सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

२ अध्याये ] पुनर्भूगावृत्तप्रकरणम् । २१५

२ अध्याये ] पुनर्भूगावृत्तप्रकरणम् । २१५

स्वेच्छया चेति । न तु नायकदोषात्तेन गृहान्निर्गच्छन्ती प्रीतिदायादन्यन्नायकदत्तं लोहक्षुरं दीयेत दाप्येत ॥ ४७ ॥

सा प्रभविष्णुरिव तस्य भवनमाप्नुयात् ॥ ४८ ॥

सेति । जिगमिषुः, प्रभविष्णुरिव स्वामिनीव नायकगृहं स्वीकुर्यात्॥४८॥

तावन्तमपि कालं निजासु किं कुर्यादित्याह—

कुलजासु तु प्रीत्या वर्तेत ॥ ४९ ॥

कुलजास्विति । धर्मोढासु, प्रीत्या = स्नेहेन ॥ ४९ ॥

दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः ॥५०॥

परिजने सर्वत्र कुलजानां नायकस्य दाक्षिण्येन वर्तेत, सपरिहासा सविकारा ॥ ५० ॥

कलासु कौशलमधिकस्य च ज्ञानम् ॥ ५१ ॥

कलासु कौशलं दर्शनीयमधिकस्य नायकाविदितस्य ज्ञानं दर्शयितव्यम् ॥ ५१ ॥

कलहस्थानेषु च नायकं स्वयमुपालभेत ॥ ५२ ॥

कलहस्थानेष्विति । उचितविच्छेदः स्वैरिणीसंसर्गोऽचिरात्तत्र गमनं वासकान्निष्क्रमणं चेत्यस्याः कलहस्थानानि, तेषु स्वयमुपालभेत॥५२॥

रहसि च कलया चतुःषष्ट्याऽनुवर्तेत ॥ ५३ ॥

रहसि चेति । नायकं शयनागतं, कलयेति । आलिङ्गनादिभिः पुरुषोपसृप्तान्तैः ॥ ५३ ॥

सपत्नीनां च स्वयमुपकुर्यात् ॥ ५४ ॥

सपत्नीनां कुलजानाम्, उपकुर्यादुत्पन्ने प्रयोजने ॥ ५४ ॥

तासामपत्येष्वाभरणदानम् ॥ ५५ ॥

आभरणं मण्डनकादि ॥ ५५ ॥

तेषु स्वामिवदुपचारः ॥ ५६ ॥

स्वामिवदुपचारस्तेषां कुलसंततिहेतुत्वाद् ॥ ५६ ॥

मण्डनकानि वेषानादरेण कुर्वीत ॥ ५७ ॥

मण्डनकानि पुष्पानुलेपनादीनि ॥ ५७ ॥

परिजने मित्रवर्गे चाधिकं विश्राणनम् ॥ ५८ ॥

परिजन इति । आत्मीये, विश्राणनमिति । दानम् ॥ ५८ ॥

समाजापानकोद्यानयात्राविहारशीलता च॥ ५९ ॥

इति पुनर्भूवृत्तम् ॥

२१६ सटीक कामसूत्रे [४ अधिकरणे,

समाजेति । गोष्ठीशीलता, आपानशीलता, उद्यानविहारशीलता, यात्राविहारशीलता चेति ॥ ५९ ॥

पुनर्भूवृत्तं षट्त्रिंशं प्रकरणम् ॥

आसां भार्याणां दुर्भगाऽपि काचित्संभवति, तया कथं वर्तितव्य-मिति दुर्भगावृत्तमुच्यते—

दुर्भगा तु सापत्न्यपीडिता या तासामधिकमिव पत्यावुपच-रेत्तामाश्रयेत् ॥ ६० ॥

दुर्भगा त्विति । सापत्न्यपीडितेति । दौर्भाग्यफलं, तासामिति । सपत्नीनां मध्ये या पत्यावुपचरेद्, अधिकमिवेति । नायकेनाधिकृतेन या त्वधिका सपत्न्युपचिता तां सुतरामेवाश्रयेत् ॥ ६० ॥

प्रकाश्यानि च कलाविज्ञानानि दर्शयेत् ॥ ६१ ॥

तामाश्रित्य प्रकाश्यानि कलाविज्ञानानि पत्रच्छेद्यादिकौशलानि दर्शयेत् ॥ ६१ ॥

दौर्भाग्याद्रहस्यानामभावः ॥ ६२ ॥

दौर्भाग्याद्रहस्यानामभावः, वैदग्ध्यख्यापनं हि दौर्भाग्यनिवृत्ति-कारणम् ॥ ६२ ॥

नायकापत्यानां धात्रीकर्माणि कुर्यात् ॥ ६३ ॥

धात्रीकर्माण्यभ्यञ्जनोद्वर्तनस्नपनादीनि ॥ ६३ ॥

तन्मित्राणि चोपगृह्य तैर्भक्तिमात्मनः प्रकाशयेत् ॥ ६४ ॥

तन्मित्राणि चेति । नायकमित्राणि च, उपगृह्य प्रियहिताभ्यां, तैरिति । उपगृहीतैर्भक्तिमात्मनः श्रावयेद्दशाठ्यख्यापनार्थम् ॥ ६४ ॥

धर्मकृत्येषु च पुरश्चारिणी स्याद् व्रतोपवासयोश्च ॥ ६५ ॥

धर्मकृत्येषु = श्राद्धादिषु, पुरश्चारिणी = प्रारम्भिका, स्याद्, व्रतोप-वासयोश्च नायकेन क्रियमाणयोः पुरश्चारिणी ॥ ६५ ॥

परिजने दाक्षिण्यं, न चाधिकमात्मानं पश्येत् ॥ ६६ ॥

परिजने नायकस्य, दाक्षिण्यमानुकूल्यं दर्शयितव्यं, न चाधिक-मात्मानं पश्येत्सपत्नीभ्यः परिजनेभ्यश्च दौर्भाग्यहेतुत्वात् ॥ ६६ ॥

इति बाह्यमेतद् वृत्तम् ॥

आभ्यन्तरमाह—

शयने तत्सात्म्येनात्मनोऽनुरागप्रत्यायनम् ॥ ६७ ॥

शयन इति । तत्सात्म्येनेति । नायकानुकूल्येन, यथैव नायकोऽभि-युङ्क्ते, तथैवानिच्छन्त्यप्यात्मनोऽनुरागमातृसिं प्रत्याययेत् ॥ ६७ ॥