सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

दशनच्छेद्यविधय एकादशं प्रकरणम् ।

११० सटीक कामसूत्रे [ २अधिकरणे,

तदुभयमपि च चण्डवेगयोः ॥ १८ ॥
इति दशनच्छेद्यानि ।

तदुभयमपि खण्डाभ्रकं वराहचर्वितकं च छेद्यं चण्डवेगयोः, तत्सात्म्याद्, एषां नायिकाऽपि प्रयोक्त्री द्रष्टव्या, उभयोरपि शास्त्राधिकाराद्, देशकालकार्यवशात् किञ्चिदेव कस्य चिदसाधारणम्, एतावन्ति दशनच्छेद्यानि सांप्रयोगिकान्युक्तानि, प्रयोज्याशरीरे प्रयोज्यमानत्वाद्, अभियोगे त्वसंभवात् ॥ १८ ॥

आकारप्रदर्शनार्थं सांक्रान्तिकमाभियोगिकमाह—

विशेषके कर्णपूरे पुष्पापीडे ताम्बूलपलाशे तमालपत्रे चेति प्रयोज्यागामिषु नखदशनच्छेद्यादीन्याभियोगिकानि ॥ १९ ॥

विशेषक इति । भूर्जपत्रादिकलिपततिलके, कर्णपूरे नीलोत्पलादौ, पुष्पापीड इत्युपलक्षणं शेखरे, सुसज्जितताम्बूलीपत्रे, तमालपत्रे सुरभिचयनङ्गलेखीकृते, एषां छेद्यविषयत्वाद्, इतिशब्दः प्रकारे, प्रयोज्यागामिष्विति । गमिष्यन्तीति गामिनः, 'भविष्यति गम्यादयः, ।३।३।३। इति सूत्रात्, प्रयोज्यागामिनो विशेषाकादयः, 'गमि गम्यादीनाम्'-२।३।२४ सू० वार्ति० इति समासः । तेषु हि च्छेद्यानि संक्रान्तकान्याभियोगिकानि भवन्ति, नखदशनच्छेद्यादीनीति । नखच्छेद्यमाभियोगिकं प्राङ् नोक्तम्, इहैकविषयत्वादेकीकृत्योक्तम् ॥ १९ ॥

दशनच्छेद्यविधय एकादशं प्रकरणम् ।

देशप्रवृत्तयो देश्या उपचारास्तानाह—

देशसात्म्याच्च योषित उपचरेत् ॥ २० ॥

देशसात्म्यादिति । ल्यब्लोपे पञ्चमी, सात्म्यं द्विविधं—देशतः, प्रकृतितश्च, तत्र चुम्बनादीनां येन यस्मिन्देशे सात्म्यमवस्थितं तदपेक्ष्य, तेन तत्र योषित उपचरेत्, स्वयं तच्छीलवद्भवैङ्, उपलक्षणमेतत्, पुरुषानपि योषित् ॥ २० ॥

तत्र मध्यदेशस्य प्रधानत्वात्तत्सात्म्यमाह—

मध्यदेश्या आर्यप्रायाः शुच्युपचाराऽचुम्बननखदन्तपदद्वेषिण्यः ॥ २१ ॥

मध्यदेश्या इति ।

'हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः' ॥ इति भृगुः,

५ अध्याये ] दशनच्छेदप्रकरणम्। १११

'गङ्गायमुनयोरित्येके, इति वशिष्ठः, अयमेव शास्त्रकृतां प्राधान्ये-
नाभिप्रेतः, तत्र भवा मध्यदेश्याः, शुच्युपचाराः सुरते शुचिसमुदाचा-
राः, आर्यप्रायतवात्, चुम्बनादित्रयं द्वेष्टुं शीलमासाम्, आलिङ्गनमि-
च्छन्ति, प्रहणनेषु मध्याः ॥ २१ ॥

बाह्लीकदेश्या आवन्तिक्यश्च ॥ २२ ॥

बाह्लीकदेश्याः=उत्तरापथिकाः, आवन्तिक्यः=उज्जयिनीदेशभवाः,
ता एवापरमालव्यः, चुम्बनादिद्वेषिण्यः ॥ २२ ॥

पूर्वाभ्यो विशेषमाह—

चित्ररतेषु त्वासामाभिनिवेशः ॥ २३ ॥

चित्ररतेष्विति । चित्ररतानि वक्ष्यन्ते, तेष्वभिनिवेशोऽतिप्रीतिकर-
त्वात् ॥ २३ ॥

परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहणन-
साध्या मालव्य आभीर्यश्च ॥ २४ ॥

मालव्य इति । पूर्वमालवभवाः, परिष्वङ्गचुम्बनादीनि प्राधान्येने-
च्छन्ति, क्षतविवर्जिताः तोदन्तु नखदन्ताभ्यामिच्छन्ति, प्रहणनसाध्याः
प्रहणनेन जातरतयः, आभीर्य इति । आभीरदेशः श्रीकण्ठकुरुक्षेत्रादि-
भूमिः, तत्र भवाः ॥ २४ ॥

सिन्धुषष्ठानां च नदीनामन्तराळीया औपरिष्टिकसात्म्याः ॥२५॥

सिन्धुषष्ठानां चेति । सिन्धुनदः षष्ठो यासां नदीनां, तद्यथा-
विपाट् शतद्रुरिरावती चन्द्रभागा वितस्ता चेति पञ्चनद्यः, तासाम-
न्तरालेषु भवाः, औपरिष्टिकसात्म्या इति । सत्यपि परिष्वङ्गचुम्बना-
दौ मुखे जघनकर्मणा प्रीयन्त इत्यर्थः, खरवेगाः प्रीयन्त इति भावः॥२५॥

चण्डवेगा मन्दसीत्कृता आपरान्तिक्यो लाट्यश्च ॥२६॥

आपरान्तिक्य इति । पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः,
अत्रत्यैः किलार्जुनसकाशाद्विष्णोरन्तःपुरमाच्छिन्नमिति, लाट्यश्चे-
ति । अपरमालवात्पश्चिमेन लाटविषयः, तत्र भवाः चण्डवेगाः, म-
न्दसीत्कृता इति । क्षतानि मन्दं च प्रहारं सहन्त इत्यर्थः, तदुङ्ग-
वत्वात् सीत्कृतस्य ॥ २६ ॥

दृढप्रहरणयोगिन्यः खरवेगा एवापद्रव्यप्रधानाः स्त्रीरा-
ज्ये कोशलायां च ॥ २७ ॥

स्त्रीराज्य इति । बङ्गदेशात्पश्चिमेन स्त्रीराज्यं तत्र, कोशलायां-

११२सटीके कामसूत्रे[ २ अधिकरणे,

च योषितः सत्यप्यालिङ्गनादौ दृढप्रहारैः प्रीयमाणाः संप्रयुज्यन्ते, खरवेगा एवेत्यवधारणात्सर्वदैवेत्यर्थः, कण्डूते रताधिक्याद्रागः खर इत्युच्यते, तदभावे तु चण्ड इति विशेषः, एवं च सत्यपद्रव्यप्रधानाः, कण्डूतिप्रतीकारार्थं प्राधान्येन कृत्रिमसाधनमिच्छन्तीत्यर्थः ॥ २७ ॥

प्रकृत्या मृद्व्यो रतिप्रिया अशुचिरुचयां निराचाराश्चान्ध्र्यः ॥२८॥

आन्ध्र्य इति। नर्मदाया दक्षिणेन देशो दक्षिणापथः, तत्र कर्णाटविषयात्पूर्वेणान्ध्रविषयः, तत्र भवाः, प्रकृत्या स्वभावेन मृद्वङ्ग्यो न प्रहणनादि सहन्ते, किं तु रतिप्रियाः, पुरुषोपसृप्तमिच्छन्तीत्यर्थः, अशुचिरुचयोऽविविक्तसमुदाचाराः निराचाराश्च, भिन्नमर्यादा इत्यर्थः॥२८॥

सकलचतुःषष्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यप्रियाः शयने च सरभसोपक्रमा महाराष्ट्रियक्यः ॥ २९ ॥

महाराष्ट्रियक्य इति । नर्मदाकर्णाटविषययोर्मध्ये महाराष्ट्रविषयः, तत्र भवाः, सकलायाश्चतुःषष्टेः पाञ्चालिक्या गीताद्यायाश्च प्रयोगेण रागस्तासां भवतीति तत्प्रयोगरागिण्यः, अश्लीलं ग्राम्यं परुषं च निष्ठुरं वाक्यं वदन्ति सहन्ते चेति तत्प्रियाः, शयने चेति । संप्रयोगे, रभसोपक्रमा इति । धृष्टत्वादादावेव रभसेन पुरुषमभियुञ्जत इत्यर्थः ॥२९॥

तथाविधा एव रहसि प्रकाशान्ते नागरिक्यः ॥ ३० ॥

नागरिक्य इति । पाटलिपुत्रिक्यः, तथाविधा एवेति । तेनैव प्रकारेण सकलचतुःषष्टिप्रयोगरागितयाऽश्लीलपरुषवाक्यप्रियतया च रहसि विजने प्रकाशन्ते सत्रपत्वाद्, महाराष्ट्रियक्यस्तु प्रकाशे रहसि चेति विशेषः, शयने च रभसोपक्रमत्वं तुल्यम् ॥ ३० ॥

मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्राविड्यः ॥३१॥

द्राविड्य इति । कर्णाटविषयाद्दक्षिणेन द्रविडविषयः, तत्र भवाः, अभियोगादिति। यन्त्रयोगात्प्रागालिङ्गनाद्यभियोगात्प्रभृति पुरुषेण मृद्यमाना बहिरन्तश्च शिथिलीक्रियमाणावयवा मन्दं मन्दं प्रसिञ्चन्त इति स्तोकं स्तोकं मूर्च्छनासुखवर्जितं क्षरणं कुर्वत इति, अमन्दत्वात्, ततोऽन्ते समाक्षिप्तवेगा विसृष्टिः, तेनैकस्मिन्नेव रते निवृत्तरागा भवन्तीति दर्शयति ॥३१॥

मध्यमवेगाः सर्वसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहामिन्यः कुत्सिताश्लीलपरुषपरिहारिण्यो वानवासिक्यः ॥ ३२ ॥

वानवासिक्य इति । कोङ्कणविषयात्पूर्वेण वनवासविषयः, तत्र भवाः मध्यमवेगा भावतः कालतश्च सर्वमालिङ्गनादिकं सहन्ते,

५ अध्याये ] देश्योपचारप्रकरणम् । ११३

व्यक्तमात्मनः शरीरे दोषं प्रच्छादयन्ति, परस्योपहसन्ति, कुत्सित-
रूपेण व्यवहारेण चाश्लीलं ग्राम्यं पुरुषं परिहरन्ति, न तेन सं-
प्रयुज्यन्ते ॥ ३२ ॥

मृदुभाषिण्योऽनुरागवत्यो मृद्वङ्गयश्च गौड्यः ॥ ३३ ॥

गौड्य इति । गौड्यः पूर्वदेशभवा मृदुभाषिण्यः प्रदर्शनार्थं चैतद-
न्यदपि लक्षयेत् ॥ ३३ ॥

देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति सुवर्णनाभो, न तत्र
देश्या उपचाराः ॥ ३४ ॥

प्रकृतिसात्म्यमिति । प्रकृतिः=स्वभावः, तत्सात्म्यमेव मन्यते, दे-
शप्रकृतिसात्म्येनैवोपचाराः कर्तव्याः, उभयसंनिपाते विरोधे सति
देशसात्म्यात्प्रकृतिसात्म्यं बलीयोऽन्तरङ्गत्वान्, न तत्र देश्या उपचारा-
इति सुवर्णनामस्य, आचार्याणां तु प्रकृतिसात्म्यपरिहारेणैव देशसा-
त्म्येनोपचरेदिति मतं, शास्त्रकृतोऽपि सुवर्णनाभमतमेवाभिमतमप्र-
तिषिद्धत्वात् ॥ ३४ ॥

कालयोगान्च देशाद्देशान्तरमुपचारवेषलीलाश्चानुगच्छन्ति,
तच्च विद्यात् ॥ ३५ ॥

कालयोगाच्चेति । कालान्तरेण, देशाद्देशान्तरं, तथा तत्रत्यानुपचा-
रान् वेषं नेपथ्यं लीलां चेष्टाविशेषमनुगच्छन्ति, तच्चेति । देशान्तराद्य-
नुगमनं तत्त्वतो विद्याद्, अन्यथोपचारादिदर्शनेन तद्देशजेयमित्युपचर्य-
माणादालिङ्गनादितो विगुणा स्यात्, तस्मात्संचारिगुणत्यागेन स्थायि-
देशप्रचारैरेवावधार्य; प्रकृतिसात्म्येनोपचरेत् ॥ ३५ ॥

उपगूहनादिषु च रागवर्धनं पूर्वं पूर्वं विचित्रमुत्तरमुत्तरं च ॥३६॥

उपगूहनादिष्विति । आलिङ्गनचुम्बननखदशनच्छेदप्रहरणसीत्कृतेषु
षट्सु बहिः कर्मसु पूर्वं पूर्वं रागवर्धनं, तत्र सीत्कृताच्छ्रुतिरमणीया-
त्प्रहरणं स्पर्शकरं रागवर्धनं, ततो दशनच्छेद्यमतिस्पर्शकरं, ततो-
ऽपि परिहारेण नखच्छेद्यं, तस्मादपि चुम्बनं मृदुस्पर्शकरं, ततोऽपि
सर्वाङ्गीकमालिङ्गनमतिस्पर्शकारीति, विचित्रमुत्तरोत्तरमिति, तत्रोपगू-
हनात्स्थूलकर्मणश्चुम्बनं कुटिलकर्म विचित्रं, ततो नखविलेखनं,
तस्मादपि दशनच्छेद्यमतिकुटिलं, ततोऽपि प्रहणनं यतस्तद्धस्तला-
घवान्मृदुपरिहारेण रागं दीपयति, ततोऽपि सीत्कृतं यदुपदेशेऽपि
दुर्ग्रहमिति ॥ ३६ ॥

एवं देशसात्म्यात्परस्परमुपचरतोश्छेद्यकलहोऽपि स्यात्, तत्र प्रीति-

१५ का० सू०

११४ | सटीके कामसूत्रे | [ २ अधिकरणे,

स्थिरीकरणार्थं चेष्टितमुच्यते, तद् द्विविधं—रहसि प्रकाशे च सेवने, तत्र पूर्वमधिकृत्याह —

वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम् ।
अमृष्यमाणा द्विगुणं तदेव प्रतियोजयेत् ॥ ३७ ॥

वार्यमाण इति । आङ्गिकेन वाचिकेन वाऽभिनयेन निषिध्यमानः प्रकृतिसात्म्याद्, यदा त्वनिषिध्यमानस्तदा कृते प्रतिकृतं कुर्यादित्ययमेव पक्षः, न द्विगुणयोजनं कलहो वा, द्यूतकलहोऽपि द्यूतमधिकृत्योक्तम्, इह सात्म्यं विशेषः, अमृष्यमाणेति । अक्षममाणा, द्विगुणं प्रयुक्तादधिकरुच्छेद्यं यत्तदेव न विजातीयम्, प्रतियोजयेत्=प्रतीपं-योजयेत् ॥ ३७ ॥

कस्य किं द्विगुणमित्याह—

बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकम् ।
इति क्रोधादिवाविष्टा कलहान्प्रतियोजयेत् ॥ ३८ ॥

बिन्दोरिति । मालेति बिन्दुमाला, तस्या अप्यभ्रखण्डकं प्रतीकारः, इत्येवं द्विगुणं प्रतीकारं बुद्ध्वा योजयेत्कलहं प्रति, तथाऽभ्रखण्डस्य वराहचर्वितकं, गूढस्योच्छूनकं, तस्य प्रवालमणिः, तस्यापि मणिमाला, तस्या अपि बिन्दुरिति, तत्र पूर्वाणि चत्वारि त्वचि स्थितानि, शेषाणि त्वचमतिक्रम्य; क्रोधादिवाविष्टेति । कृतककोपेन दर्शितावस्थाऽन्तरा, कलहान्तरं कृतककलहदर्शनार्थम् ॥ ३८ ॥

सकचग्रहमुन्नम्य मुखं तस्य ततः पिबेत् ।
निलीयेत दशेच्चैव तत्र तत्र मदेरिता ॥ ३९ ॥

मुखं पिबेदधरपानाख्येन चुम्बनेन, तत्र चायं विदग्धक्रमः, सकचग्रहमुन्नम्येति । पाणिनाैकेन कचेषु द्वितीयेन चिबुके परिगृह्योत्तानीकृत्येत्यर्थः, निलीयेत दृढं संश्लिष्येद्, दशेच्च तत्र तत्र च्छेद्यस्थाने यत्र यत्र वा तेन दष्टा, मदेरिता=पानमदप्रेरिता, तदेव चेष्टितं सुखयति ॥ ३९ ॥

विधानान्तरमाह—

उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् ।
मणिमालां प्रयुञ्जीत यच्चान्यदपि लक्षितम् ॥ ४० ॥

उन्नम्येति । संश्रिता वक्षसः स्थलीमेकेन बाहुपाशेनावेष्ट्य कण्ठमुन्नम्य द्वितीयेन हस्तेन चिबुकं गृहीत्वा; मणिमालां प्रयुञ्जीत, गले स्व-