसेत् ॥ १४ ॥

अभ्यासेति । अभ्यासेन प्रयोक्तुं ये शक्यन्ते बाडवकभ्रमरकादयः, चातुःषष्टिकांश्चतुःषष्टिभवान्। कन्येति। तदानीमभ्यस्तं यौवने प्रयुज्यते । रहसीति लज्जानिवृत्त्यर्थम् । एकाकिन्याचार्यनिरपेक्षा ॥ १४ ॥

कः पुनश्चैश्वासिक इत्याह—

आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंयोगा सहसंवृद्धा धा-
त्रेयिका, तथाभूता वा निरत्ययसम्भाषणा सखी, सवयाश्च मातृ-
ष्वसा, विस्रब्धा तत्स्थानीया वृद्धदासी, पूर्वसंसृष्टा वा भिक्षुकी,
स्वसा च विश्वाससंप्रयोगात् ॥ १५ ॥

आचार्यास्त्विति । तुशब्दो विशेषणार्थः, पुरुषाणां स्वातन्त्र्यात्सुलभा-
उपदेष्टारः, तत्र प्रवृत्तपुरुषसंयोगा पुरा चानुभूतरसत्वादभिज्ञा धात्रे-
यिका, धात्र्या अपत्यं सा हि सह संप्रवृद्धत्वाद्विश्वास्येत्येकाऽऽचार्या,
तथाभूता चेति । प्रवृत्तपुरुषसंप्रयोगा सखी वा निर्दोषसंभाषणत्वाद्वि-
श्वास्येति द्वितीया, सवयाश्चेति । तुल्यवयाः प्रीतिविश्वासयोरास्पदं;
चशब्दात्तथाभूतेति निवर्तते मातृष्वसा मातृभगिनीति तृतीया, विस्र-
ब्धेति । विश्वस्ता तत्स्थानीया मातृष्वसृतुल्या मातृभगिनीत्वेन गृहीता
वृद्धदासी विदितबहुवृत्तान्तेति चतुर्थी, पूर्वसंसृष्टा पूर्वं यथा सह प्री
तिरुत्पन्ना सा विश्वास्या भिक्षुकी भिक्षणशीला या का चित्सा देशहि-
ण्डनात् कुशलेति पञ्चमी, स्वसा च ज्येष्ठा भगिनी, विश्वाससंप्रयो-
गादिति । यद्वा तत्समक्षं विश्वासात्पुरुषान्तरेण संप्रयुक्ता स्याद्,
अन्यथा स्वसा स्वसारमपि नेर्ष्याया शिक्षयतीति षष्ठी ।

इत्युक्तं ग्रहणं कामसूत्रे तदङ्गविद्यासु च, तासामङ्गविद्यानामयमु-
द्देशः—शास्त्रान्तरे चतुःषष्टिमूलकला उक्ताः—तत्र कर्माश्रया चतुर्विंशतिः—
तद्यथा—१ गीतम् २ नृत्यम् ३ वाद्यम् ४ कौशललिपिज्ज्ञानम् ५ वचनं चोदा-
रम् ६ चित्रविधिः ७ पुस्तकर्म ८ पत्रच्छेद्यम् ९ माल्यविधिः १० गन्धयुक्त्या
स्वाद्यविधानम् ११ रत्नपरीक्षा १२ सीवनम् १३ रङ्गपरिज्ञानम् १४ उपक-
रणक्रिया १५ मानविधिः १६ आजीवज्ञानम् १७ तिर्यग्योनिकिकित्सि-
तम् १८ मायाकृतपाषण्डसमयज्ञानम् १९ क्रीडाकौशलम् २० लोकज्ञानम्
२१ वैचक्षण्यम् २२ संवाहनम् २३ शरीरसंस्कारः २४ विशेषकौशलं चेति ।

द्यूताश्रया विंशतिः—तत्र निर्जीवाः पञ्चदश, तद्यथा—२५ आयुःप्राप्तिः
२६ अक्षविधानम् २७ रूपसंख्या २८ क्रियामार्गणम् २९ बीजग्रहणम्