रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टमः सर्गः २६५
अष्टमः सर्गः २६५
अयमात्मजो बालः । प्रतिपच्चन्द्रनिभः दर्शनीयो वर्धिष्णुश्चेत्यर्थः । प्रतिपच्छब्देन द्वितीया लक्ष्यते । प्रतिपदि चन्द्रस्यादर्शनात् । अहमेकरसोऽभिन्नरागः । 'शृङ्गा-रादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । तथापि जीवितसामग्रीसत्त्वे-ऽपीत्यर्थः । ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुर क्रूरः । 'प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च । प्रागल्भ्ये च प्रबोधे च' इति विश्वः । स्मर्तुं न शक्यः किमुताधिकर्तुमिति भावः ।
भाषार्थ—हे प्रिये ! सुख-दुःख में समान रहनेवाली सखियां खड़ी हैं, प्रतिपद के चन्द्रमाके समान सुन्दर और माता द्वारा पालन की अपेक्षा रखनेवाला छोटा-सा अबोध बालक भी यहीं है और तुम्हारा अनन्य प्रेमी मैं भी तुम्हारे साथ हूँ । तथापि हम लोगों को छोड़ कर स्वर्ग चले जाने का यह तुम्हारा व्यवहार अत्यन्त निष्ठुर मालूम पड़ता है ॥ ६५ ॥
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६ ॥
अन्वयः—अद्य मे धृतिः अस्तम् इता रतिः च्युता गेयं विरतम् ऋतुः निरुत्सवः आभरणप्रयोजनं गतं शयनीयं परिशून्यम् अभूत् ।
धृतिरिति । अद्य मे धृतिर्धैर्यं प्रतीतिर्वास्तं नाशमिता । रतिः क्रीडा च्युता गता । गेयं गानं विरतम् । ऋतुर्वसन्तादिर्निरुत्सवः । आभरणानां प्रयोजनं गतमपगतम् । शेतेऽस्मिन्निति शयनीयं तल्पम् । "कृत्यल्युटो बहुलम्" इत्यधिकर-णेऽनीयर् प्रत्ययः । परिशून्यं त्वां विना सर्वमपि निष्फलमिति भावः ।
भाषार्थ—हे प्रिये ! आज तेरे बिना मैं अधीर हो रहा हूँ, मेरा आनन्द जाता रहा, गाना बजाना बन्द हो गया भूषण पहनने का प्रयोजन समाप्त हो गया और मेरी सेज सूनी हो गई; अधिक क्या कहूँ तेरे बिना सभी व्यर्थ हैं ।
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हतम् ॥ ६७ ॥
अन्वयः—त्वं एव गृहिणी सचिवः मिथः सखी ललिते कलाविधौ प्रियशिष्या असि । अतः त्वां हरता करुणाविमुखेन मृत्युना मे किं न हृतं त्वं वद ।
गृहिणीति । त्वमेव गृहिणी दाराः । अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः । सचिवो बुद्धिसहायो मन्त्री हितोपदेशस्त्वदायत्त इत्यनेनोच्यते । मिथो रहसि सखी नर्मसचिवः । सर्वोपभोगस्त्वदाश्रय इत्यमुना प्रकटितम् । ललिते मनोहर कलविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या प्रियत्वं प्राज्ञत्वादि-
२६४ रघुवंशमहाकाव्ये
त्यभिसन्धिः सर्वानन्दोजेनेन त्वन्निबन्धन इत्युद्घाटितम् । अंतस्त्वां समष्टिरूपां
हरता अत एव अकरणाविमुखेन कृपाशून्येन मृत्युना मे मत्त्सम्बन्धि किं वस्तु न
हृतं वद । सर्वमपि हृतमित्यर्थः ।
भाषार्थ—हे प्रिये ! तुम्हीं मेरी धर्मपत्नी सम्मति देने वाला मंत्री एकान्त
की सखी और गान आदि ललित कलाओं के प्रयोग में प्रिय शिष्या थी । तुम्हीं
कहो तुमको हरण करते हुए निर्दय मृत्यु ने मेरा क्या नहीं छीन लिया ? अर्थात्
मृत्यु ने आज मेरा सर्वस्व हरण कर लिया ॥ ६७ ॥
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ६८ ॥
अन्वयः—हे मदिराक्षि ! मदाननार्पितं रसवत् मधु पीत्वा त्वं परलोकोपनतं
मे बाष्पदूषितं जलाञ्जलि कथं नु अनुपास्यसि ।
मदिरेति । माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि नार्यो मदिरलोचनाः
इत्यादिप्रयोगदर्शनान्माद्यत्यामिति मदिरे अक्षिणी अस्यास्तत्संबुद्धौहे मदिराक्षि
मत्तलोचने ! मदाननेनार्पितं रसवत्स्वादुतरं मधु मद्यं पीत्वा बाष्पदूषितमश्रुतप्तं
परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलि तिलोदकाञ्जलि कथं त्वननन्तरं पास्यसि।
तदनन्तरमिदमयुक्तमित्यर्थः । तथाह भट्टमल्लः—'अनुपसानं हिमजलं यवगो-
धूमनिर्मिते । दध्नि मद्ये द्राक्षे पिष्टे पिष्टमयेऽपि च ।' इति तच्चेहैव इदं
लोकान्तरोपयोगि चेत्यायुर्वेदविरोध तत्कथमनुपास्यसीति भावः ।
भाषार्थ—हे मदिराक्षि प्रिये ! पहले मेरे मुख से प्रेम पूर्वक दिये हुए
स्वादिष्टमद्यको पीकर बाद में अब तुम मेरी आंसुओं से दूषित परलोक में प्राप्त
तिलाञ्जलि को कैसे पीओगी ॥ ६८ ॥
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९ ॥
अन्वयः—विभवे सति अपि त्वया विना अजस्य एतावत् एव सुखं जनैः
गण्यतां विलोभनान्तरैः अहृतस्य मम सर्वे विषया त्वदाश्रयाः सन्ति ।
विभव इति । विभवे ऐश्वर्ये सत्यपि त्वया विनाऽजस्यैतावदेव सुखं गण्यताम्
यावत्त्वया सह भुक्तं ततोऽन्यत्र किंचिद्भवष्यतीत्यर्थः । कुतः विलोभनान्तरैर्विषया
न्तरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयस्त्वदाश्रयास्त्वदधीनाः । त्वां विना
मे न किंचिद्रोचत इत्यर्थः ।
भाषार्थ—हे प्रिये ! इतना ऐश्वर्य होने पर भी तुम्हारे बिना अज का सारा
अष्टमः सर्गः
२६५
सुख मिट्टी में मिल गया, क्योंकि मुझे और किसी वस्तु से तो प्रेम है नहीं। मेरे सभी सुखों का केन्द्र तो तुम्हीं थी ॥ ६९ ॥
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरूहानपि स्रुतशाखारसवाष्पदूषितान् ॥ ७० ॥
अन्वयः—कोसलाधिपः प्रियां प्रति इति करुणार्थग्रथितं विलपन् पृथिवीरूहान् अपि स्रुतशाखारसवाष्पदोषितान् अकरोत् ।
विलपन्निति । कोसलाधिपोऽज इति करुणाः शोकरसः स एवार्थस्तेन ग्रथितं सम्बद्धं यथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्पृथिवीरुहान्वृक्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैर्दुषितानकरोत् । अचेतनानप्यरोदयदित्यर्थः ।
भाषार्थ—इस प्रकार प्रिया इन्दुमती के लिए सकरुण विलाप करते हुए कोशलनरेश अज ने वृक्षों को भी गिरते हुए गोंद रूपी आँसुओं से दूषित कर दिया । अर्थात् अज के रोते हुए देखकर वृक्षों को भी रस रूपी आंसू वहा कर रोने लगे ॥ ७० ॥
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् ।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥ ७१ ॥
अन्वयः—अथ स्वजनः तस्य अङ्कतः कथंचित् अपनीय तदन्त्यमण्डनां तां सुन्दरीम् अगुरुचन्दनैधसे अनलाय विससर्ज ।
अथेति । अथ स्वजनो बन्धुवर्गस्तस्याऽजस्याङ्कत उत्सङ्गात्कथंचिदपनीय तद्दिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्तां तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मै अनलायाग्नये विससर्ज विसृष्टवान् । ॐ क्रियाग्रहणमपि कर्तव्यम् * इति क्रियामात्रप्रयोगे संप्रदानत्वाच्चतुर्थी ।
भाषार्थ—इसके बाद आत्मीय जनों ने किसी प्रकार अज की गोद से उस सुन्दरी इन्दुमती को अलग करके उसी पुष्पमाला से उसका अन्तिम शृङ्गार करके और चन्दन की लकड़ियों से उसका दाह संस्कार कर दिया ॥ ७१ ॥
प्रमदामनुसंस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ७२ ॥
अन्वयः—नृपतिः सन् अपि शुचा प्रमदाम् अनुसंस्थितः इति वाक्यदर्शनात् देव्या सह शरीरम् अग्निसात् न चकार जीविताशया तु न ।
प्रमदामिति—नृपतिरजः सन्नपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितो मृत इति वाच्यदर्शनान्निन्दादर्शनाद् देव्येन्दुमत्या सह शरीरमग्निसा-
२६६ रघुवंशमहाकाव्ये
दग्न्यधीनं न चकार । "तदधीनवचने" इति सातिप्रत्ययः । जीविताशया प्राणे-
च्छया तु नेति ।
भाषार्थ—'राजा अज विद्वान् होते हुए भी शोक से प्रिया के पीछे मर गये'
इस लोकनिन्दा के भय से ही इन्दुमती के साथ अपने शरीर को अग्नि में नहीं
जलाया किन्तु जीने की आशा से नहीं । ७२ ॥
अथ तेन दशाहतः परे गुणशेषामुपदिश्य भामिनीम् ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ७३ ॥
अन्वयः—अथ विदुषा तेन गुणशेषां भामिनीम् उपदिश्य, दशाहतः परे
महर्द्धयः विधयः पुरः उपवने एव समापिताः ।
अथेति । अथ विदुषा शास्त्रज्ञेन तेनाजेन गुणा एव शेषा रूपादयो यस्यास्तां
गुणशेषां भामिनीमिन्दुमतीमुपदिश्योद्दिश्य दशानामह्नां समाहारो दशाहः ।
"तद्धितार्थोत्तरपदसमाहारे च" इत्यनेन समासः । समाहारस्यैकत्वादेकवचनम् ।
"राजाहःसखिभ्यष्टच्" इति टच् । "रात्राह्नाहाः पुंसि" इति पुंवत् ततस्तसिल् ।
तस्माद्दशाहतः परं ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या
उपवन उद्याने एवं समापिताः सम्पूर्णमनुष्ठिताः । 'दशाहतः' इत्यत्र "विप्रः शुध्ये-
द्दशाहेन द्वादशाहेन भूमिपः" इति मनुवचनविरोधो नाशङ्कनीयः । तस्य निर्गुण-
क्षत्रियविषयत्वात् । गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः—"क्षत्र्रि-
यस्तु दशाहेन स्वकर्मनिरतः शुचिः ।" इति सूच्यतेऽस्यापि गुणवत्त्वं विदुषेत्यनेन ।
भाषार्थ—इसके बाद शास्त्रज्ञ उस राजा ने गुणमात्र शेष से (मरी हुई)
इन्दुमती के उद्देश्य से दशाह के बाद की सारी उत्तर क्रियाओं को विस्तार
के साथ उसी उपवन में पूरा किया ॥ ७३ ॥
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्त्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४ ॥
अन्वयः—तया विना क्षणदापायशशाङ्कदर्शनः सः पौरवधूमुखाश्रुषु स्वशुचः
परिवाहम् इव अवलोकयन् पुरीं विवेश ।
स इति । तयेन्दुमत्य। विना क्षणदाया रात्रेरेपायेऽपगमे यः शशाङ्कश्चन्द्रः स
इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः । प्रातःकालिकचन्द्र एव दृश्यमान इत्यर्थः ।
दृश्यत इति कर्मार्थे ल्युट् । सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं
जलोच्छ्वासमिवावलोकयन् । 'जलोच्छ्वासाः परिवाहाः' इत्यमरः । स्वदुःख-