कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
३ अध्याये ] अर्थागमोपायप्रकरणम् । २९३
३ अध्याये ] अर्थागमोपायप्रकरणम् । २९३
तथेति । यथा स्वद्रव्यस्य दाहादिना नाशस्तथा याचितालंकाराणां-कार्यवशादन्यतो मार्गितानां, नायकालङ्काराणां तेन स्थापितानां, दाहादिना नाशे प्रकाशितेऽवश्यं प्रयच्छति, स्वकीयं च न मृगयते, प्रणिधिभिरिति । परिचारकमुखा ये नायकेन प्रणिहितास्तैर्व्ययस्य निवेदनं,-नायकाग्रतस्त्वामभिगन्तुमस्याः सरकताम्बूलादिभिरियान् व्यय उत्थित इति ॥ ९ ॥
तदर्थमृणग्रहणं, जनन्या सह तदुद्भवस्य व्ययस्य विवादः ॥१०॥
तदर्थमिति । नायकनिमित्तव्ययार्थम्, ऋणग्रहणं, तत्समक्षमित्यर्थाद्, जनन्येति । ऋणं किमिति गृह्णासि कथं त्वया शोधयितव्यम् ? इत्यभिदधत्या मात्रा सह, तदुद्भवस्य नायकसंबन्धिनः कृते नात्मीयस्य, विवादः कर्तव्यः किं तवाहमेवात्मानमपि विक्रीय शोधयिष्यामीति, तेन तथाविधं दृष्ट्वाऽवश्यं ददातीत्यर्थः ॥ १० ॥
सुहृत्कार्येष्वनभिगमनमनभिहारहेतोः ॥ ११ ॥
सुहृत्कार्येष्विति । नायकमित्रोत्सवादिष्वनभिगमनं कार्यमाहूयमानयाऽपि नायकेन शब्द्यमानयाऽपि, कारणमाह—अनभिहारहेतोरिति । अभिहारः = उपायनं, तन्मम नास्तीति ॥ ११ ॥
तैश्च पूर्वमाहृता गुरवोऽभिहाराः पूर्वमुपनीताः पूर्वं श्राविताः-
स्युः ॥ १२ ॥
तैश्च पूर्वमाहृता इति । सुहृद्भिरस्माकमप्युत्सवे महान्तोऽभिहाराः-पूर्वमुपनीता इति नायकस्य पूर्वं श्राविताः स्युः, यावदेव सुहृत्कार्यं न संभवति, पूर्वं याचितं हि कार्यकाले प्रयच्छति, यदि न दद्यादवश्यमेव तदानीमनभिगमनम् ॥ १२ ॥
उचितानां क्रियाणां विच्छित्तिः ॥ १३ ॥
उचितानामिति । प्रत्यहं शरीरस्थित्यर्थं क्रियमाणानां, विच्छेदः-कार्यः, येनायमिदानीं शरीरस्थितिरप्यस्या न संभवतीति ॥ १३ ॥
नायकार्थं च शिल्पिषु कार्यम् ॥ १४ ॥
नायकार्थं चेति । नायकादर्थो यस्मिन् कार्ये तत् कार्यं, शिल्पिषु निर्देश्यमिति शेषः, अयमुत्कृष्टः शिल्पी कारयेयं बहु मृगयते, तच्च मम नास्ति यदि त्वं प्रयच्छसि नो चेद्यदा भविष्यति तदा कारयिष्यामीति ॥ १४ ॥
वैद्यमहामात्रयोरुपकारक्रिया कार्यहेतोः ॥ १५ ॥
उपकारक्रिया = उपकारकरणं, कार्यहेतोरिति । इदं तत्कार्यं यदुप-
२९४ सटीक कामसूत्रे [ ६ अधिकरणे,
कृतो वैद्यो भेषजापदेशेन नायकेन दापयति, महामात्रश्चोपकृतो हठाद्दा-
तुकामेनापि ॥ १५ ॥
मित्राणां चोपकारिणां व्यसनेष्वभ्युपपत्तिः ॥ १६ ॥
मित्राणामिति । नायकसम्बन्धिनामुपकर्तुं शीलं येषां नान्येषां,-
व्यसनेषु दैवमानुषेषु, अभ्युपपत्तिः = साहाय्यं, तानि हि व्यसनेष्वभ्यु-
पपन्नानि नायकमभिधायोपकुर्वन्ति ॥ १६ ॥
गृहकर्म, सख्याः पुत्रस्योत्सञ्जनं, दोहदं, व्याधिः, मित्रस्य
दुःखापनयनमिति ॥ १७ ॥
गृहकर्म = छादनवेष्टनादि कारयितव्यं, सख्याः स्वस्याः पुत्रस्योत्सञ्जनं
यस्योत्सवताप्रतिपत्तिः, क्रियाकालोपलक्षणं चैतद्, अन्नप्राशनं चूडाकर-
णादि वा करणीयं, दोहदः = अभिलाषः, अस्मत्सख्याः, व्याधिर्वाऽऽक-
स्मिकः प्रतिकर्तव्यः, मित्रस्य च युष्मदीयस्य, पुत्रादिमरणान्ममेह दुःख-
मुत्पन्नं तस्य दर्शनादपनेतव्यमित्येवं गृहकर्मादि व्यपदेश्यमिति शेषः ॥१७॥
अलङ्कारैकदेशविक्रयो नायकस्यार्थे ॥ १८ ॥
अलङ्कारैकदेशविक्रय इति । स्वस्यालङ्कारस्यैकदेशमाकृष्य तत्स-
मक्षं विक्रयो येनायं मदर्थं विक्रीणातीति प्रयच्छति ॥ १८ ॥
तया शीलितस्य चालंकारस्य भाण्डोपस्करस्य वा वणिजो-
विक्रयार्थं दर्शनम् ॥ १९ ॥
तया नायिकया, शीलितस्य रुचितालङ्कारस्य, भाण्डोपस्करस्य
वा शीलितस्य, वणिजः कृतसङ्केतस्य, नायकसमक्षं दर्शनं कर्तव्यं येनायं-
नास्त्यस्याः किमपि यच्छीलितमपि विक्रेतुमारब्धमिति प्रयच्छति ॥१९॥
'भाण्डसंप्लवे विशिष्टग्रहणम्' इति, दत्तकसूत्रम्, अस्य स्पष्टार्थं सूत्रा-
न्तरमाह—
प्रतिगणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्ट-
स्य ग्रहणम् ॥ २० ॥
प्रतिगणिकानामिति । भाण्डस्य सादृश्यात्स्वेन भाण्डेन व्यति-
करे परिवर्ते सति, मा भूत्पुनरेवमिति प्रतिशिष्टस्य, प्रमाणसंस्थाना-
भ्यां ततोऽधिकस्य, ग्रहणं, वणिजो हस्तात् क्रमेण नायकसमक्षं कुर्याद्,
येनायं क्रीत्वा प्रयच्छति, प्रायशश्च वेश्यानां सामान्यानां कार्योत्पत्ताव-
न्योन्यस्य भाण्डं याचितकं भवतीति प्रतिगणिकाग्रहणम् ॥ २० ॥
पूर्वोपकाराणामविस्मरणमनुकीर्तनं च ॥ २१ ॥